Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Vidura Asks Maitreya How It All Began
Śrīmad Bhāgavatam
›
Canto 3
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
द्वारि
द्युनद्या
ऋषभः
कुरूणां
मैत्रेयमासीनमगाधबोधम्
।
क्षत्तोपसृत्याच्युतभावसिद्धः
पप्रच्छ
सौशील्यगुणाभितृप्तः
2
▾
Meaning
Keep
सुखाय
कर्माणि
करोति
लोको
न
तैः
सुखं
वान्यदुपारमं
वा
।
विन्देत
भूयस्तत
एव
दुःखं
यदत्र
युक्तं
भगवान्
वदेन्नः
3
▾
Meaning
Keep
जनस्य
कृष्णाद्विमुखस्य
दैवा-
दधर्मशीलस्य
सुदुःखितस्य
।
अनुग्रहायेह
चरन्ति
नूनं
भूतानि
भव्यानि
जनार्दनस्य
4
▾
Meaning
Keep
तत्साधुवर्यादिश
वर्त्म
शं
नः
संराधितो
भगवान्
येन
पुंसाम्
।
हृदि
स्थितो
यच्छति
भक्तिपूते
ज्ञानं
स
तत्त्वाधिगमं
पुराणम्
5
▾
Meaning
Keep
करोति
कर्माणि
कृतावतारो
यान्यात्मतन्त्रो
भगवांस्त्र्यधीशः
।
यथा
ससर्जाग्र
इदं
निरीहः
संस्थाप्य
वृत्तिं
जगतो
विधत्ते
6
▾
Meaning
Keep
यथा
पुनः
स्वे
ख
इदं
निवेश्य
शेते
गुहायां
स
निवृत्तवृत्तिः
।
योगेश्वराधीश्वर
एक
एत-
दनुप्रविष्टो
बहुधा
यथाऽऽसीत्
7
▾
Meaning
Keep
क्रीडन्विधत्ते
द्विजगोसुराणां
क्षेमाय
कर्माण्यवतारभेदैः
।
मनो
न
तृप्यत्यपि
शृण्वतां
नः
सुश्लोकमौलेश्चरितामृतानि
8
▾
Meaning
Keep
यैस्तत्त्वभेदैरधिलोकनाथो
लोकानलोकान्
सह
लोकपालान्
।
अचीकॢपद्यत्र
हि
सर्वसत्त्वनिकायभेदोऽधिकृतः
प्रतीतः
9
▾
Meaning
Keep
येन
प्रजानामुत
आत्मकर्म-
रूपाभिधानां
च
भिदां
व्यधत्त
।
नारायणो
विश्वसृगात्मयोनि-
रेतच्च
नो
वर्णय
विप्रवर्य
10
▾
Meaning
Keep
परावरेषां
भगवन्व्रतानि
श्रुतानि
मे
व्यासमुखादभीक्ष्णम्
।
अतृप्नुम
क्षुल्लसुखावहानां
तेषामृते
कृष्णकथामृतौघात्
11
▾
Meaning
Keep
कस्तृप्नुयात्तीर्थपदोऽभिधाना-
त्सत्रेषु
वः
सूरिभिरीड्यमानात्
।
यः
कर्णनाडीं
पुरुषस्य
यातो
भवप्रदां
गेहरतिं
छिनत्ति
12
▾
Meaning
Keep
मुनिर्विवक्षुर्भगवद्गुणानां
सखापि
ते
भारतमाह
कृष्णः
।
यस्मिन्नृणां
ग्राम्यसुखानुवादै-
र्मतिर्गृहीता
नु
हरेः
कथायाम्
13
▾
Meaning
Keep
सा
श्रद्दधानस्य
विवर्धमाना
विरक्तिमन्यत्र
करोति
पुंसः
।
हरेः
पदानुस्मृतिनिर्वृतस्य
समस्तदुःखाप्ययमाशु
धत्ते
14
▾
Meaning
Keep
ताञ्छोच्यशोच्यानविदोऽनुशोचे
हरेः
कथायां
विमुखानघेन
।
क्षिणोति
देवोऽनिमिषस्तु
येषा-
मायुर्वृथा
वादगतिस्मृतीनाम्
15
▾
Meaning
Keep
तदस्य
कौषारव
शर्म
दातु-
र्हरेः
कथामेव
कथासु
सारम्
।
उद्धृत्य
पुष्पेभ्य
