Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Ten Marks
Śrīmad Bhāgavatam
›
Canto 2
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अत्र
सर्गो
विसर्गश्च
स्थानं
पोषणमूतयः
।
मन्वन्तरेशानुकथा
निरोधो
मुक्तिराश्रयः
2
▾
Meaning
Keep
दशमस्य
विशुद्ध्यर्थं
नवानामिह
लक्षणम्
।
वर्णयन्ति
महात्मानः
श्रुतेनार्थेन
चाञ्जसा
3
▾
Meaning
Keep
भूतमात्रेन्द्रियधियां
जन्म
सर्ग
उदाहृतः
।
ब्रह्मणो
गुणवैषम्याद्विसर्गः
पौरुषः
स्मृतः
4
▾
Meaning
Keep
स्थितिर्वैकुण्ठविजयः
पोषणं
तदनुग्रहः
।
मन्वन्तराणि
सद्धर्म
ऊतयः
कर्मवासनाः
5
▾
Meaning
Keep
अवतारानुचरितं
हरेश्चास्यानुवर्तिनाम्
।
सतामीशकथाः
प्रोक्ता
नानाख्यानोपबृंहिताः
6
▾
Meaning
Keep
निरोधोऽस्यानुशयनमात्मनः
सह
शक्तिभिः
।
मुक्तिर्हित्वान्यथा
रूपं
स्वरूपेण
व्यवस्थितिः
7
▾
Meaning
Keep
आभासश्च
निरोधश्च
यतश्चाध्यवसीयते
।
स
आश्रयः
परं
ब्रह्म
परमात्मेति
शब्द्यते
8
▾
Meaning
Keep
योऽध्यात्मिकोऽयं
पुरुषः
सोऽसावेवाधिदैविकः
।
यस्तत्रोभयविच्छेदः
पुरुषो
ह्याधिभौतिकः
9
▾
Meaning
Keep
एकमेकतराभावे
यदा
नोपलभामहे
।
त्रितयं
तत्र
यो
वेद
स
आत्मा
स्वाश्रयाश्रयः
10
▾
Meaning
Keep
पुरुषोऽण्डं
विनिर्भिद्य
यदासौ
स
विनिर्गतः
।
आत्मनोऽयनमन्विच्छन्नपोऽस्राक्षीच्छुचिः
शुचीः
11
▾
Meaning
Keep
तास्ववात्सीत्
स्वसृष्टासु
सहस्रंपरिवत्सरान्
।
तेन
नारायणो
नाम
यदापः
पुरुषोद्भवाः
12
▾
Meaning
Keep
द्रव्यं
कर्म
च
कालश्च
स्वभावो
जीव
एव
च
।
यदनुग्रहतः
सन्ति
न
सन्ति
यदुपेक्षया
13
▾
Meaning
Keep
एको
नानात्वमन्विच्छन्
योगतल्पात्समुत्थितः
।
वीर्यं
हिरण्मयं
देवो
मायया
व्यसृजत्त्रिधा
14
▾
Meaning
Keep
अधिदैवमथाध्यात्ममधिभूतमिति
प्रभुः
।
अथैकं
पौरुषं
वीर्यं
त्रिधाभिद्यत
तच्छृणु
15
▾
Meaning
Keep
अन्तःशरीर
आकाशात्पुरुषस्य
विचेष्टतः
।
ओजः
सहो
बलं
जज्ञे
ततः
प्राणो
महानसुः
16
▾
Meaning
Keep
अनुप्राणन्ति
यं
प्राणाः
प्राणन्तं
सर्वजन्तुषु
।
अपानन्तमपानन्ति
नरदेवमिवानुगाः
17
▾
Meaning
Keep
प्राणेन
क्षिपता
क्षुत्तृडन्तरा
जायते
प्रभोः
।
पिपासतो
जक्षतश्च
प्राङ्मुखं
निरभिद्यत
18
▾
