Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Vidura Leaves Home and Meets Uddhava
Śrīmad Bhāgavatam
›
Canto 3
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
एवमेतत्पुरा
पृष्टो
मैत्रेयो
भगवान्
किल
।
क्षत्त्रा
वनं
प्रविष्टेन
त्यक्त्वा
स्वगृहमृद्धिमत्
2
▾
Meaning
Keep
यद्वा
अयं
मन्त्रकृद्वो
भगवानखिलेश्वरः
।
पौरवेन्द्रगृहं
हित्वा
प्रविवेशात्मसात्कृतम्
3
▾
Meaning
Keep
कुत्र
क्षत्तुर्भगवता
मैत्रेयेणास
सङ्गमः
।
कदा
वा
सह
संवाद
एतद्वर्णय
नः
प्रभो
4
▾
Meaning
Keep
न
ह्यल्पार्थोदयस्तस्य
विदुरस्यामलात्मनः
।
तस्मिन्
वरीयसि
प्रश्नः
साधुवादोपबृंहितः
5
▾
Meaning
Keep
स
एवमृषिवर्योऽयं
पृष्टो
राज्ञा
परीक्षिता
।
प्रत्याह
तं
सुबहुवित्प्रीतात्मा
श्रूयतामिति
6
▾
Meaning
Keep
यदा
तु
राजा
स्वसुतानसाधून्
पुष्णन्नधर्मेण
विनष्टदृष्टिः
।
भ्रातुर्यविष्ठस्य
सुतान्
विबन्धून्
प्रवेश्य
लाक्षाभवने
ददाह
7
▾
Meaning
Keep
यदा
सभायां
कुरुदेवदेव्याः
केशाभिमर्शं
सुतकर्म
गर्ह्यम्
।
न
वारयामास
नृपः
स्नुषायाः
स्वास्रैर्हरन्त्याः
कुचकुङ्कुमानि
8
▾
Meaning
Keep
द्यूते
त्वधर्मेण
जितस्य
साधोः
सत्यावलम्बस्य
वनं
गतस्य
।
न
याचतोऽदात्समयेन
दायं
तमोजुषाणो
यदजातशत्रोः
9
▾
Meaning
Keep
यदा
च
पार्थप्रहितः
सभायां
जगद्गुरुर्यानि
जगाद
कृष्णः
।
न
तानि
पुंसाममृतायनानि
राजोरु
मेने
क्षतपुण्यलेशः
10
▾
Meaning
Keep
यदोपहूतो
भवनं
प्रविष्टो
मन्त्राय
पृष्टः
किल
पूर्वजेन
।
अथाह
तन्मन्त्रदृशां
वरीयान्
यन्मन्त्रिणो
वैदुरिकं
वदन्ति
11
▾
Meaning
Keep
अजातशत्रोः
प्रतियच्छ
दायं
तितिक्षतो
दुर्विषहं
तवागः
।
सहानुजो
यत्र
वृकोदराहिः
श्वसन्
रुषा
यत्त्वमलं
बिभेषि
12
▾
Meaning
Keep
पार्थांस्तु
देवो
भगवान्मुकुन्दो
गृहीतवान्
सक्षितिदेवदेवः
।
आस्ते
स्वपुर्यां
यदुदेवदेवो
विनिर्जिताशेषनृदेवदेवः
13
▾
Meaning
Keep
स
एष
दोषः
पुरुषद्विडास्ते
गृहान्
प्रविष्टो
यमपत्यमत्या
।
पुष्णासि
कृष्णाद्विमुखो
गतश्री-
स्त्यजाश्वशैवं
कुलकौशलाय
14
▾
Meaning
Keep
इत्यूचिवांस्तत्र
सुयोधनेन
प्रवृद्धकोपस्फुरिताधरेण
।
असत्कृतः
सत्स्पृहणीयशीलः
क्षत्ता
सकर्णानुजसौबलेन
15
▾
Meaning
Keep
क
एनमत्रोपजुहाव
जिह्मं
दास्याः
सुतं
यद्बलिनैव
पुष्टः
।
तस्मिन्
प्रतीपः
परकृत्य
आस्ते
निर्वास्यतामाशु
पुराच्छ्वसानः
16
▾
Meaning
Keep
स
