Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Dhrtarastra Goes to the Forest
Śrīmad Bhāgavatam
›
Canto 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
विदुरस्तीर्थयात्रायां
मैत्रेयादात्मनो
गतिम्
।
ज्ञात्वागाद्धास्तिनपुरं
तयावाप्तविवित्सितः
2
▾
Meaning
Keep
यावतः
कृतवान्
प्रश्नान्
क्षत्ता
कौषारवाग्रतः
।
जातैकभक्तिर्गोविन्दे
तेभ्यश्चोपरराम
ह
3
▾
Meaning
Keep
तं
बन्धुमागतं
दृष्ट्वा
धर्मपुत्रः
सहानुजः
।
धृतराष्ट्रो
युयुत्सुश्च
सूतः
शारद्वतः
पृथा
4
▾
Meaning
Keep
गान्धारी
द्रौपदी
ब्रह्मन्
सुभद्रा
चोत्तरा
कृपी
।
अन्याश्च
जामयः
पाण्डोर्ज्ञातयः
ससुताः
स्त्रियः
5
▾
Meaning
Keep
प्रत्युज्जग्मुः
प्रहर्षेण
प्राणं
तन्व
इवागतम्
।
अभिसंगम्य
विधिवत्परिष्वङ्गाभिवादनैः
6
▾
Meaning
Keep
मुमुचुः
प्रेमबाष्पौघं
विरहौत्कण्ठ्यकातराः
।
राजा
तमर्हयाञ्चक्रे
कृतासनपरिग्रहम्
7
▾
Meaning
Keep
तं
भुक्तवन्तं
विश्रान्तमासीनं
सुखमासने
।
प्रश्रयावनतो
राजा
प्राह
तेषां
च
शृण्वताम्
8
▾
Meaning
Keep
अपि
स्मरथ
नो
युष्मत्पक्षच्छायासमेधितान्
।
विपद्गणाद्विषाग्न्यादेर्मोचिता
यत्समातृकाः
9
▾
Meaning
Keep
कया
वृत्त्या
वर्तितं
वश्चरद्भिः
क्षितिमण्डलम्
।
तीर्थानि
क्षेत्रमुख्यानि
सेवितानीह
भूतले
10
▾
Meaning
Keep
भवद्विधा
भागवतास्तीर्थभूताः
स्वयं
विभो
।
तीर्थीकुर्वन्ति
तीर्थानि
स्वान्तःस्थेन
गदाभृता
11
▾
Meaning
Keep
अपि
नः
सुहृदस्तात
बान्धवाः
कृष्णदेवताः
।
दृष्टाः
श्रुता
वा
यदवः
स्वपुर्यां
सुखमासते
12
▾
Meaning
Keep
इत्युक्तो
धर्मराजेन
सर्वं
तत्समवर्णयत्
।
यथानुभूतं
क्रमशो
विना
यदुकुलक्षयम्
13
▾
Meaning
Keep
नन्वप्रियं
दुर्विषहं
नृणां
स्वयमुपस्थितम्
।
नावेदयत्सकरुणो
दुःखितान्
द्रष्टुमक्षमः
14
▾
Meaning
Keep
कञ्चित्कालमथावात्सीत्सत्कृतो
देववत्सुखम्
।
भ्रातुर्ज्येष्ठस्य
श्रेयस्कृत्सर्वेषां
सुखमावहन्
15
▾
Meaning
Keep
अबिभ्रदर्यमा
दण्डं
यथावदघकारिषु
।
यावद्दधार
शूद्रत्वं
शापाद्वर्षशतं
यमः
16
▾
Meaning
Keep
युधिष्ठिरो
लब्धराज्यो
दृष्ट्वा
पौत्रं
कुलंधरम्
।
भ्रातृभिर्लोकपालाभैर्मुमुदे
परया
श्रिया
17
▾
Meaning
Keep
एवं
गृहेषु
सक्तानां
प्रमत्तानां
तदीहया
।
अत्यक्रामदविज्ञातः
कालः
परमदुस्तरः
18
▾
Meaning
Keep
विदुरस्तदभिप्रेत्य
धृतराष्ट्रमभाषत
।
राजन्
निर्गम्यतां
शीघ्रं
पश्येदं
भयमागतम्
19
▾
Meaning
Keep
प्रतिक्रिया
न
यस्येह
कुतश्चित्कर्हिचित्प्रभो
।
स
एव
भगवान्
कालः
सर्वेषां
नः
समागतः
20
▾
Meaning
Keep
येन
चैवाभिपन्नोऽयं
