Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Bhisma Lets Go
Śrīmad Bhāgavatam
›
Canto 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
इति
भीतः
प्रजाद्रोहात्सर्वधर्मविवित्सया
।
ततो
विनशनं
प्रागाद्यत्र
देवव्रतोऽपतत्
2
▾
Meaning
Keep
तदा
ते
भ्रातरः
सर्वे
सदश्वैः
स्वर्णभूषितैः
।
अन्वगच्छन्
रथैर्विप्रा
व्यासधौम्यादयस्तथा
3
▾
Meaning
Keep
भगवानपि
विप्रर्षे
रथेन
सधनंजयः
।
स
तैर्व्यरोचत
नृपः
कुबेर
इव
गुह्यकैः
4
▾
Meaning
Keep
दृष्ट्वा
निपतितं
भूमौ
दिवश्च्युतमिवामरम्
।
प्रणेमुः
पाण्डवा
भीष्मं
सानुगाः
सह
चक्रिणा
5
▾
Meaning
Keep
तत्र
ब्रह्मर्षयः
सर्वे
देवर्षयश्च
सत्तम
।
राजर्षयश्च
तत्रासन्
द्रष्टुं
भरतपुङ्गवम्
6
▾
Meaning
Keep
पर्वतो
नारदो
धौम्यो
भगवान्
बादरायणः
।
बृहदश्वो
भरद्वाजः
सशिष्यो
रेणुकासुतः
7
▾
Meaning
Keep
वसिष्ठ
इन्द्रप्रमदस्त्रितो
गृत्समदोऽसितः
।
कक्षीवान्
गौतमोऽत्रिश्च
कौशिकोऽथ
सुदर्शनः
8
▾
Meaning
Keep
अन्ये
च
मुनयो
ब्रह्मन्
ब्रह्मरातादयोऽमलाः
।
शिष्यैरुपेता
आजग्मुः
कश्यपाङ्गिरसादयः
9
▾
Meaning
Keep
तान्
समेतान्
महाभागानुपलभ्य
वसूत्तमः
।
पूजयामास
धर्मज्ञो
देशकालविभागवित्
10
▾
Meaning
Keep
कृष्णं
च
तत्प्रभावज्ञ
आसीनं
जगदीश्वरम्
।
हृदिस्थं
पूजयामास
माययोपात्तविग्रहम्
11
▾
Meaning
Keep
पाण्डुपुत्रानुपासीनान्
प्रश्रयप्रेमसङ्गतान्
।
अभ्याचष्टानुरागाश्रैरन्धीभूतेन
चक्षुषा
12
▾
Meaning
Keep
अहो
कष्टमहोऽन्याय्यं
यद्यूयं
धर्मनन्दनाः
।
जीवितुं
नार्हथ
क्लिष्टं
विप्रधर्माच्युताश्रयाः
13
▾
Meaning
Keep
संस्थितेऽतिरथे
पाण्डौ
पृथा
बालप्रजा
वधूः
।
युष्मत्कृते
बहून्
क्लेशान्
प्राप्ता
तोकवती
मुहुः
14
▾
Meaning
Keep
सर्वं
कालकृतं
मन्ये
भवतां
च
यदप्रियम्
।
सपालो
यद्वशे
लोको
वायोरिव
घनावलिः
15
▾
Meaning
Keep
यत्र
धर्मसुतो
राजा
गदापाणिर्वृकोदरः
।
कृष्णोऽस्त्री
गाण्डिवं
चापं
सुहृत्कृष्णस्ततो
विपत्
16
▾
Meaning
Keep
न
ह्यस्य
कर्हिचिद्राजन्
पुमान्
वेद
विधित्सितम्
।
यद्विजिज्ञासया
युक्ता
मुह्यन्ति
कवयोऽपि
हि
17
▾
Meaning
Keep
तस्मादिदं
दैवतन्त्रं
व्यवस्य
भरतर्षभ
।
तस्यानुविहितोऽनाथा
नाथ
पाहि
प्रजाः
प्रभो
18
▾