इत्थमत्युल्बणकर्णबाणैः
भ्रातुः
पुरो
मर्मसु
ताडितोऽपि
।
स्वयं
धनुर्द्वारि
निधाय
मायां
गतव्यथोऽयादुरुमानयानः
17
▾
Meaning
Keep
स
निर्गतः
कौरवपुण्यलब्धो
गजाह्वयात्तीर्थपदः
पदानि
।
अन्वाक्रमत्पुण्यचिकीर्षयोर्व्यां
स्वधिष्ठितो
यानि
सहस्रमूर्तिः
18
▾
Meaning
Keep
पुरेषु
पुण्योपवनाद्रिकुञ्जेष्वपङ्कतोयेषु
सरित्सरस्सु
।
अनन्तलिङ्गैः
समलङ्कृतेषु
चचार
तीर्थायतनेष्वनन्यः
19
▾
Meaning
Keep
गां
पर्यटन्मेध्यविविक्तवृत्तिः
सदाऽऽप्लुतोऽधःशयनोऽवधूतः
।
अलक्षितः
स्वैरवधूतवेषो
व्रतानि
चेरे
हरितोषणानि
20
▾
Meaning
Keep
इत्थं
व्रजन्भारतमेव
वर्षं
कालेन
यावद्गतवान्प्रभासम्
।
तावच्छशास
क्षितिमेकचक्रा-
मेकातपत्रामजितेन
पार्थः
21
▾
Meaning
Keep
तत्राथ
शुश्राव
सुहृद्विनष्टिं
वनं
यथा
वेणुजवह्निसंश्रयम्
।
संस्पर्धया
दग्धमथानुशोचन्
सरस्वतीं
प्रत्यगियाय
तूष्णीम्
22
▾
Meaning
Keep
तस्यां
त्रितस्योशनसो
मनोश्च
पृथोरथाग्नेरसितस्य
वायोः
।
तीर्थं
सुदासस्य
गवां
गुहस्य
यच्छ्राद्धदेवस्य
स
आसिषेवे
23
▾
Meaning
Keep
अन्यानि
चेह
द्विजदेवदेवैः
कृतानि
नानायतनानि
विष्णोः
।
प्रत्यङ्गमुख्याङ्कितमन्दिराणि
यद्दर्शनात्
कृष्णमनुस्मरन्ति
24
▾
Meaning
Keep
ततस्त्वतिव्रज्य
सुराष्ट्रमृद्धं
सौवीरमत्स्यान्
कुरुजाङ्गलांश्च
।
कालेन
तावद्यमुनामुपेत्य
तत्रोद्धवं
भागवतं
ददर्श
25
▾
Meaning
Keep
स
वासुदेवानुचरं
प्रशान्तं
बृहस्पतेः
प्राक्तनयं
प्रतीतम्
।
आलिङ्ग्य
गाढं
प्रणयेन
भद्रं
स्वानामपृच्छद्भगवत्प्रजानाम्
26
▾
Meaning
Keep
कच्चित्पुराणौ
पुरुषौ
स्वनाभ्य-
पाद्मानुवृत्त्येह
किलावतीर्णौ
।
आसात
उर्व्याः
कुशलं
विधाय
कृतक्षणौ
कुशलं
शूरगेहे
27
▾
Meaning
Keep
कच्चित्कुरूणां
परमः
सुहृन्नो
भामः
स
आस्ते
सुखमङ्ग
शौरिः
।
यो
वै
स्वसॄणां
पितृवद्ददाति
वरान्
वदान्यो
वरतर्पणेन
28
▾
Meaning
Keep
कच्चिद्वरूथाधिपतिर्यदूनां
प्रद्युम्न
आस्ते
सुखमङ्ग
वीरः
।
यं
रुक्मिणी
भगवतोऽभिलेभे
आराध्य
विप्रान्
स्मरमादिसर्गे
29
▾
Meaning
Keep
कच्चित्सुखं
सात्वतवृष्णिभोज-
दाशार्हकाणामधिपः
स
आस्ते
।
यमभ्यषिञ्चच्छतपत्रनेत्रो
नृपासनाशां
परिहृत्य
दूरात्
30
▾
Meaning
Keep
कच्चिद्धरेः
सौम्य
सुतः
सदृक्ष
आस्तेऽग्रणी
रथिनां
साधु
साम्बः
।
असूत
यं
जाम्बवती
व्रताढ्या
देवं
गुहं
योऽम्बिकया
धृतोऽग्रे
31
▾
Meaning
Keep
क्षेमं
स
कच्चिद्युयुधान
आस्ते
यः
