Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · What Is Worth Hearing, and the Body of the World
Śrīmad Bhāgavatam
›
Canto 2
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
वरीयानेष
ते
प्रश्नः
कृतो
लोकहितं
नृप
।
आत्मवित्संमतः
पुंसां
श्रोतव्यादिषु
यः
परः
2
▾
Meaning
Keep
श्रोतव्यादीनि
राजेन्द्र
नृणां
सन्ति
सहस्रशः
।
अपश्यतामात्मतत्त्वं
गृहेषु
गृहमेधिनाम्
3
▾
Meaning
Keep
निद्रया
ह्रियते
नक्तं
व्यवायेन
च
वा
वयः
।
दिवा
चार्थेहया
राजन्
कुटुम्बभरणेन
वा
4
▾
Meaning
Keep
देहापत्यकलत्रादिष्वात्मसैन्येष्वसत्स्वपि
।
तेषां
प्रमत्तो
निधनं
पश्यन्नपि
न
पश्यति
5
▾
Meaning
Keep
तस्माद्भारत
सर्वात्मा
भगवानीश्वरो
हरिः
।
श्रोतव्यः
कीर्तितव्यश्च
स्मर्तव्यश्चेच्छताभयम्
6
▾
Meaning
Keep
एतावान्
सांख्ययोगाभ्यां
स्वधर्मपरिनिष्ठया
।
जन्मलाभः
परः
पुंसामन्ते
नारायणस्मृतिः
7
▾
Meaning
Keep
प्रायेण
मुनयो
राजन्
निवृत्ता
विधिषेधतः
।
नैर्गुण्यस्था
रमन्ते
स्म
गुणानुकथने
हरेः
8
▾
Meaning
Keep
इदं
भागवतं
नाम
पुराणं
ब्रह्मसम्मितम्
।
अधीतवान्
द्वापरादौ
पितुर्द्वैपायनादहम्
9
▾
Meaning
Keep
परिनिष्ठितोऽपि
नैर्गुण्य
उत्तमश्लोकलीलया
।
गृहीतचेता
राजर्षे
आख्यानं
यदधीतवान्
10
▾
Meaning
Keep
तदहं
तेऽभिधास्यामि
महापौरुषिको
भवान्
।
यस्य
श्रद्दधतामाशु
स्यान्मुकुन्दे
मतिः
सती
11
▾
Meaning
Keep
एतन्निर्विद्यमानानामिच्छतामकुतोभयम्
।
योगिनां
नृप
निर्णीतं
हरेर्नामानुकीर्तनम्
12
▾
Meaning
Keep
किं
प्रमत्तस्य
बहुभिः
परोक्षैर्हायनैरिह
।
वरं
मुहूर्तं
विदितं
घटेत
श्रेयसे
यतः
13
▾
Meaning
Keep
खट्वाङ्गो
नाम
राजर्षिर्ज्ञात्वेयत्तामिहायुषः
।
मुहूर्तात्सर्वमुत्सृज्य
गतवानभयं
हरिम्
14
▾
Meaning
Keep
तवाप्येतर्हि
कौरव्य
सप्ताहं
जीवितावधिः
।
उपकल्पय
तत्सर्वं
तावद्यत्साम्परायिकम्
15
▾
Meaning
Keep
अन्तकाले
तु
पुरुष
आगते
गतसाध्वसः
।
छिन्द्यादसङ्गशस्त्रेण
स्पृहां
देहेऽनु
ये
च
तम्
16
▾
Meaning
Keep
गृहात्प्रव्रजितो
धीरः
पुण्यतीर्थजलाप्लुतः
।
शुचौ
विविक्त
आसीनो
विधिवत्कल्पितासने
17
▾
Meaning
Keep
अभ्यसेन्मनसा
शुद्धं
त्रिवृद्ब्रह्माक्षरं
परम्
।
मनो
यच्छेज्जितश्वासो
ब्रह्मबीजमविस्मरन्
18
▾
Meaning
Keep
नियच्छेद्विषयेभ्योऽक्षान्
मनसा
बुद्धिसारथिः
।
मनः
कर्मभिराक्षिप्तं
शुभार्थे
धारयेद्धिया
19
▾
Meaning
Keep
तत्रैकावयवं
ध्यायेदव्युच्छिन्नेन
चेतसा
।
मनो
निर्विषयं
युक्त्वा
ततः
किञ्चन
न
स्मरेत्
।
पदं
तत्परमं
विष्णोर्मनो
यत्र
प्रसीदति
20
▾
Meaning
Keep
रजस्तमोभ्यामाक्षिप्तं
विमूढं
मन
आत्मनः
।
यच्छेद्धारणया
धीरो
हन्ति
या
तत्कृतं
मलम्
21
▾
Meaning
Keep
यस्यां
सन्धार्यमाणायां
योगिनो
भक्तिलक्षणः
।
आशु
सम्पद्यते
योग
आश्रयं
भद्रमीक्षतः
22
