Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Suka's Salutations, and the Question About Creation
Śrīmad Bhāgavatam
›
Canto 2
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
वैयासकेरिति
वचस्तत्त्वनिश्चयमात्मनः
।
उपधार्य
मतिं
कृष्णे
औत्तरेयः
सतीं
व्यधात्
2
▾
Meaning
Keep
आत्मजायासुतागारपशुद्रविणबन्धुषु
।
राज्ये
चाविकले
नित्यं
विरूढां
ममतां
जहौ
3
▾
Meaning
Keep
पप्रच्छ
चेममेवार्थं
यन्मां
पृच्छथ
सत्तमाः
।
कृष्णानुभावश्रवणे
श्रद्दधानो
महामनाः
4
▾
Meaning
Keep
संस्थां
विज्ञाय
संन्यस्य
कर्म
त्रैवर्गिकं
च
यत्
।
वासुदेवे
भगवति
आत्मभावं
दृढं
गतः
5
▾
Meaning
Keep
समीचीनं
वचो
ब्रह्मन्
सर्वज्ञस्य
तवानघ
।
तमो
विशीर्यते
मह्यं
हरेः
कथयतः
कथाम्
6
▾
Meaning
Keep
भूय
एव
विवित्सामि
भगवानात्ममायया
।
यथेदं
सृजते
विश्वं
दुर्विभाव्यमधीश्वरैः
7
▾
Meaning
Keep
यथा
गोपायति
विभुर्यथा
संयच्छते
पुनः
।
यां
यां
शक्तिमुपाश्रित्य
पुरुशक्तिः
परः
पुमान्
।
आत्मानं
क्रीडयन्
क्रीडन्
करोति
विकरोति
च
8
▾
Meaning
Keep
नूनं
भगवतो
ब्रह्मन्
हरेरद्भुतकर्मणः
।
दुर्विभाव्यमिवाभाति
कविभिश्चापि
चेष्टितम्
9
▾
Meaning
Keep
यथा
गुणांस्तु
प्रकृतेर्युगपत्क्रमशोऽपि
वा
।
बिभर्ति
भूरिशस्त्वेकः
कुर्वन्
कर्माणि
जन्मभिः
10
▾
Meaning
Keep
विचिकित्सितमेतन्मे
ब्रवीतु
भगवान्
यथा
।
शाब्दे
ब्रह्मणि
निष्णातः
परस्मिंश्च
भवान्
खलु
11
▾
Meaning
Keep
इत्युपामन्त्रितो
राज्ञा
गुणानुकथने
हरेः
।
हृषीकेशमनुस्मृत्य
प्रतिवक्तुं
प्रचक्रमे
Hymn
12
▾
Meaning
Keep
नमः
परस्मै
पुरुषाय
भूयसे
सदुद्भवस्थाननिरोधलीलया
।
गृहीतशक्तित्रितयाय
देहिना-
मन्तर्भवायानुपलक्ष्यवर्त्मने
13
▾
Meaning
Keep
भूयो
नमः
सद्वृजिनच्छिदेऽसतामसंभवायाखिलसत्त्वमूर्तये
।
पुंसां
पुनः
पारमहंस्य
आश्रमे
व्यवस्थितानामनुमृग्यदाशुषे
14
▾
Meaning
Keep
नमो
नमस्तेऽस्त्वृषभाय
सात्वतां
विदूरकाष्ठाय
मुहुः
कुयोगिनाम्
।
निरस्तसाम्यातिशयेन
राधसा
स्वधामनि
ब्रह्मणि
रंस्यते
नमः
15
▾
Meaning
Keep
यत्कीर्तनं
यत्स्मरणं
यदीक्षणं
यद्वन्दनं
यच्छ्रवणं
यदर्हणम्
।
लोकस्य
सद्यो
विधुनोति
कल्मषं
तस्मै
सुभद्रश्रवसे
नमो
नमः
16
▾
Meaning
Keep
विचक्षणा
यच्चरणोपसादनात्
सङ्गं
व्युदस्योभयतोऽन्तरात्मनः
।
विन्दन्ति
हि
ब्रह्मगतिं
गतक्लमा-
स्तस्मै
सुभद्रश्रवसे
नमो
नमः
17
▾
Meaning
Keep
तपस्विनो
दानपरा
यशस्विनो
मनस्विनो
मन्त्रविदः
सुमङ्गलाः
।
क्षेमं
न
विन्दन्ति
विना
यदर्पणं
तस्मै
सुभद्रश्रवसे
नमो
नमः
18
▾
Meaning
Keep
किरातहूणान्ध्रपुलिन्दपुल्कसा
आभीरकङ्का
यवनाः
खसादयः
।
येऽन्ये
च
पापा
यदपाश्रयाश्रयाः
शुध्यन्ति
तस्मै
प्रभविष्णवे
नमः
19
▾
Meaning
Keep
स
एष
आत्माऽऽत्मवतामधीश्वर-
स्त्रयीमयो
धर्ममयस्तपोमयः
।
गतव्यलीकैरजशङ्करादिभि-
र्वितर्क्यलिङ्गो
भगवान्
प्रसीदताम्
20
▾
Meaning
Keep
श्रियः
पतिर्यज्ञपतिः
प्रजापति-
र्धियां
पतिर्लोकपतिर्धरापतिः
।
पतिर्गतिश्चान्धकवृष्णिसात्वतां
प्रसीदतां
मे
भगवान्
सतां
पतिः
21
▾
Meaning
Keep
यदङ्घ्र्यनुध्यानसमाधिधौतया
धियानुपश्यन्ति
हि
तत्त्वमात्मनः
।
वदन्ति
चैतत्कवयो
यथारुचं
स
मे
मुकुन्दो
भगवान्
प्रसीदताम्
Hymn
22
▾
Meaning
Keep
प्रचोदिता
येन
पुरा
सरस्वती
वितन्वताजस्य
सतीं
स्मृतिं
हृदि
।
स्वलक्षणा
प्रादुरभूत्किलास्यतः
स
मे
ऋषीणामृषभः
प्रसीदताम्
23
▾
Meaning
Keep
भूतैर्महद्भिर्य
इमाः
पुरो
विभुर्निर्माय
शेते
यदमूषु
पूरुषः
।
भुङ्क्ते
गुणान्
षोडश
षोडशात्मकः
सोऽलंकृषीष्ट
भगवान्
वचांसि
मे
24
▾
Meaning
Keep
नमस्तस्मै
भगवते
वासुदेवाय
वेधसे
।
पपुर्ज्ञानमयं
सौम्या
यन्मुखाम्बुरुहासवम्
25
▾
Meaning
Keep
एतदेवात्मभू
राजन्
नारदाय
विपृच्छते
।
वेदगर्भोऽभ्यधात्साक्षाद्यदाह
हरिरात्मनः
Previous
←
Worship for Every Want, and the Ear That Has Not Heard
Next
The Account of Creation
→