Meaning
Keep
मुखतस्तालु
निर्भिन्नं
जिह्वा
तत्रोपजायते
।
ततो
नानारसो
जज्ञे
जिह्वया
योऽधिगम्यते
19
▾
Meaning
Keep
विवक्षोर्मुखतो
भूम्नो
वह्निर्वाग्व्याहृतं
तयोः
।
जले
वै
तस्य
सुचिरं
निरोधः
समजायत
20
▾
Meaning
Keep
नासिके
निरभिद्येतां
दोधूयति
नभस्वति
।
तत्र
वायुर्गन्धवहो
घ्राणो
नसि
जिघृक्षतः
21
▾
Meaning
Keep
यदात्मनि
निरालोकमात्मानं
च
दिदृक्षतः
।
निर्भिन्ने
ह्यक्षिणी
तस्य
ज्योतिश्चक्षुर्गुणग्रहः
22
▾
Meaning
Keep
बोध्यमानस्य
ऋषिभिरात्मनस्तज्जिघृक्षतः
।
कर्णौ
च
निरभिद्येतां
दिशः
श्रोत्रं
गुणग्रहः
23
▾
Meaning
Keep
वस्तुनो
मृदुकाठिन्यलघुगुर्वोष्णशीतताम्
।
जिघृक्षतस्त्वङ्
निर्भिन्ना
तस्यां
रोममहीरुहाः
।
तत्र
चान्तर्बहिर्वातस्त्वचा
लब्धगुणो
वृतः
24
▾
Meaning
Keep
हस्तौ
रुरुहतुस्तस्य
नानाकर्मचिकीर्षया
।
तयोस्तु
बलमिन्द्रश्च
आदानमुभयाश्रयम्
25
▾
Meaning
Keep
गतिं
जिगीषतः
पादौ
रुरुहातेऽभिकामिकाम्
।
पद्भ्यां
यज्ञः
स्वयं
हव्यं
कर्मभिः
क्रियते
नृभिः
26
▾
Meaning
Keep
निरभिद्यत
शिश्नो
वै
प्रजानन्दामृतार्थिनः
।
उपस्थ
आसीत्कामानां
प्रियं
तदुभयाश्रयम्
27
▾
Meaning
Keep
उत्सिसृक्षोर्धातुमलं
निरभिद्यत
वै
गुदम्
।
ततः
पायुस्ततो
मित्र
उत्सर्ग
उभयाश्रयः
28
▾
Meaning
Keep
आसिसृप्सोः
पुरः
पुर्या
नाभिद्वारमपानतः
।
तत्रापानस्ततो
मृत्युः
पृथक्त्वमुभयाश्रयम्
29
▾
Meaning
Keep
आदित्सोरन्नपानानामासन्
कुक्ष्यन्त्रनाडयः
।
नद्यः
समुद्राश्च
तयोस्तुष्टिः
पुष्टिस्तदाश्रये
30
▾
Meaning
Keep
निदिध्यासोरात्ममायां
हृदयं
निरभिद्यत
।
ततो
मनस्ततश्चन्द्रः
सङ्कल्पः
काम
एव
च
31
▾
Meaning
Keep
त्वक्चर्ममांसरुधिरमेदोमज्जास्थिधातवः
।
भूम्यप्तेजोमयाः
सप्त
प्राणो
व्योमाम्बुवायुभिः
32
▾
Meaning
Keep
गुणात्मकानीन्द्रियाणि
भूतादिप्रभवा
गुणाः
।
मनः
सर्वविकारात्मा
बुद्धिर्विज्ञानरूपिणी
33
▾
Meaning
Keep
एतद्भगवतो
रूपं
स्थूलं
ते
व्याहृतं
मया
।
मह्यादिभिश्चावरणैरष्टभिर्बहिरावृतम्
34
▾
Meaning
Keep
अतः
परं
सूक्ष्मतममव्यक्तं
निर्विशेषणम्
।
अनादिमध्यनिधनं
नित्यं
वाङ्मनसः
परम्
35
▾
Meaning
Keep
अमुनी
भगवद्रूपे
मया
ते
अनुवर्णिते
