Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Kunti's Praise
Śrīmad Bhāgavatam
›
Canto 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अथ
ते
संपरेतानां
स्वानामुदकमिच्छताम्
।
दातुं
सकृष्णा
गङ्गायां
पुरस्कृत्य
ययुः
स्त्रियः
2
▾
Meaning
Keep
ते
निनीयोदकं
सर्वे
विलप्य
च
भृशं
पुनः
।
आप्लुता
हरिपादाब्जरजःपूतसरिज्जले
3
▾
Meaning
Keep
तत्रासीनं
कुरुपतिं
धृतराष्ट्रं
सहानुजम्
।
गान्धारीं
पुत्रशोकार्तां
पृथां
कृष्णां
च
माधवः
4
▾
Meaning
Keep
सान्त्वयामास
मुनिभिर्हतबन्धूञ्छुचार्पितान्
।
भूतेषु
कालस्य
गतिं
दर्शयन्न
प्रतिक्रियाम्
5
▾
Meaning
Keep
साधयित्वाऽजातशत्रोः
स्वं
राज्यं
कितवैर्हृतम्
।
घातयित्वाऽसतो
राज्ञः
कचस्पर्शक्षतायुषः
6
▾
Meaning
Keep
याजयित्वाश्वमेधैस्तं
त्रिभिरुत्तमकल्पकैः
।
तद्यशः
पावनं
दिक्षु
शतमन्योरिवातनोत्
7
▾
Meaning
Keep
आमन्त्र्य
पाण्डुपुत्रांश्च
शैनेयोद्धवसंयुतः
।
द्वैपायनादिभिर्विप्रैः
पूजितैः
प्रतिपूजितः
8
▾
Meaning
Keep
गन्तुं
कृतमतिर्ब्रह्मन्
द्वारकां
रथमास्थितः
।
उपलेभेऽभिधावन्तीमुत्तरां
भयविह्वलाम्
9
▾
Meaning
Keep
पाहि
पाहि
महायोगिन्
देवदेव
जगत्पते
।
नान्यं
त्वदभयं
पश्ये
यत्र
मृत्युः
परस्परम्
10
▾
Meaning
Keep
अभिद्रवति
मामीश
शरस्तप्तायसो
विभो
।
कामं
दहतु
मां
नाथ
मा
मे
गर्भो
निपात्यताम्
11
▾
Meaning
Keep
उपधार्य
वचस्तस्या
भगवान्
भक्तवत्सलः
।
अपाण्डवमिदं
कर्तुं
द्रौणेरस्त्रमबुध्यत
12
▾
Meaning
Keep
तर्ह्येवाथ
मुनिश्रेष्ठ
पाण्डवाः
पञ्च
सायकान्
।
आत्मनोऽभिमुखान्
दीप्तानालक्ष्यास्त्राण्युपाददुः
13
▾
Meaning
Keep
व्यसनं
वीक्ष्य
तत्तेषामनन्यविषयात्मनाम्
।
सुदर्शनेन
स्वास्त्रेण
स्वानां
रक्षां
व्यधाद्विभुः
14
▾
Meaning
Keep
अन्तःस्थः
सर्वभूतानामात्मा
योगेश्वरो
हरिः
।
स्वमाययाऽऽवृणोद्गर्भं
वैराट्याः
कुरुतन्तवे
15
▾
Meaning
Keep
यद्यप्यस्त्रं
ब्रह्मशिरस्त्वमोघं
चाप्रतिक्रियम्
।
वैष्णवं
तेज
आसाद्य
समशाम्यद्भृगूद्वह
16
▾
Meaning
Keep
मा
मंस्था
ह्येतदाश्चर्यं
सर्वाश्चर्यमयेऽच्युते
।
य
इदं
मायया
देव्या
सृजत्यवति
हन्त्यजः
17
▾
Meaning
Keep
ब्रह्मतेजोविनिर्मुक्तैरात्मजैः
सह
कृष्णया
।
प्रयाणाभिमुखं
कृष्णमिदमाह
पृथा
सती
18
▾
Meaning
Keep
कुन्त्युवाच ।
