Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Uddhava Left Behind
Śrīmad Bhāgavatam
›
Canto 3
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अथ
ते
तदनुज्ञाता
भुक्त्वा
पीत्वा
च
वारुणीम्
।
तया
विभ्रंशितज्ञाना
दुरुक्तैर्मर्म
पस्पृशुः
2
▾
Meaning
Keep
तेषां
मैरेयदोषेण
विषमीकृतचेतसाम्
।
निम्लोचति
रवावासीद्वेणूनामिव
मर्दनम्
3
▾
Meaning
Keep
भगवान्
स्वात्ममायाया
गतिं
तामवलोक्य
सः
।
सरस्वतीमुपस्पृश्य
वृक्षमूलमुपाविशत्
4
▾
Meaning
Keep
अहं
चोक्तो
भगवता
प्रपन्नार्तिहरेण
ह
।
बदरीं
त्वं
प्रयाहीति
स्वकुलं
संजिहीर्षुणा
5
▾
Meaning
Keep
अथापि
तदभिप्रेतं
जानन्नहमरिन्दम
।
पृष्ठतोऽन्वगमं
भर्तुः
पादविश्लेषणाक्षमः
6
▾
Meaning
Keep
अद्राक्षमेकमासीनं
विचिन्वन्
दयितं
पतिम्
।
श्रीनिकेतं
सरस्वत्यां
कृतकेतमकेतनम्
7
▾
Meaning
Keep
श्यामावदातं
विरजं
प्रशान्तारुणलोचनम्
।
दोर्भिश्चतुर्भिर्विदितं
पीतकौशाम्बरेण
च
8
▾
Meaning
Keep
वाम
ऊरावधिश्रित्य
दक्षिणाङ्घ्रिसरोरुहम्
।
अपाश्रितार्भकाश्वत्थमकृशं
त्यक्तपिप्पलम्
9
▾
Meaning
Keep
तस्मिन्महाभागवतो
द्वैपायनसुहृत्सखा
।
लोकाननुचरन्
सिद्ध
आससाद
यदृच्छया
10
▾
Meaning
Keep
तस्यानुरक्तस्य
मुनेर्मुकुन्दः
प्रमोदभावानतकन्धरस्य
।
आशृण्वतो
मामनुरागहास-
समीक्षया
विश्रमयन्नुवाच
11
▾
Meaning
Keep
श्रीभगवानुवाच ।
वेदाहमन्तर्मनसीप्सितं ते ददामि यत्तद् दुरवापमन्यैः ।
सत्त्रे पुरा विश्वसृजां वसूनां मत्सिद्धिकामेन वसो त्वयेष्टः
12
▾
Meaning
Keep
स
एष
साधो
चरमो
भवाना-
मासादितस्ते
मदनुग्रहो
यत्
।
यन्मां
नृलोकान्
रह
उत्सृजन्तं
दिष्ट्या
ददृश्वान्
विशदानुवृत्त्या
13
▾
Meaning
Keep
पुरा
मया
प्रोक्तमजाय
नाभ्ये
पद्मे
निषण्णाय
ममादिसर्गे
।
ज्ञानं
परं
मन्महिमावभासं
यत्सूरयो
भागवतं
वदन्ति
14
▾
Meaning
Keep
इत्यादृतोक्तः
परमस्य
पुंसः
प्रतिक्षणानुग्रहभाजनोऽहम्
।
स्नेहोत्थरोमा
स्खलिताक्षरस्तं
मुञ्चञ्छुचः
प्राञ्जलिराबभाषे
15
▾
Meaning
Keep
को
न्वीश
ते
पादसरोजभाजां
सुदुर्लभोऽर्थेषु
चतुर्ष्वपीह
।
तथापि
नाहं
प्रवृणोमि
भूमन्
भवत्पदाम्भोजनिषेवणोत्सुकः
16
▾
Meaning
Keep
कर्माण्यनीहस्य
भवोऽभवस्य
ते
दुर्गाश्रयोऽथारिभयात्पलायनम्
।
कालात्मनो
यत्प्रमदायुताश्रमः
स्वात्मन्
रतेः
खिद्यति
धीर्विदामिह
17
▾
Meaning
Keep
मन्त्रेषु
मां
वा
उपहूय
यत्त्व-
मकुण्ठिताखण्डसदात्मबोधः
।
पृच्छेः
प्रभो
मुग्ध
इवाप्रमत्त-
स्तन्नो
मनो
मोहयतीव
देव
18
▾
Meaning
Keep
ज्ञानं
परं
स्वात्म-रहः-प्रकाशं
प्रोवाच
