Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Holding the Form, and the Two Freedoms
Śrīmad Bhāgavatam
›
Canto 2
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
एवं
पुरा
धारणयाऽऽत्मयोनि-
र्नष्टां
स्मृतिं
प्रत्यवरुध्य
तुष्टात्
।
तथा
ससर्जेदममोघदृष्टि-
र्यथाप्ययात्प्राग्व्यवसायबुद्धिः
2
▾
Meaning
Keep
शाब्दस्य
हि
ब्रह्मण
एष
पन्था
यन्नामभिर्ध्यायति
धीरपार्थैः
।
परिभ्रमंस्तत्र
न
विन्दतेऽर्थान्
मायामये
वासनया
शयानः
3
▾
Meaning
Keep
अतः
कविर्नामसु
यावदर्थः
स्यादप्रमत्तो
व्यवसायबुद्धिः
।
सिद्धेऽन्यथार्थे
न
यतेत
तत्र
परिश्रमं
तत्र
समीक्षमाणः
4
▾
Meaning
Keep
सत्यां
क्षितौ
किं
कशिपोः
प्रयासै-
र्बाहौ
स्वसिद्धे
ह्युपबर्हणैः
किम्
।
सत्यञ्जलौ
किं
पुरुधान्नपात्र्या
दिग्वल्कलादौ
सति
किं
दुकूलैः
5
▾
Meaning
Keep
चीराणि
किं
पथि
न
सन्ति
दिशन्ति
भिक्षां
नैवाङ्घ्रिपाः
परभृतः
सरितोऽप्यशुष्यन्
।
रुद्धा
गुहाः
किमजितोऽवति
नोपसन्नान्
कस्माद्भजन्ति
कवयो
धनदुर्मदान्धान्
6
▾
Meaning
Keep
एवं
स्वचित्ते
स्वत
एव
सिद्ध
आत्मा
प्रियोऽर्थो
भगवाननन्तः
।
तं
निर्वृतो
नियतार्थो
भजेत
संसारहेतूपरमश्च
यत्र
7
▾
Meaning
Keep
कस्तां
त्वनादृत्य
परानुचिन्तामृते
पशूनसतीं
नाम
युञ्ज्यात्
।
पश्यञ्जनं
पतितं
वैतरण्यां
स्वकर्मजान्
परितापाञ्जुषाणम्
8
▾
Meaning
Keep
केचित्स्वदेहान्तर्हृदयावकाशे
प्रादेशमात्रं
पुरुषं
वसन्तम्
।
चतुर्भुजं
कञ्जरथाङ्गशङ्ख-
गदाधरं
धारणया
स्मरन्ति
9
▾
Meaning
Keep
प्रसन्नवक्त्रं
नलिनायतेक्षणं
कदम्बकिञ्जल्कपिशङ्गवाससम्
।
लसन्महारत्नहिरण्मयाङ्गदं
स्फुरन्महारत्नकिरीटकुण्डलम्
10
▾
Meaning
Keep
उन्निद्रहृत्पङ्कजकर्णिकालये
योगेश्वरास्थापितपादपल्लवम्
।
श्रीलक्षणं
कौस्तुभरत्नकन्धरमम्लानलक्ष्म्या
वनमालयाऽऽचितम्
11
▾
Meaning
Keep
विभूषितं
मेखलयाङ्गुलीयकै-
र्महाधनैर्नूपुरकङ्कणादिभिः
।
स्निग्धामलाकुञ्चितनीलकुन्तलै-
र्विरोचमानाननहासपेशलम्
12
▾
Meaning
Keep
अदीनलीलाहसितेक्षणोल्लस-
द्भ्रूभङ्गसंसूचितभूर्यनुग्रहम्
।
ईक्षेत
चिन्तामयमेनमीश्वरं
यावन्मनो
धारणयावतिष्ठते
13
▾
Meaning
Keep
एकैकशोऽङ्गानि
धियानुभावयेत्-
पादादि
यावद्धसितं
गदाभृतः
।
जितं
जितं
स्थानमपोह्य
धारयेत्
परं
परं
शुद्ध्यति
धीर्यथा
यथा
14
▾
Meaning
Keep
यावन्न
जायेत
परावरेऽस्मिन्
विश्वेश्वरे
द्रष्टरि
भक्तियोगः
।
तावत्स्थवीयः
पुरुषस्य
रूपं
क्रियावसाने
प्रयतः
स्मरेत
15
▾
Meaning
Keep
स्थिरं
सुखं
चासनमाश्रितो
यतिर्यदा
जिहासुरिममङ्ग
लोकम्
।
काले
च
देशे
च
मनो
न
सज्जयेत्
प्राणान्
नियच्छेन्मनसा
जितासुः
16
▾
Meaning
Keep
मनः
स्वबुद्ध्यामलया
नियम्य
क्षेत्रज्ञ
एतां
निनयेत्
तमात्मनि
।
आत्मानमात्मन्यवरुध्य
धीरो
लब्धोपशान्तिर्विरमेत
कृत्यात्
17
▾
Meaning
Keep
न
यत्र
कालोऽनिमिषां
परः
प्रभुः
कुतो
नु
देवा
जगतां
य
ईशिरे
।
न
यत्र
सत्त्वं
न
रजस्तमश्च
न
वै
विकारो
न
महान्
प्रधानम्
18
▾
Meaning
Keep
परं
पदं
वैष्णवमामनन्ति
तद्-
यन्नेति
नेतीत्यतदुत्सिसृक्षवः
।
विसृज्य
दौरात्म्यमनन्यसौहृदा
हृदोपगुह्यार्हपदं
