Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Uddhava Remembers Krsna
Śrīmad Bhāgavatam
›
Canto 3
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
इति
भागवतः
पृष्टः
क्षत्त्रा
वार्तां
प्रियाश्रयाम्
।
प्रतिवक्तुं
न
चोत्सेह
औत्कण्ठ्यात्स्मारितेश्वरः
2
▾
Meaning
Keep
यः
पञ्चहायनो
मात्रा
प्रातराशाय
याचितः
।
तन्नैच्छद्रचयन्यस्य
सपर्यां
बाललीलया
3
▾
Meaning
Keep
स
कथं
सेवया
तस्य
कालेन
जरसं
गतः
।
पृष्टो
वार्तां
प्रतिब्रूयाद्भर्तुः
पादावनुस्मरन्
4
▾
Meaning
Keep
स
मुहूर्तमभूत्तूष्णीं
कृष्णाङ्घ्रिसुधया
भृशम्
।
तीव्रेण
भक्तियोगेन
निमग्नः
साधु
निर्वृतः
5
▾
Meaning
Keep
पुलकोद्भिन्नसर्वाङ्गो
मुञ्चन्मीलद्दृशा
शुचः
।
पूर्णार्थो
लक्षितस्तेन
स्नेहप्रसरसम्प्लुतः
6
▾
Meaning
Keep
शनकैर्भगवल्लोकान्नृलोकं
पुनरागतः
।
विमृज्य
नेत्रे
विदुरं
प्रीत्याहोद्धव
उत्स्मयन्
7
▾
Meaning
Keep
कृष्णद्युमणिनिम्लोचे
गीर्णेष्वजगरेण
ह
।
किं
नु
नः
कुशलं
ब्रूयां
गतश्रीषु
गृहेष्वहम्
8
▾
Meaning
Keep
दुर्भगो
बत
लोकोऽयं
यदवो
नितरामपि
।
ये
संवसन्तो
न
विदुर्हरिं
मीना
इवोडुपम्
9
▾
Meaning
Keep
इङ्गितज्ञाः
पुरुप्रौढा
एकारामाश्च
सात्वताः
।
सात्वतामृषभं
सर्वे
भूतावासममंसत
10
▾
Meaning
Keep
देवस्य
मायया
स्पृष्टा
ये
चान्यदसदाश्रिताः
।
भ्राम्यते
धीर्न
तद्वाक्यैरात्मन्युप्तात्मनो
हरौ
11
▾
Meaning
Keep
प्रदर्श्यातप्ततपसामवितृप्तदृशां
नृणाम्
।
आदायान्तरधाद्यस्तु
स्वबिम्बं
लोकलोचनम्
12
▾
Meaning
Keep
यन्मर्त्यलीलौपयिकं
स्वयोग-
मायाबलं
दर्शयता
गृहीतम्
।
विस्मापनं
स्वस्य
च
सौभगर्द्धेः
परं
पदं
भूषणभूषणाङ्गम्
13
▾
Meaning
Keep
यद्धर्मसूनोर्बत
राजसूये
निरीक्ष्य
दृक्स्वस्त्ययनं
त्रिलोकः
।
कार्त्स्न्येन
चाद्येह
गतं
विधातु-
रर्वाक्सृतौ
कौशलमित्यमन्यत
14
▾
Meaning
Keep
यस्यानुरागप्लुतहासरास-
लीलावलोकप्रतिलब्धमानाः
।
व्रजस्त्रियो
दृग्भिरनुप्रवृत्त-
धियोऽवतस्थुः
किल
कृत्यशेषाः
15
▾
Meaning
Keep
स्वशान्तरूपेष्वितरैः
स्वरूपै-
रभ्यर्द्यमानेष्वनुकम्पितात्मा
।
परावरेशो
महदंशयुक्तो
ह्यजोऽपि
जातो
भगवान्
यथाग्निः
16
▾
Meaning
Keep
मां
खेदयत्येतदजस्य
जन्म
विडम्बनं
यद्वसुदेवगेहे
।
व्रजे
च
वासोऽरिभयादिव
स्वयं
पुराद्व्यवात्सीद्यदनन्तवीर्यः
17
▾
Meaning
Keep
दुनोति
चेतः
स्मरतो
ममैत-
द्यदाह
पादावभिवन्द्य
पित्रोः
।
ताताम्ब
कंसादुरुशङ्कितानां
प्रसीदतं