इवार्तबन्धो
शिवाय
नः
कीर्तय
तीर्थकीर्तेः
16
▾
Meaning
Keep
स
विश्वजन्मस्थितिसंयमार्थे
कृतावतारः
प्रगृहीतशक्तिः
।
चकार
कर्माण्यतिपूरुषाणि
यानीश्वरः
कीर्तय
तानि
मह्यम्
17
▾
Meaning
Keep
स
एवं
भगवान्
पृष्टः
क्षत्त्रा
कौषारवोमुनिः
।
पुंसां
निःश्रेयसार्थेन
तमाह
बहु
मानयन्
18
▾
Meaning
Keep
साधु
पृष्टं
त्वया
साधो
लोकान्
साध्वनुगृह्णता
।
कीर्तिं
वितन्वता
लोके
आत्मनोऽधोक्षजात्मनः
19
▾
Meaning
Keep
नैतच्चित्रं
त्वयि
क्षत्तर्बादरायणवीर्यजे
।
गृहीतोऽनन्यभावेन
यत्त्वया
हरिरीश्वरः
20
▾
Meaning
Keep
माण्डव्यशापाद्भगवान्
प्रजासंयमनो
यमः
।
भ्रातुः
क्षेत्रे
भुजिष्यायां
जातः
सत्यवतीसुतात्
21
▾
Meaning
Keep
भवान्भगवतो
नित्यं
सम्मतः
सानुगस्य
ह
।
यस्य
ज्ञानोपदेशाय
मादिशद्भगवान्
व्रजन्
22
▾
Meaning
Keep
अथ
ते
भगवल्लीलायोगमायोरुबृंहिताः
।
विश्वस्थित्युद्भवान्तार्था
वर्णयाम्यनुपूर्वशः
23
▾
Meaning
Keep
भगवानेक
आसेदमग्र
आत्माऽऽत्मनां
विभुः
।
आत्मेच्छानुगतावात्मा
नानामत्युपलक्षणः
24
▾
Meaning
Keep
स
वा
एष
तदा
द्रष्टा
नापश्यद्दृश्यमेकराट्
।
मेनेऽसन्तमिवात्मानं
सुप्तशक्तिरसुप्तदृक्
25
▾
Meaning
Keep
सा
वा
एतस्य
संद्रष्टुः
शक्तिः
सदसदात्मिका
।
माया
नाम
महाभाग
ययेदं
निर्ममे
विभुः
26
▾
Meaning
Keep
कालवृत्त्या
तु
मायायां
गुणमय्यामधोक्षजः
।
पुरुषेणात्मभूतेन
वीर्यमाधत्त
वीर्यवान्
27
▾
Meaning
Keep
ततोऽभवन्महत्तत्त्वमव्यक्तात्कालचोदितात्
।
विज्ञानात्माऽऽत्मदेहस्थं
विश्वं
व्यञ्जंस्तमोनुदः
28
▾
Meaning
Keep
सोऽप्यंशगुणकालात्मा
भगवद्दृष्टिगोचरः
।
आत्मानं
व्यकरोदात्मा
विश्वस्यास्य
सिसृक्षया
29
▾
Meaning
Keep
महत्तत्त्वाद्विकुर्वाणादहन्तत्त्वं
व्यजायत
।
कार्यकारणकर्त्रात्मा
भूतेन्द्रियमनोमयः
30
▾
Meaning
Keep
वैकारिकस्तैजसश्च
तामसश्चेत्यहं
त्रिधा
।
अहन्तत्त्वाद्विकुर्वाणान्मनो
वैकारिकादभूत्
।
वैकारिकाश्च
ये
देवा
अर्थाभिव्यञ्जनं
यतः
31
▾
Meaning
Keep
तैजसानीन्द्रियाण्येव
ज्ञानकर्ममयानि
च
।
तामसो
भूतसूक्ष्मादिर्यतः
खं
लिङ्गमात्मनः
32
▾
Meaning
Keep
कालमायांशयोगेन
भगवद्वीक्षितं
नभः
।
नभसोऽनुसृतं
स्पर्शं
विकुर्वन्निर्ममेऽनिलम्
33
▾
Meaning
Keep
अनिलोऽपि
विकुर्वाणो
नभसोरुबलान्वितः
।
ससर्ज
रूपतन्मात्रं
ज्योतिर्लोकस्य
लोचनम्
34
▾
Meaning
Keep
अनिलेनान्वितं
ज्योतिर्विकुर्वत्परवीक्षितम्
।
आधत्ताम्भो
रसमयं
कालमायांशयोगतः
35
▾
Meaning
Keep