प्राणैः
प्रियतमैरपि
।
जनः
सद्यो
वियुज्येत
किमुतान्यैर्धनादिभिः
21
▾
Meaning
Keep
पितृभ्रातृसुहृत्पुत्रा
हतास्ते
विगतं
वयः
।
आत्मा
च
जरया
ग्रस्तः
परगेहमुपाससे
22
▾
Meaning
Keep
अहो
महीयसी
जन्तोर्जीविताशा
यथा
भवान्
।
भीमापवर्जितं
पिण्डमादत्ते
गृहपालवत्
23
▾
Meaning
Keep
अग्निर्निसृष्टो
दत्तश्च
गरो
दाराश्च
दूषिताः
।
हृतं
क्षेत्रं
धनं
येषां
तद्दत्तैरसुभिः
कियत्
24
▾
Meaning
Keep
तस्यापि
तव
देहोऽयं
कृपणस्य
जिजीविषोः
।
परैत्यनिच्छतो
जीर्णो
जरया
वाससी
इव
25
▾
Meaning
Keep
गतस्वार्थमिमं
देहं
विरक्तो
मुक्तबन्धनः
।
अविज्ञातगतिर्जह्यात्स
वै
धीर
उदाहृतः
26
▾
Meaning
Keep
यः
स्वकात्परतो
वेह
जातनिर्वेद
आत्मवान्
।
हृदि
कृत्वा
हरिं
गेहात्प्रव्रजेत्स
नरोत्तमः
27
▾
Meaning
Keep
अथोदीचीं
दिशं
यातु
स्वैरज्ञातगतिर्भवान्
।
इतोऽर्वाक्
प्रायशः
कालः
पुंसां
गुणविकर्षणः
28
▾
Meaning
Keep
एवं
राजा
विदुरेणानुजेन
प्रज्ञाचक्षुर्बोधित
आजमीढः
।
छित्त्वा
स्वेषु
स्नेहपाशान्
द्रढिम्नो
निश्चक्राम
भ्रातृसन्दर्शिताध्वा
29
▾
Meaning
Keep
पतिं
प्रयान्तं
सुबलस्य
पुत्री
पतिव्रता
चानुजगाम
साध्वी
।
हिमालयं
न्यस्तदण्डप्रहर्षं
मनस्विनामिव
सत्सम्प्रहारः
30
▾
Meaning
Keep
अजातशत्रुः
कृतमैत्रो
हुताग्नि-
र्विप्रान्नत्वा
तिलगोभूमिरुक्मैः
।
गृहं
प्रविष्टो
गुरुवन्दनाय
न
चापश्यत्पितरौ
सौबलीं
च
31
▾
Meaning
Keep
तत्र
सञ्जयमासीनं
पप्रच्छोद्विग्नमानसः
।
गावल्गणे
क्व
नस्तातो
वृद्धो
हीनश्च
नेत्रयोः
32
▾
Meaning
Keep
अम्बा
च
हतपुत्राऽऽर्ता
पितृव्यः
क्व
गतः
सुहृत्
।
अपि
मय्यकृतप्रज्ञे
हतबन्धुः
स
भार्यया
।
आशंसमानः
शमलं
गङ्गायां
दुःखितोऽपतत्
33
▾
Meaning
Keep
पितर्युपरते
पाण्डौ
सर्वान्
नः
सुहृदः
शिशून्
।
अरक्षतां
व्यसनतः
पितृव्यौ
क्व
गतावितः
34
▾
Meaning
Keep
कृपया
स्नेहवैक्लब्यात्सूतो
विरहकर्शितः
।
आत्मेश्वरमचक्षाणो
न
प्रत्याहातिपीडितः
35
▾
Meaning
Keep
विमृज्याश्रूणि
पाणिभ्यां
विष्टभ्यात्मानमात्मना
।
अजातशत्रुं
प्रत्यूचे
प्रभोः
पादावनुस्मरन्
36
▾
Meaning
Keep
नाहं
वेद
व्यवसितं
पित्रोर्वः
कुलनन्दन
।
गान्धार्या
वा
महाबाहो
मुषितोऽस्मि
महात्मभिः
37
▾
Meaning
Keep
अथाजगाम
भगवान्नारदः
सहतुम्बुरुः
।
प्रत्युत्थायाभिवाद्याह
सानुजोऽभ्यर्चयन्निव
38
▾
Meaning
Keep
नाहं
वेद
गतिं
पित्रोर्भगवन्
क्व
गतावितः
।
अम्बा
वा
हतपुत्राऽऽर्ता
क्व
गता
च
तपस्विनी
39
▾
Meaning
Keep
कर्णधार
इवापारे
भगवान्
पारदर्शकः
।
अथाबभाषे
भगवान्नारदो
मुनिसत्तमः
40
▾
Meaning
Keep
मा