Meaning
Keep
एष
वै
भगवान्
साक्षादाद्यो
नारायणः
पुमान्
।
मोहयन्
मायया
लोकं
गूढश्चरति
वृष्णिषु
19
▾
Meaning
Keep
अस्यानुभावं
भगवान्
वेद
गुह्यतमं
शिवः
।
देवर्षिर्नारदः
साक्षाद्भगवान्
कपिलो
नृप
20
▾
Meaning
Keep
यं
मन्यसे
मातुलेयं
प्रियं
मित्रं
सुहृत्तमम्
।
अकरोः
सचिवं
दूतं
सौहृदादथ
सारथिम्
21
▾
Meaning
Keep
सर्वात्मनः
समदृशो
ह्यद्वयस्यानहङ्कृतेः
।
तत्कृतं
मतिवैषम्यं
निरवद्यस्य
न
क्वचित्
22
▾
Meaning
Keep
तथाप्येकान्तभक्तेषु
पश्य
भूपानुकम्पितम्
।
यन्मेऽसूंस्त्यजतः
साक्षात्कृष्णो
दर्शनमागतः
23
▾
Meaning
Keep
भक्त्याऽऽवेश्य
मनो
यस्मिन्
वाचा
यन्नाम
कीर्तयन्
।
त्यजन्
कलेवरं
योगी
मुच्यते
कामकर्मभिः
24
▾
Meaning
Keep
स
देवदेवो
भगवान्
प्रतीक्षतां
कलेवरं
यावदिदं
हिनोम्यहम्
।
प्रसन्नहासारुणलोचनोल्लस-
न्मुखाम्बुजो
ध्यानपथश्चतुर्भुजः
25
▾
Meaning
Keep
युधिष्ठिरस्तदाकर्ण्य
शयानं
शरपञ्जरे
।
अपृच्छद्विविधान्
धर्मान्
ऋषीणां
चानुशृण्वताम्
26
▾
Meaning
Keep
पुरुषस्वभावविहितान्
यथावर्णं
यथाश्रमम्
।
वैराग्यरागोपाधिभ्यामाम्नातोभयलक्षणान्
27
▾
Meaning
Keep
दानधर्मान्
राजधर्मान्
मोक्षधर्मान्
विभागशः
।
स्त्रीधर्मान्
भगवद्धर्मान्
समासव्यासयोगतः
28
▾
Meaning
Keep
धर्मार्थकाममोक्षांश्च
सहोपायान्
यथा
मुने
।
नानाख्यानेतिहासेषु
वर्णयामास
तत्त्ववित्
29
▾
Meaning
Keep
धर्मं
प्रवदतस्तस्य
स
कालः
प्रत्युपस्थितः
।
यो
योगिनश्छन्दमृत्योर्वाञ्छितस्तूत्तरायणः
30
▾
Meaning
Keep
तदोपसंहृत्य
गिरः
सहस्रणी-
र्विमुक्तसङ्गं
मन
आदिपूरुषे
।
कृष्णे
लसत्पीतपटे
चतुर्भुजे
पुरः
स्थितेऽमीलितदृग्व्यधारयत्
Hymn
31
▾
Meaning
Keep
विशुद्धया
धारणया
हताशुभस्तदीक्षयैवाशु
गतायुधव्यथः
।
निवृत्तसर्वेन्द्रियवृत्तिविभ्रमस्तुष्टाव
जन्यं
विसृजञ्जनार्दनम्
32
▾
Meaning
Keep
इति
मतिरुपकल्पिता
वितृष्णा
भगवति
सात्वतपुङ्गवे
विभूम्नि
।
स्वसुखमुपगते
क्वचिद्विहर्तुं
प्रकृतिमुपेयुषि
यद्भवप्रवाहः
33
▾
Meaning
Keep
त्रिभुवनकमनं
तमालवर्णं
रविकरगौरवराम्बरं
दधाने
।
वपुरलककुलावृताननाब्जं
विजयसखे
रतिरस्तु
मेऽनवद्या
34
▾
Meaning
Keep
युधि
तुरगरजोविधूम्रविष्वक्कचलुलितश्रमवार्यलंकृतास्ये
।
मम
