Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Pariksit Is Born
Śrīmad Bhāgavatam
›
Canto 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अश्वत्थाम्नोपसृष्टेन
ब्रह्मशीर्ष्णोरुतेजसा
।
उत्तराया
हतो
गर्भ
ईशेनाजीवितः
पुनः
2
▾
Meaning
Keep
तस्य
जन्म
महाबुद्धेः
कर्माणि
च
महात्मनः
।
निधनं
च
यथैवासीत्स
प्रेत्य
गतवान्
यथा
3
▾
Meaning
Keep
तदिदं
श्रोतुमिच्छामो
गदितुं
यदि
मन्यसे
।
ब्रूहि
नः
श्रद्दधानानां
यस्य
ज्ञानमदाच्छुकः
4
▾
Meaning
Keep
अपीपलद्धर्मराजः
पितृवद्रञ्जयन्
प्रजाः
।
निःस्पृहः
सर्वकामेभ्यः
कृष्णपादाब्जसेवया
5
▾
Meaning
Keep
सम्पदः
क्रतवो
लोका
महिषी
भ्रातरो
मही
।
जम्बूद्वीपाधिपत्यं
च
यशश्च
त्रिदिवं
गतम्
6
▾
Meaning
Keep
किं
ते
कामाः
सुरस्पार्हा
मुकुन्दमनसो
द्विजाः
।
अधिजह्रुर्मुदं
राज्ञः
क्षुधितस्य
यथेतरे
7
▾
Meaning
Keep
मातुर्गर्भगतो
वीरः
स
तदा
भृगुनन्दन
।
ददर्श
पुरुषं
कञ्चिद्दह्यमानोऽस्त्रतेजसा
8
▾
Meaning
Keep
अङ्गुष्ठमात्रममलं
स्फुरत्पुरटमौलिनम्
।
अपीच्यदर्शनं
श्यामं
तडिद्वाससमच्युतम्
9
▾
Meaning
Keep
श्रीमद्दीर्घचतुर्बाहुं
तप्तकाञ्चनकुण्डलम्
।
क्षतजाक्षं
गदापाणिमात्मनः
सर्वतो
दिशम्
।
परिभ्रमन्तमुल्काभां
भ्रामयन्तं
गदां
मुहुः
10
▾
Meaning
Keep
अस्त्रतेजः
स्वगदया
नीहारमिव
गोपतिः
।
विधमन्तं
सन्निकर्षे
पर्यैक्षत
क
इत्यसौ
11
▾
Meaning
Keep
विधूय
तदमेयात्मा
भगवान्धर्मगुब्
विभुः
।
मिषतो
दशमासस्य
तत्रैवान्तर्दधे
हरिः
12
▾
Meaning
Keep
ततः
सर्वगुणोदर्के
सानुकूलग्रहोदये
।
जज्ञे
वंशधरः
पाण्डोर्भूयः
पाण्डुरिवौजसा
13
▾
Meaning
Keep
तस्य
प्रीतमना
राजा
विप्रैर्धौम्यकृपादिभिः
।
जातकं
कारयामास
वाचयित्वा
च
मङ्गलम्
14
▾
Meaning
Keep
हिरण्यं
गां
महीं
ग्रामान्
हस्त्यश्वान्
नृपतिर्वरान्
।
प्रादात्स्वन्नं
च
विप्रेभ्यः
प्रजातीर्थे
स
तीर्थवित्
15
▾
Meaning
Keep
तमूचुर्ब्राह्मणास्तुष्टा
राजानं
प्रश्रयान्वितम्
।
एष
ह्यस्मिन्
प्रजातन्तौ
पुरूणां
पौरवर्षभ
16
▾
Meaning
Keep
दैवेनाप्रतिघातेन
शुक्ले
संस्थामुपेयुषि
।
रातो
वोऽनुग्रहार्थाय
विष्णुना
प्रभविष्णुना
17
▾
Meaning
Keep
तस्मान्नाम्ना
विष्णुरात
इति
लोके
बृहच्छ्रवाः
।
भविष्यति
न
संदेहो
महाभागवतो
महान्
18
▾
Meaning
Keep
अप्येष
वंश्यान्
राजर्षीन्
पुण्यश्लोकान्