कञ्चन
शुचो
राजन्
यदीश्वरवशं
जगत्
।
लोकाः
सपाला
यस्येमे
वहन्ति
बलिमीशितुः
।
स
संयुनक्ति
भूतानि
स
एव
वियुनक्ति
च
41
▾
Meaning
Keep
यथा
गावो
नसि
प्रोतास्तन्त्यां
बद्धाः
स्वदामभिः
।
वाक्तन्त्यां
नामभिर्बद्धा
वहन्ति
बलिमीशितुः
42
▾
Meaning
Keep
यथा
क्रीडोपस्कराणां
संयोगविगमाविह
।
इच्छया
क्रीडितुः
स्यातां
तथैवेशेच्छया
नृणाम्
43
▾
Meaning
Keep
यन्मन्यसे
ध्रुवं
लोकमध्रुवं
वा
न
चोभयम्
।
सर्वथा
न
हि
शोच्यास्ते
स्नेहादन्यत्र
मोहजात्
44
▾
Meaning
Keep
तस्माज्जह्यङ्ग
वैक्लव्यमज्ञानकृतमात्मनः
।
कथं
त्वनाथाः
कृपणा
वर्तेरंस्ते
च
मां
विना
45
▾
Meaning
Keep
कालकर्मगुणाधीनो
देहोऽयं
पाञ्चभौतिकः
।
कथमन्यांस्तु
गोपायेत्सर्पग्रस्तो
यथा
परम्
46
▾
Meaning
Keep
अहस्तानि
सहस्तानामपदानि
चतुष्पदाम्
।
फल्गूनि
तत्र
महतां
जीवो
जीवस्य
जीवनम्
47
▾
Meaning
Keep
तदिदं
भगवान्
राजन्नेक
आत्माऽऽत्मनां
स्वदृक्
।
अन्तरोऽनन्तरो
भाति
पश्य
तं
माययोरुधा
48
▾
Meaning
Keep
सोऽयमद्य
महाराज
भगवान्
भूतभावनः
।
कालरूपोऽवतीर्णोऽस्यामभावाय
सुरद्विषाम्
49
▾
Meaning
Keep
निष्पादितं
देवकृत्यमवशेषं
प्रतीक्षते
।
तावद्यूयमवेक्षध्वं
भवेद्यावदिहेश्वरः
50
▾
Meaning
Keep
धृतराष्ट्रः
सह
भ्रात्रा
गान्धार्या
च
स्वभार्यया
।
दक्षिणेन
हिमवत
ऋषीणामाश्रमं
गतः
51
▾
Meaning
Keep
स्रोतोभिः
सप्तभिर्या
वै
स्वर्धुनी
सप्तधा
व्यधात्
।
सप्तानां
प्रीतये
नाना
सप्तस्रोतः
प्रचक्षते
52
▾
Meaning
Keep
स्नात्वानुसवनं
तस्मिन्
हुत्वा
चाग्नीन्
यथाविधि
।
अब्भक्ष
उपशान्तात्मा
स
आस्ते
विगतैषणः
53
▾
Meaning
Keep
जितासनो
जितश्वासः
प्रत्याहृतषडिन्द्रियः
।
हरिभावनया
ध्वस्तरजःसत्त्वतमोमलः
54
▾
Meaning
Keep
विज्ञानात्मनि
संयोज्य
क्षेत्रज्ञे
प्रविलाप्य
तम्
।
ब्रह्मण्यात्मानमाधारे
घटाम्बरमिवाम्बरे
55
▾
Meaning
Keep
ध्वस्तमायागुणोदर्को
निरुद्धकरणाशयः
।
निवर्तिताखिलाहार
आस्ते
स्थाणुरिवाचलः
।
तस्यान्तरायो
मैवाभूः
संन्यस्ताखिलकर्मणः
56
▾
Meaning
Keep
स
वा
अद्यतनाद्राजन्
परतः
पञ्चमेऽहनि
।
कलेवरं
हास्यति
स्वं
तच्च
भस्मीभविष्यति
57
▾
Meaning
Keep
दह्यमानेऽग्निभिर्देहे
पत्युः
पत्नी
सहोटजे
।
बहिः
स्थिता
पतिं
साध्वी
तमग्निमनुवेक्ष्यति
58
▾
Meaning
Keep
विदुरस्तु
तदाश्चर्यं
निशाम्य
कुरुनन्दन
।
हर्षशोकयुतस्तस्माद्गन्ता
तीर्थनिषेवकः
59
▾
Meaning
Keep
इत्युक्त्वाथारुहत्स्वर्गं
नारदः
सहतुम्बुरुः
।
युधिष्ठिरो
वचस्तस्य
हृदि
कृत्वाजहाच्छुचः
Previous
←
Pariksit Is Born
Next
The Omens at Hastinapura
→