▾
Meaning
Keep
यथा
सन्धार्यते
ब्रह्मन्
धारणा
यत्र
सम्मता
।
यादृशी
वा
हरेदाशु
पुरुषस्य
मनोमलम्
23
▾
Meaning
Keep
जितासनो
जितश्वासो
जितसङ्गो
जितेन्द्रियः
।
स्थूले
भगवतो
रूपे
मनः
सन्धारयेद्धिया
24
▾
Meaning
Keep
विशेषस्तस्य
देहोऽयं
स्थविष्ठश्च
स्थवीयसाम्
।
यत्रेदं
दृश्यते
विश्वं
भूतं
भव्यं
भवच्च
सत्
25
▾
Meaning
Keep
आण्डकोशे
शरीरेऽस्मिन्
सप्तावरणसंयुते
।
वैराजः
पुरुषो
योऽसौ
भगवान्
धारणाश्रयः
26
▾
Meaning
Keep
पातालमेतस्य
हि
पादमूलं
पठन्ति
पार्ष्णिप्रपदे
रसातलम्
।
महातलं
विश्वसृजोऽथ
गुल्फौ
तलातलं
वै
पुरुषस्य
जङ्घे
27
▾
Meaning
Keep
द्वे
जानुनी
सुतलं
विश्वमूर्ते-
रूरुद्वयं
वितलं
चातलं
च
।
महीतलं
तज्जघनं
महीपते
नभस्तलं
नाभिसरो
गृणन्ति
28
▾
Meaning
Keep
उरःस्थलं
ज्योतिरनीकमस्य
ग्रीवा
महर्वदनं
वै
जनोऽस्य
।
तपो
रराटीं
विदुरादिपुंसः
सत्यं
तु
शीर्षाणि
सहस्रशीर्ष्णः
29
▾
Meaning
Keep
इन्द्रादयो
बाहव
आहुरुस्राः
कर्णौ
दिशः
श्रोत्रममुष्य
शब्दः
।
नासत्यदस्रौ
परमस्य
नासे
घ्राणोऽस्य
गन्धो
मुखमग्निरिद्धः
30
▾
Meaning
Keep
द्यौरक्षिणी
चक्षुरभूत्पतङ्गः
पक्ष्माणि
विष्णोरहनी
उभे
च
।
तद्भ्रूविजृम्भः
परमेष्ठिधिष्ण्य-
मापोऽस्य
तालू
रस
एव
जिह्वा
31
▾
Meaning
Keep
छन्दांस्यनन्तस्य
शिरो
गृणन्ति
दंष्ट्रा
यमः
स्नेहकला
द्विजानि
।
हासो
जनोन्मादकरी
च
माया
दुरन्तसर्गो
यदपाङ्गमोक्षः
32
▾
Meaning
Keep
व्रीडोत्तरोष्ठोऽधर
एव
लोभो
धर्मः
स्तनोऽधर्मपथोऽस्य
पृष्ठम्
।
कस्तस्य
मेढ्रं
वृषणौ
च
मित्रौ
कुक्षिः
समुद्रा
गिरयोऽस्थिसङ्घाः
33
▾
Meaning
Keep
नद्योऽस्य
नाड्योऽथ
तनूरुहाणि
महीरुहा
विश्वतनोर्नृपेन्द्र
।
अनन्तवीर्यः
श्वसितं
मातरिश्वा
गतिर्वयः
कर्म
गुणप्रवाहः
34
▾
Meaning
Keep
ईशस्य
केशान्
विदुरम्बुवाहान्
वासस्तु
सन्ध्यां
कुरुवर्य
भूम्नः
।
अव्यक्तमाहुर्हृदयं
मनश्च
सचन्द्रमाः
सर्वविकारकोशः
35
▾
Meaning
Keep
विज्ञानशक्तिं
महिमामनन्ति
सर्वात्मनोऽन्तःकरणं
गिरित्रम्
।
अश्वाश्वतर्युष्ट्रगजा
नखानि
सर्वे
मृगाः
पशवः
श्रोणिदेशे
36
▾
Meaning
Keep
वयांसि
तद्व्याकरणं
विचित्रं
मनुर्मनीषा
मनुजो
निवासः
।
गन्धर्वविद्याधरचारणाप्सरः
स्वरस्मृतीरसुरानीकवीर्यः
37
▾
Meaning
Keep
ब्रह्माननं
क्षत्रभुजो
महात्मा
विडूरुरङ्घ्रिश्रितकृष्णवर्णः
।
नानाभिधाभीज्यगणोपपन्नो
द्रव्यात्मकः
कर्म
वितानयोगः
38
▾
Meaning
Keep
इयानसावीश्वरविग्रहस्य
यः
सन्निवेशः
कथितो
मया
ते
।
सन्धार्यतेऽस्मिन्
वपुषि
स्थविष्ठे
मनः
स्वबुद्ध्या
न
यतोऽस्ति
किञ्चित्
39
▾
Meaning
Keep
स
सर्वधीवृत्त्यनुभूतसर्व
आत्मा
यथा
स्वप्नजनेक्षितैकः
।
तं
सत्यमानन्दनिधिं
भजेत
नान्यत्र
सज्जेद्यत
आत्मपातः
Previous
←
The King Sits Down on the Ganga
Next
Holding the Form, and the Two Freedoms
→