महात्मनः
।
अनुवर्तिता
स्विद्यशसा
साधुवादेन
सत्तमाः
19
▾
Meaning
Keep
ब्राह्मणा ऊचुः
पार्थ प्रजाविता साक्षादिक्ष्वाकुरिव मानवः ।
ब्रह्मण्यः सत्यसन्धश्च रामो दाशरथिर्यथा
20
▾
Meaning
Keep
एष
दाता
शरण्यश्च
यथा
ह्यौशीनरः
शिबिः
।
यशो
वितनिता
स्वानां
दौष्यन्तिरिव
यज्वनाम्
21
▾
Meaning
Keep
धन्विनामग्रणीरेष
तुल्यश्चार्जुनयोर्द्वयोः
।
हुताश
इव
दुर्धर्षः
समुद्र
इव
दुस्तरः
22
▾
Meaning
Keep
मृगेन्द्र
इव
विक्रान्तो
निषेव्यो
हिमवानिव
।
तितिक्षुर्वसुधेवासौ
सहिष्णुः
पितराविव
23
▾
Meaning
Keep
पितामहसमः
साम्ये
प्रसादे
गिरिशोपमः
।
आश्रयः
सर्वभूतानां
यथा
देवो
रमाश्रयः
24
▾
Meaning
Keep
सर्वसद्गुणमाहात्म्ये
एष
कृष्णमनुव्रतः
।
रन्तिदेव
इवोदारो
ययातिरिव
धार्मिकः
25
▾
Meaning
Keep
धृत्या
बलिसमः
कृष्णे
प्रह्लाद
इव
सद्ग्रहः
।
आहर्तैषोऽश्वमेधानां
वृद्धानां
पर्युपासकः
26
▾
Meaning
Keep
राजर्षीणां
जनयिता
शास्ता
चोत्पथगामिनाम्
।
निग्रहीता
कलेरेष
भुवो
धर्मस्य
कारणात्
27
▾
Meaning
Keep
तक्षकादात्मनो
मृत्युं
द्विजपुत्रोपसर्जितात्
।
प्रपत्स्यत
उपश्रुत्य
मुक्तसङ्गः
पदं
हरेः
28
▾
Meaning
Keep
जिज्ञासितात्मयाथात्म्यो
मुनेर्व्याससुतादसौ
।
हित्वेदं
नृप
गङ्गायां
यास्यत्यद्धाकुतोभयम्
29
▾
Meaning
Keep
इति
राज्ञ
उपादिश्य
विप्रा
जातककोविदाः
।
लब्धापचितयः
सर्वे
प्रतिजग्मुः
स्वकान्
गृहान्
30
▾
Meaning
Keep
स
एष
लोके
विख्यातः
परीक्षिदिति
यत्प्रभुः
।
गर्भे
दृष्टमनुध्यायन्
परीक्षेत
नरेष्विह
31
▾
Meaning
Keep
स
राजपुत्रो
ववृधे
आशु
शुक्ल
इवोडुपः
।
आपूर्यमाणः
पितृभिः
काष्ठाभिरिव
सोऽन्वहम्
32
▾
Meaning
Keep
यक्ष्यमाणोऽश्वमेधेन
ज्ञातिद्रोहजिहासया
।
राजालब्धधनो
दध्यावन्यत्र
करदण्डयोः
33
▾
Meaning
Keep
तदभिप्रेतमालक्ष्य
भ्रातरोऽच्युतचोदिताः
धनं
प्रहीणमाजह्रुरुदीच्यां
दिशि
भूरिशः
34
▾
Meaning
Keep
तेन
सम्भृतसम्भारो
धर्मपुत्रो
युधिष्ठिरः
।
वाजिमेधैस्त्रिभिर्भीतो
यज्ञैः
समयजद्धरिम्
35
▾
Meaning
Keep
आहूतो
भगवान्
राज्ञा
याजयित्वा
द्विजैर्नृपम्
।
उवास
कतिचिन्मासान्
सुहृदां
प्रियकाम्यया
36
▾
Meaning
Keep
ततो
राज्ञाभ्यनुज्ञातः
कृष्णया
सहबन्धुभिः
।
ययौ
द्वारवतीं
ब्रह्मन्
सार्जुनो
यदुभिर्वृतः
Previous
←
Dvaraka Welcomes Him Home
Next
Dhrtarastra Goes to the Forest
→