नोऽकृतनिष्कृतीनाम्
18
▾
Meaning
Keep
को
वा
अमुष्याङ्घ्रिसरोजरेणुं
विस्मर्तुमीशीत
पुमान्विजिघ्रन्
।
यो
विस्फुरद्भ्रूविटपेन
भूमे-
र्भारं
कृतान्तेन
तिरश्चकार
19
▾
Meaning
Keep
दृष्टा
भवद्भिर्ननु
राजसूये
चैद्यस्य
कृष्णं
द्विषतोऽपि
सिद्धिः
।
यां
योगिनः
संस्पृहयन्ति
सम्य-
ग्योगेन
कस्तद्विरहं
सहेत
20
▾
Meaning
Keep
तथैव
चान्ये
नरलोकवीरा
य
आहवे
कृष्णमुखारविन्दम्
।
नेत्रैः
पिबन्तो
नयनाभिरामं
पार्थास्त्रपूतः
पदमापुरस्य
21
▾
Meaning
Keep
स्वयं
त्वसाम्यातिशयस्त्र्यधीशः
स्वाराज्यलक्ष्म्याप्तसमस्तकामः
।
बलिं
हरद्भिश्चिरलोकपालैः
किरीटकोट्येडितपादपीठः
22
▾
Meaning
Keep
तत्तस्य
कैङ्कर्यमलं
भृतान्नो
विग्लापयत्यङ्ग
यदुग्रसेनम्
।
तिष्ठन्निषण्णं
परमेष्ठिधिष्ण्ये
न्यबोधयद्देव
निधारयेति
23
▾
Meaning
Keep
अहो
बकी
यं
स्तनकालकूटं
जिघांसयापाययदप्यसाध्वी
।
लेभे
गतिं
धात्र्युचितां
ततोऽन्यं
कं
वा
दयालुं
शरणं
व्रजेम
24
▾
Meaning
Keep
मन्येऽसुरान्भागवतांस्त्र्यधीशे
संरम्भमार्गाभिनिविष्टचित्तान्
।
ये
संयुगेऽचक्षत
तार्क्ष्यपुत्र-
मंसे
सुनाभायुधमापतन्तम्
25
▾
Meaning
Keep
वसुदेवस्य
देवक्यां
जातो
भोजेन्द्रबन्धने
।
चिकीर्षुर्भगवानस्याः
शमजेनाभियाचितः
26
▾
Meaning
Keep
ततो
नन्दव्रजमितः
पित्रा
कंसाद्विबिभ्यता
।
एकादशसमास्तत्र
गूढार्चिः
सबलोऽवसत्
27
▾
Meaning
Keep
परीतो
वत्सपैर्वत्सांश्चारयन्व्यहरद्विभुः
।
यमुनोपवने
कूजद्द्विजसङ्कुलिताङ्घ्रिपे
28
▾
Meaning
Keep
कौमारीं
दर्शयंश्चेष्टां
प्रेक्षणीयां
व्रजौकसाम्
।
रुदन्निव
हसन्मुग्धबालसिंहावलोकनः
29
▾
Meaning
Keep
स
एव
गोधनं
लक्ष्म्या
निकेतं
सितगोवृषम्
।
चारयन्ननुगान्गोपान्
रणद्वेणुररीरमत्
30
▾
Meaning
Keep
प्रयुक्तान्
भोजराजेन
मायिनः
कामरूपिणः
।
लीलया
व्यनुदत्तांस्तान्
बालः
क्रीडनकानिव
31
▾
Meaning
Keep
विपन्नान्विषपानेन
निगृह्य
भुजगाधिपम्
।
उत्थाप्यापाययद्गावस्तत्तोयं
प्रकृतिस्थितम्
32
▾
Meaning
Keep
अयाजयद्गोसवेन
गोपराजं
द्विजोत्तमैः
।
वित्तस्य
चोरुभारस्य
चिकीर्षन्
सद्व्ययं
विभुः
33
▾
Meaning
Keep
वर्षतीन्द्रे
व्रजः
कोपाद्भग्नमानेऽतिविह्वलः
।
गोत्रलीलातपत्रेण
त्रातो
भद्रानुगृह्णता
34
▾
Meaning
Keep
शरच्छशिकरैर्मृष्टं
मानयन्
रजनीमुखम्
।
गायन्
कलपदं
रेमे
स्त्रीणां
मण्डलमण्डनः
Previous
←
Vidura Leaves Home and Meets Uddhava
Next
What He Did, and the Burden He Lifted
→