नमस्ये पुरुषं त्वाऽऽद्यमीश्वरं प्रकृतेः परम् ।
अलक्ष्यं सर्वभूतानामन्तर्बहिरवस्थितम्
19
▾
Meaning
Keep
मायाजवनिकाच्छन्नमज्ञाधोक्षजमव्ययम्
।
न
लक्ष्यसे
मूढदृशा
नटो
नाट्यधरो
यथा
20
▾
Meaning
Keep
तथा
परमहंसानां
मुनीनाममलात्मनाम्
।
भक्तियोगविधानार्थं
कथं
पश्येम
हि
स्त्रियः
Hymn
21
▾
Meaning
Keep
कृष्णाय
वासुदेवाय
देवकीनन्दनाय
च
।
नन्दगोपकुमाराय
गोविन्दाय
नमो
नमः
22
▾
Meaning
Keep
नमः
पङ्कजनाभाय
नमः
पङ्कजमालिने
।
नमः
पङ्कजनेत्राय
नमस्ते
पङ्कजाङ्घ्रये
23
▾
Meaning
Keep
यथा
हृषीकेश
खलेन
देवकी
कंसेन
रुद्धातिचिरं
शुचार्पिता
।
विमोचिताहं
च
सहात्मजा
विभो
त्वयैव
नाथेन
मुहुर्विपद्गणात्
24
▾
Meaning
Keep
विषान्महाग्नेः
पुरुषाददर्शना-
दसत्सभाया
वनवासकृच्छ्रतः
।
मृधे
मृधेऽनेकमहारथास्त्रतो
द्रौण्यस्त्रतश्चास्म
हरेऽभिरक्षिताः
25
▾
Meaning
Keep
विपदः
सन्तु
ताः
शश्वत्तत्र
तत्र
जगद्गुरो
।
भवतो
दर्शनं
यत्स्यादपुनर्भवदर्शनम्
26
▾
Meaning
Keep
जन्मैश्वर्यश्रुतश्रीभिरेधमानमदः
पुमान्
।
नैवार्हत्यभिधातुं
वै
त्वामकिञ्चनगोचरम्
27
▾
Meaning
Keep
नमोऽकिञ्चनवित्ताय
निवृत्तगुणवृत्तये
।
आत्मारामाय
शान्ताय
कैवल्यपतये
नमः
28
▾
Meaning
Keep
मन्ये
त्वां
कालमीशानमनादिनिधनं
विभुम्
।
समं
चरन्तं
सर्वत्र
भूतानां
यन्मिथः
कलिः
29
▾
Meaning
Keep
न
वेद
कश्चिद्भगवंश्चिकीर्षितं
तवेहमानस्य
नृणां
विडम्बनम्
।
न
यस्य
कश्चिद्दयितोऽस्ति
कर्हिचि-
द्द्वेष्यश्च
यस्मिन्विषमा
मतिर्नृणाम्
30
▾
Meaning
Keep
जन्म
कर्म
च
विश्वात्मन्नजस्याकर्तुरात्मनः
।
तिर्यङ्नॄषिषु
यादःसु
तदत्यन्तविडम्बनम्
31
▾
Meaning
Keep
गोप्याददे
त्वयि
कृतागसि
दाम
तावद्
या
ते
दशाश्रुकलिलाञ्जनसंभ्रमाक्षम्
।
वक्त्रं
निनीय
भयभावनया
स्थितस्य
सा
मां
विमोहयति
भीरपि
यद्बिभेति
32
▾
Meaning
Keep
केचिदाहुरजं
जातं
पुण्यश्लोकस्य
कीर्तये
।
यदोः
प्रियस्यान्ववाये
मलयस्येव
चन्दनम्
33
▾
Meaning
Keep
अपरे
वसुदेवस्य
देवक्यां
याचितोऽभ्यगात्
।
अजस्त्वमस्य
क्षेमाय
वधाय
च
सुरद्विषाम्
34
▾
Meaning
Keep
भारावतारणायान्ये
भुवो
नाव
इवोदधौ
।
सीदन्त्या
भूरिभारेण
जातो
ह्यात्मभुवार्थितः
35
▾
Meaning
Keep
भवेऽस्मिन्
क्लिश्यमानानामविद्याकामकर्मभिः
।
श्रवणस्मरणार्हाणि
करिष्यन्निति
केचन
36
▾