कस्मै
भगवान्
समग्रम्
।
अपि
क्षमं
नो
ग्रहणाय
भर्तर्
वदाञ्जसा
यद्
वृजिनं
तरेम
19
▾
Meaning
Keep
इत्यावेदितहार्दाय
मह्यं
स
भगवान्
परः
।
आदिदेशारविन्दाक्ष
आत्मनः
परमां
स्थितिम्
20
▾
Meaning
Keep
स
एवमाराधितपादतीर्था-
दधीततत्त्वात्मविबोधमार्गः
।
प्रणम्य
पादौ
परिवृत्य
देव-
मिहागतोऽहं
विरहातुरात्मा
21
▾
Meaning
Keep
सोऽहं
तद्दर्शनाह्लादवियोगार्तियुतः
प्रभो
।
गमिष्ये
दयितं
तस्य
बदर्याश्रममण्डलम्
22
▾
Meaning
Keep
यत्र
नारायणो
देवो
नरश्च
भगवान्
ऋषिः
।
मृदु
तीव्रं
तपो
दीर्घं
तेपाते
लोकभावनौ
23
▾
Meaning
Keep
इत्युद्धवादुपाकर्ण्य
सुहृदां
दुःसहं
वधम्
।
ज्ञानेनाशमयत्क्षत्ता
शोकमुत्पतितं
बुधः
24
▾
Meaning
Keep
स
तं
महाभागवतं
व्रजन्तं
कौरवर्षभः
।
विश्रम्भादभ्यधत्तेदं
मुख्यं
कृष्णपरिग्रहे
25
▾
Meaning
Keep
ज्ञानं
परं
स्वात्मरहःप्रकाशं
यदाह
योगेश्वर
ईश्वरस्ते
।
वक्तुं
भवान्नोऽर्हति
यद्धि
विष्णो-
र्भृत्याः
स्वभृत्यार्थकृतश्चरन्ति
26
▾
Meaning
Keep
ननु
ते
तत्त्वसंराध्य
ऋषिः
कौषारवोऽन्ति
के
।
साक्षाद्भगवताऽऽदिष्टो
मर्त्यलोकं
जिहासता
27
▾
Meaning
Keep
इति
सह
विदुरेण
विश्वमूर्ते-
र्गुणकथया
सुधया
प्लावितोरुतापः
।
क्षणमिव
पुलिने
यमस्वसुस्तां
समुषित
औपगविर्निशां
ततोऽगात्
28
▾
Meaning
Keep
निधनमुपगतेषु
वृष्णिभोजे-
ष्वधिरथयूथपयूथपेषु
मुख्यः
।
स
तु
कथमवशिष्ट
उद्धवो
य-
द्धरिरपि
तत्यज
आकृतिं
त्र्यधीशः
29
▾
Meaning
Keep
ब्रह्मशापापदेशेन
कालेनामोघवाञ्छितः
।
संहृत्य
स्वकुलं
नूनं
त्यक्ष्यन्
देहमचिन्तयत्
30
▾
Meaning
Keep
अस्माल्लोकादुपरते
मयि
ज्ञानं
मदाश्रयम्
।
अर्हत्युद्धव
एवाद्धा
सम्प्रत्यात्मवतां
वरः
31
▾
Meaning
Keep
नोद्धवोऽण्वपि
मन्न्यूनो
यद्गुणैर्नार्दितः
प्रभुः
।
अतो
मद्वयुनं
लोकं
ग्राहयन्निह
तिष्ठतु
32
▾
Meaning
Keep
एवं
त्रिलोकगुरुणा
सन्दिष्टः
शब्दयोनिना
।
बदर्याश्रममासाद्य
हरिमीजे
समाधिना
33
▾
Meaning
Keep
विदुरोऽप्युद्धवाच्छ्रुत्वा
कृष्णस्य
परमात्मनः
।
क्रीडयोपात्तदेहस्य
कर्माणि
श्लाघितानि
च
34
▾
Meaning
Keep
देहन्यासं
च
तस्यैवं
धीराणां
धैर्यवर्धनम्
।
अन्येषां
दुष्करतरं
पशूनां
विक्लवात्मनाम्
35
▾
Meaning
Keep
आत्मानं
च
कुरुश्रेष्ठ
कृष्णेन
मनसेक्षितम्
।
ध्यायन्
गते
भागवते
रुरोद
प्रेमविह्वलः
36
▾
Meaning
Keep
कालिन्द्याः
कतिभिः
सिद्ध
अहोभिर्भरतर्षभ
।
प्रापद्यत
स्वःसरितं
यत्र
मित्रासुतो
मुनिः
Previous
←
What He Did, and the Burden He Lifted
Next
Vidura Asks Maitreya How It All Began
→