।
उभे
अपि
न
गृह्णन्ति
मायासृष्टे
विपश्चितः
36
▾
Meaning
Keep
स
वाच्यवाचकतया
भगवान्
ब्रह्मरूपधृक्
।
नामरूपक्रिया
धत्ते
सकर्माकर्मकः
परः
37
▾
Meaning
Keep
प्रजापतीन्
मनून्
देवान्
ऋषीन्
पितृगणान्
पृथक्
।
सिद्धचारणगन्धर्वान्
विद्याध्रासुरगुह्यकान्
38
▾
Meaning
Keep
किन्नराप्सरसो
नागान्
सर्पान्
किम्पुरुषान्नरान्
।
मातॄ
रक्षःपिशाचांश्च
प्रेतभूतविनायकान्
39
▾
Meaning
Keep
कूष्माण्डोन्मादवेतालान्
यातुधानान्
ग्रहानपि
।
खगान्
मृगान्
पशून्
वृक्षान्
गिरीन्
नृप
सरीसृपान्
40
▾
Meaning
Keep
द्विविधाश्चतुर्विधा
येऽन्ये
जलस्थलनभौकसः
।
कुशलाकुशला
मिश्राः
कर्मणां
गतयस्त्विमाः
41
▾
Meaning
Keep
सत्त्वं
रजस्तम
इति
तिस्रः
सुरनृनारकाः
।
तत्राप्येकैकशो
राजन्
भिद्यन्ते
गतयस्त्रिधा
।
यदैकैकतरोऽन्याभ्यां
स्वभाव
उपहन्यते
42
▾
Meaning
Keep
स
एवेदं
जगद्धाता
भगवान्
धर्मरूपधृक्
।
पुष्णाति
स्थापयन्
विश्वं
तिर्यङ्नरसुरादिभिः
43
▾
Meaning
Keep
ततः
कालाग्निरुद्रात्मा
यत्सृष्टमिदमात्मनः
।
सन्नियच्छति
कालेन
घनानीकमिवानिलः
44
▾
Meaning
Keep
इत्थंभावेन
कथितो
भगवान्
भगवत्तमः
।
नेत्थंभावेन
हि
परं
द्रष्टुमर्हन्ति
सूरयः
45
▾
Meaning
Keep
नास्य
कर्मणि
जन्मादौ
परस्यानुविधीयते
।
कर्तृत्वप्रतिषेधार्थं
माययाऽऽरोपितं
हि
तत्
46
▾
Meaning
Keep
अयं
तु
ब्रह्मणः
कल्पः
सविकल्प
उदाहृतः
।
विधिः
साधारणो
यत्र
सर्गाः
प्राकृतवैकृताः
47
▾
Meaning
Keep
परिमाणं
च
कालस्य
कल्पलक्षणविग्रहम्
।
यथा
पुरस्ताद्व्याख्यास्ये
पाद्मं
कल्पमथो
शृणु
48
▾
Meaning
Keep
यदाह
नो
भवान्
सूत
क्षत्ता
भागवतोत्तमः
।
चचार
तीर्थानि
भुवस्त्यक्त्वा
बन्धून्
सुदुस्त्यजान्
49
▾
Meaning
Keep
कुत्र
कौषारवेस्तस्य
संवादोऽध्यात्मसंश्रितः
।
यद्वा
स
भगवांस्तस्मै
पृष्टस्तत्त्वमुवाच
ह
50
▾
Meaning
Keep
ब्रूहि
नस्तदिदं
सौम्य
विदुरस्य
विचेष्टितम्
।
बन्धुत्यागनिमित्तं
च
यथैवागतवान्
पुनः
51
▾
Meaning
Keep
राज्ञा
परीक्षिता
पृष्टो
यदवोचन्महामुनिः
।
तद्वोऽभिधास्ये
शृणुत
राज्ञः
प्रश्नानुसारतः
Previous
←
What Brahma Was Shown
Next
Vidura Leaves Home and Meets Uddhava
→