Meaning
Keep
शृण्वन्ति
गायन्ति
गृणन्त्यभीक्ष्णशः
स्मरन्ति
नन्दन्ति
तवेहितं
जनाः
।
त
एव
पश्यन्त्यचिरेण
तावकं
भवप्रवाहोपरमं
पदाम्बुजम्
37
▾
Meaning
Keep
अप्यद्य
नस्त्वं
स्वकृतेहित
प्रभो
जिहाससि
स्वित्सुहृदोऽनुजीविनः
।
येषां
न
चान्यद्भवतः
पदाम्बुजा-
त्परायणं
राजसु
योजितांहसाम्
38
▾
Meaning
Keep
के
वयं
नामरूपाभ्यां
यदुभिः
सह
पाण्डवाः
।
भवतोऽदर्शनं
यर्हि
हृषीकाणामिवेशितुः
39
▾
Meaning
Keep
नेयं
शोभिष्यते
तत्र
यथेदानीं
गदाधर
।
त्वत्पदैरङ्किता
भाति
स्वलक्षणविलक्षितैः
40
▾
Meaning
Keep
इमे
जनपदाः
स्वृद्धाः
सुपक्वौषधिवीरुधः
।
वनाद्रिनद्युदन्वन्तो
ह्येधन्ते
तव
वीक्षितैः
41
▾
Meaning
Keep
अथ
विश्वेश
विश्वात्मन्
विश्वमूर्ते
स्वकेषु
मे
।
स्नेहपाशमिमं
छिन्धि
दृढं
पाण्डुषु
वृष्णिषु
42
▾
Meaning
Keep
त्वयि
मेऽनन्यविषया
मतिर्मधुपतेऽसकृत्
।
रतिमुद्वहतादद्धा
गङ्गेवौघमुदन्वति
43
▾
Meaning
Keep
श्रीकृष्ण
कृष्णसख
वृष्ण्यृषभावनिध्रुग्-
राजन्यवंशदहनानपवर्गवीर्य
।
गोविन्द
गोद्विजसुरार्तिहरावतार
योगेश्वराखिलगुरो
भगवन्
नमस्ते
44
▾
Meaning
Keep
पृथयेत्थं
कलपदैः
परिणूताखिलोदयः
।
मन्दं
जहास
वैकुण्ठो
मोहयन्निव
मायया
45
▾
Meaning
Keep
तां
बाढमित्युपामन्त्र्य
प्रविश्य
गजसाह्वयम्
।
स्त्रियश्च
स्वपुरं
यास्यन्
प्रेम्णा
राज्ञा
निवारितः
46
▾
Meaning
Keep
व्यासाद्यैरीश्वरेहाज्ञैः
कृष्णेनाद्भुतकर्मणा
।
प्रबोधितोऽपीतिहासैर्नाबुध्यत
शुचार्पितः
47
▾
Meaning
Keep
आह
राजा
धर्मसुतश्चिन्तयन्
सुहृदां
वधम्
।
प्राकृतेनात्मना
विप्राः
स्नेहमोहवशं
गतः
48
▾
Meaning
Keep
अहो
मे
पश्यताज्ञानं
हृदि
रूढं
दुरात्मनः
।
पारक्यस्यैव
देहस्य
बह्व्यो
मेऽक्षौहिणीर्हताः
49
▾
Meaning
Keep
बालद्विजसुहृन्मित्रपितृभ्रातृगुरुद्रुहः
।
न
मे
स्यान्निरयान्मोक्षो
ह्यपि
वर्षायुतायुतैः
50
▾
Meaning
Keep
नैनो
राज्ञः
प्रजाभर्तुर्धर्मयुद्धे
वधो
द्विषाम्
।
इति
मे
न
तु
बोधाय
कल्पते
शासनं
वचः
51
▾
Meaning
Keep
स्त्रीणां
मद्धतबन्धूनां
द्रोहो
योऽसाविहोत्थितः
।
कर्मभिर्गृहमेधीयैर्नाहं
कल्पो
व्यपोहितुम्
52
▾
Meaning
Keep
यथा
पङ्केन
पङ्काम्भः
सुरया
वा
सुराकृतम्
।
भूतहत्यां
तथैवैकां
न
यज्ञैर्मार्ष्टुमर्हति
Previous
←
Asvatthaman Punished
Next
Bhisma Lets Go
→