निशितशरैर्विभिद्यमानत्वचि
विलसत्कवचेऽस्तु
कृष्ण
आत्मा
35
▾
Meaning
Keep
सपदि
सखिवचो
निशम्य
मध्ये
निजपरयोर्बलयो
रथं
निवेश्य
।
स्थितवति
परसैनिकायुरक्ष्णा
हृतवति
पार्थसखे
रतिर्ममास्तु
36
▾
Meaning
Keep
व्यवहितपृतनामुखं
निरीक्ष्य
स्वजनवधाद्विमुखस्य
दोषबुद्ध्या
।
कुमतिमहरदात्मविद्यया
य-
श्चरणरतिः
परमस्य
तस्य
मेऽस्तु
37
▾
Meaning
Keep
स्वनिगममपहाय
मत्प्रतिज्ञा-
मृतमधिकर्तुमवप्लुतो
रथस्थः
।
धृतरथचरणोऽभ्ययाच्चलद्गु-
र्हरिरिव
हन्तुमिभं
गतोत्तरीयः
38
▾
Meaning
Keep
शितविशिखहतो
विशीर्णदंशः
क्षतजपरिप्लुत
आततायिनो
मे
।
प्रसभमभिससार
मद्वधार्थं
स
भवतु
मे
भगवान्
गतिर्मुकुन्दः
39
▾
Meaning
Keep
विजयरथकुटुम्ब
आत्ततोत्रे
धृतहयरश्मिनि
तच्छ्रियेक्षणीये
।
भगवति
रतिरस्तु
मे
मुमूर्षो-
र्यमिह
निरीक्ष्य
हता
गताः
स्वरूपम्
40
▾
Meaning
Keep
ललितगतिविलासवल्गुहास-
प्रणयनिरीक्षणकल्पितोरुमानाः
।
कृतमनुकृतवत्य
उन्मदान्धाः
प्रकृतिमगन्
किल
यस्य
गोपवध्वः
41
▾
Meaning
Keep
मुनिगणनृपवर्यसङ्कुलेऽन्तः-
सदसि
युधिष्ठिरराजसूय
एषाम्
।
अर्हणमुपपेद
ईक्षणीयो
मम
दृशिगोचर
एष
आविरात्मा
42
▾
Meaning
Keep
तमिममहमजं
शरीरभाजां
हृदि
हृदि
धिष्ठितमात्मकल्पितानाम्
।
प्रतिदृशमिव
नैकधार्कमेकं
समधिगतोऽस्मि
विधूतभेदमोहः
43
▾
Meaning
Keep
कृष्ण
एवं
भगवति
मनोवाग्दृष्टिवृत्तिभिः
।
आत्मन्यात्मानमावेश्य
सोऽन्तःश्वास
उपारमत्
44
▾
Meaning
Keep
संपद्यमानमाज्ञाय
भीष्मं
ब्रह्मणि
निष्कले
।
सर्वे
बभूवुस्ते
तूष्णीं
वयांसीव
दिनात्यये
45
▾
Meaning
Keep
तत्र
दुन्दुभयो
नेदुर्देवमानववादिताः
।
शशंसुः
साधवो
राज्ञां
खात्पेतुः
पुष्पवृष्टयः
46
▾
Meaning
Keep
तस्य
निर्हरणादीनि
सम्परेतस्य
भार्गव
।
युधिष्ठिरः
कारयित्वा
मुहूर्तं
दुःखितोऽभवत्
47
▾
Meaning
Keep
तुष्टुवुर्मुनयो
हृष्टाः
कृष्णं
तद्गुह्यनामभिः
।
ततस्ते
कृष्णहृदयाः
स्वाश्रमान्
प्रययुः
पुनः
48
▾
Meaning
Keep
ततो
युधिष्ठिरो
गत्वा
सहकृष्णो
गजाह्वयम्
।
पितरं
सान्त्वयामास
गान्धारीं
च
तपस्विनीम्
49
▾
Meaning
Keep
पित्रा
चानुमतो
राजा
वासुदेवानुमोदितः
।
चकार
राज्यं
धर्मेण
पितृपैतामहं
विभुः
Previous
←
Kunti's Praise
Next
Krsna Leaves for Dvaraka
→