ज्योतिषाम्भोऽनुसंसृष्टं
विकुर्वद्ब्रह्मवीक्षितम्
।
महीं
गन्धगुणामाधात्कालमायांशयोगतः
36
▾
Meaning
Keep
भूतानां
नभ
आदीनां
यद्यद्भव्यावरावरम्
।
तेषां
परानुसंसर्गाद्यथा
सङ्ख्यं
गुणान्
विदुः
37
▾
Meaning
Keep
एते
देवाः
कला
विष्णोः
कालमायांशलिङ्गिनः
।
नानात्वात्स्वक्रियानीशाः
प्रोचुः
प्राञ्जलयो
विभुम्
38
▾
Meaning
Keep
नमाम
ते
देवपदारविन्दं
प्रपन्नतापोपशमातपत्रम्
।
यन्मूलकेता
यतयोऽञ्जसोरु-
संसारदुःखं
बहिरुत्क्षिपन्ति
39
▾
Meaning
Keep
धातर्यदस्मिन्
भव
ईश
जीवास्तापत्रयेणाभिहता
न
शर्म
।
आत्मँल्लभन्ते
भगवंस्तवाङ्घ्रिच्छायां
सविद्यामत
आश्रयेम
40
▾
Meaning
Keep
मार्गन्ति
यत्ते
मुखपद्मनीडै-
श्छन्दःसुपर्णैरृषयो
विविक्ते
।
यस्याघमर्षोदसरिद्वरायाः
पदं
पदं
तीर्थपदः
प्रपन्नाः
41
▾
Meaning
Keep
यच्छ्रद्धया
श्रुतवत्या
च
भक्त्या
संमृज्यमाने
हृदयेऽवधाय
।
ज्ञानेन
वैराग्यबलेन
धीरा
व्रजेम
तत्तेऽङ्घ्रिसरोजपीठम्
42
▾
Meaning
Keep
विश्वस्य
जन्मस्थितिसंयमार्थे
कृतावतारस्य
पदाम्बुजं
ते
।
व्रजेम
सर्वे
शरणं
यदीश
स्मृतं
प्रयच्छत्यभयं
स्वपुंसाम्
43
▾
Meaning
Keep
यत्सानुबन्धेऽसति
देहगेहे
ममाहमित्यूढदुराग्रहाणाम्
।
पुंसां
सुदूरं
वसतोऽपि
पुर्यां
भजेम
तत्ते
भगवन्
पदाब्जम्
44
▾
Meaning
Keep
तान्
वै
ह्यसद्वृत्तिभिरक्षिभिर्ये
पराहृतान्तर्मनसः
परेश
।
अथो
न
पश्यन्त्युरुगाय
नूनं
ये
ते
पदन्यासविलासलक्ष्म्याः
45
▾
Meaning
Keep
पानेन
ते
देव
कथासुधायाः
प्रवृद्धभक्त्या
विशदाशया
ये
।
वैराग्यसारं
प्रतिलभ्य
बोधं
यथाञ्जसान्वीयुरकुण्ठधिष्ण्यम्
46
▾
Meaning
Keep
तथापरे
चात्मसमाधियोग-
बलेन
जित्वा
प्रकृतिं
बलिष्ठाम्
।
त्वामेव
धीराः
पुरुषं
विशन्ति
तेषां
श्रमः
स्यान्न
तु
सेवया
ते
47
▾
Meaning
Keep
तत्ते
वयं
लोकसिसृक्षयाद्य
त्वयानुसृष्टास्त्रिभिरात्मभिः
स्म
।
सर्वे
वियुक्ताः
स्वविहारतन्त्रं
न
शक्नुमस्तत्प्रतिहर्तवे
ते
48
▾
Meaning
Keep
यावद्बलिं
तेऽज
हराम
काले
यथा
वयं
चान्नमदाम
यत्र
।
यथोभयेषां
त
इमे
हि
लोका
बलिं
हरन्तोऽन्नमदन्त्यनूहाः
49
▾
Meaning
Keep
त्वं
नः
सुराणामसि
सान्वयानां
कूटस्थ
आद्यः
पुरुषः
पुराणः
।
त्वं
देव
शक्त्यां
गुणकर्मयोनौ
रेतस्त्वजायां
कविमादधेऽजः
50
▾
Meaning
Keep
ततो
वयं
मत्प्रमुखा
यदर्थे
बभूविमात्मन्
करवाम
किं
ते
।
त्वं
नः
स्वचक्षुः
परिदेहि
शक्त्या
देव
क्रियार्थे
यदनुग्रहाणाम्
Previous
←
Uddhava Left Behind
Next
The Body of the Vast One
→