फाल्गुनाल्लब्धधनूरहस्यः
।
लेभेऽञ्जसाधोक्षजसेवयैव
गतिं
तदीयां
यतिभिर्दुरापाम्
32
▾
Meaning
Keep
कच्चिद्बुधः
स्वस्त्यनमीव
आस्ते
श्वफल्कपुत्रो
भगवत्प्रपन्नः
।
यः
कृष्णपादाङ्कितमार्गपांसु-
ष्वचेष्टत
प्रेमविभिन्नधैर्यः
33
▾
Meaning
Keep
कच्चिच्छिवं
देवकभोजपुत्र्या
विष्णुप्रजाया
इव
देवमातुः
।
या
वै
स्वगर्भेण
दधार
देवं
त्रयी
यथा
यज्ञवितानमर्थम्
34
▾
Meaning
Keep
अपिस्विदास्ते
भगवान्
सुखं
वो
यः
सात्वतां
कामदुघोऽनिरुद्धः
।
यमामनन्ति
स्म
हि
शब्दयोनिं
मनोमयं
सत्त्वतुरीयतत्त्वम्
35
▾
Meaning
Keep
अपिस्विदन्ये
च
निजात्मदैव-
मनन्यवृत्त्या
समनुव्रता
ये
।
हृदीकसत्यात्मजचारुदेष्ण-
गदादयः
स्वस्ति
चरन्ति
सौम्य
36
▾
Meaning
Keep
अपि
स्वदोर्भ्यां
विजयाच्युताभ्यां
धर्मेण
धर्मः
परिपाति
सेतुम्
।
दुर्योधनोऽतप्यत
यत्सभायां
साम्राज्यलक्ष्म्या
विजयानुवृत्त्या
37
▾
Meaning
Keep
किं
वा
कृताघेष्वघमत्यमर्षी
भीमोऽहिवद्दीर्घतमं
व्यमुञ्चत्
।
यस्याङ्घ्रिपातं
रणभूर्न
सेहे
मार्गं
गदायाश्चरतो
विचित्रम्
38
▾
Meaning
Keep
कच्चिद्यशोधा
रथयूथपानां
गाण्डीवधन्वोपरतारिरास्ते
।
अलक्षितो
यच्छरकूटगूढो
मायाकिरातो
गिरिशस्तुतोष
39
▾
Meaning
Keep
यमावुतस्वित्तनयौ
पृथायाः
पार्थैर्वृतौ
पक्ष्मभिरक्षिणीव
।
रेमात
उद्दाय
मृधे
स्वरिक्थं
परात्सुपर्णाविव
वज्रिवक्त्रात्
40
▾
Meaning
Keep
अहो
पृथापि
ध्रियतेऽर्भकार्थे
राजर्षिवर्येण
विनापि
तेन
।
यस्त्वेकवीरोऽधिरथो
विजिग्ये
धनुर्द्वितीयः
ककुभश्चतस्रः
41
▾
Meaning
Keep
सौम्यानुशोचे
तमधःपतन्तं
भ्रात्रे
परेताय
विदुद्रुहे
यः
।
निर्यापितो
येन
सुहृत्स्वपुर्या
अहं
स्वपुत्रान्समनुव्रतेन
42
▾
Meaning
Keep
सोऽहं
हरेर्मर्त्यविडम्बनेन
दृशो
नृणां
चालयतो
विधातुः
।
नान्योपलक्ष्यः
पदवीं
प्रसादा-
च्चरामि
पश्यन्
गतविस्मयोऽत्र
43
▾
Meaning
Keep
नूनं
नृपाणां
त्रिमदोत्पथानां
महीं
मुहुश्चालयतां
चमूभिः
।
वधात्प्रपन्नार्तिजिहीर्षयेशो-
ऽप्युपैक्षताघं
भगवान्कुरूणाम्
44
▾
Meaning
Keep
अजस्य
जन्मोत्पथनाशनाय
कर्माण्यकर्तुर्ग्रहणाय
पुंसाम्
।
नन्वन्यथा
कोऽर्हति
देहयोगं
परो
गुणानामुत
कर्मतन्त्रम्
45
▾
Meaning
Keep
तस्य
प्रपन्नाखिललोकपाना-
मवस्थितानामनुशासने
स्वे
।
अर्थाय
जातस्य
यदुष्वजस्य
वार्तां
सखे
कीर्तय
तीर्थकीर्तेः
Previous
←
The Ten Marks
Next
Uddhava Remembers Krsna
→