पदे
पदे
19
▾
Meaning
Keep
इत्थं
मुनिस्तूपरमेद्व्यवस्थितो
विज्ञानदृग्वीर्यसुरन्धिताशयः
।
स्वपार्ष्णिनाऽऽपीड्य
गुदं
ततोऽनिलं
स्थानेषु
षट्सून्नमयेज्जितक्लमः
20
▾
Meaning
Keep
नाभ्यां
स्थितं
हृद्यधिरोप्य
तस्मादुदानगत्योरसि
तं
नयेन्मुनिः
।
ततोऽनुसन्धाय
धिया
मनस्वी
स्वतालुमूलं
शनकैर्नयेत
21
▾
Meaning
Keep
तस्माद्भ्रुवोरन्तरमुन्नयेत
निरुद्धसप्तायतनोऽनपेक्षः
।
स्थित्वा
मुहूर्तार्धमकुण्ठदृष्टि-
र्निर्भिद्य
मूर्धन्
विसृजेत्परं
गतः
22
▾
Meaning
Keep
यदि
प्रयास्यन्
नृप
पारमेष्ठ्यं
वैहायसानामुत
यद्विहारम्
।
अष्टाधिपत्यं
गुणसन्निवाये
सहैव
गच्छेन्मनसेन्द्रियैश्च
23
▾
Meaning
Keep
योगेश्वराणां
गतिमाहुरन्त-
र्बहिस्त्रिलोक्याः
पवनान्तरात्मनाम्
।
न
कर्मभिस्तां
गतिमाप्नुवन्ति
विद्यातपोयोगसमाधिभाजाम्
24
▾
Meaning
Keep
वैश्वानरं
याति
विहायसा
गतः
सुषुम्णया
ब्रह्मपथेन
शोचिषा
।
विधूतकल्कोऽथ
हरेरुदस्तात्
प्रयाति
चक्रं
नृप
शैशुमारम्
25
▾
Meaning
Keep
तद्विश्वनाभिं
त्वतिवर्त्य
विष्णो-
रणीयसा
विरजेनात्मनैकः
।
नमस्कृतं
ब्रह्मविदामुपैति
कल्पायुषो
यद्विबुधा
रमन्ते
26
▾
Meaning
Keep
अथो
अनन्तस्य
मुखानलेन
दन्दह्यमानं
स
निरीक्ष्य
विश्वम्
।
निर्याति
सिद्धेश्वरजुष्टधिष्ण्यं
यद्द्वैपरार्ध्यं
तदु
पारमेष्ठ्यम्
27
▾
Meaning
Keep
न
यत्र
शोको
न
जरा
न
मृत्यु-
र्नार्तिर्नचोद्वेग
ऋते
कुतश्चित्
।
यच्चित्ततोऽदः
कृपयानिदंविदां
दुरन्तदुःखप्रभवानुदर्शनात्
28
▾
Meaning
Keep
ततो
विशेषं
प्रतिपद्य
निर्भय-
स्तेनात्मनापोऽनलमूर्तिरत्वरन्
।
ज्योतिर्मयो
वायुमुपेत्य
काले
वाय्वात्मना
खं
बृहदात्मलिङ्गम्
29
▾
Meaning
Keep
घ्राणेन
गन्धं
रसनेन
वै
रसं
रूपं
च
दृष्ट्या
श्वसनं
त्वचैव
।
श्रोत्रेण
चोपेत्य
नभोगुणत्वं
प्राणेन
चाकूतिमुपैति
योगी
30
▾
Meaning
Keep
स
भूतसूक्ष्मेन्द्रियसन्निकर्षं
मनोमयं
देवमयं
विकार्यम्
।
संसाद्य
गत्या
सह
तेन
याति
विज्ञानतत्त्वं
गुणसंनिरोधम्
31
▾
Meaning
Keep
तेनात्मनाऽऽत्मानमुपैति
शान्त-
मानन्दमानन्दमयोऽवसाने
।
एतां
गतिं
भागवतीं
गतो
यः
स
वै
पुनर्नेह
विषज्जतेऽङ्ग
32
▾
Meaning
Keep
एते
सृती
ते
नृप
वेदगीते
त्वयाभिपृष्टे
च
सनातने
च
।
ये
वै
पुरा
ब्रह्मण
आह
तुष्ट
आराधितो
भगवान्
वासुदेवः
33
▾
Meaning
Keep
न
ह्यतोऽन्यः
शिवः
पन्था
विशतः
संसृताविह
।
वासुदेवे
भगवति
भक्तियोगो
यतो
भवेत्
34
▾
Meaning
Keep
भगवान्
ब्रह्म
कार्त्स्न्येन
त्रिरन्वीक्ष्य
मनीषया
।
तदध्यवस्यत्कूटस्थो
रतिरात्मन्
यतो
भवेत्
35
▾
Meaning
Keep
भगवान्
सर्वभूतेषु
लक्षितः
स्वात्मना
हरिः
।
दृश्यैर्बुद्ध्यादिभिर्द्रष्टा
लक्षणैरनुमापकैः
36
▾
Meaning
Keep
तस्मात्सर्वात्मना
राजन्
हरिः
सर्वत्र
सर्वदा
।
श्रोतव्यः
कीर्तितव्यश्च
स्मर्तव्यो
भगवान्
नृणाम्
37
▾
Meaning
Keep
पिबन्ति
ये
भगवत
आत्मनः
सतां
कथामृतं
श्रवणपुटेषु
सम्भृतम्
।
पुनन्ति
ते
विषयविदूषिताशयं
व्रजन्ति
तच्चरणसरोरुहान्तिकम्
Previous
←
What Is Worth Hearing, and the Body of the World
Next
Worship for Every Want, and the Ear That Has Not Heard
→