Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · How Can Play Belong to Him
Śrīmad Bhāgavatam
›
Canto 3
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
एवं
ब्रुवाणं
मैत्रेयं
द्वैपायनसुतो
बुधः
।
प्रीणयन्निव
भारत्या
विदुरः
प्रत्यभाषत
2
▾
Meaning
Keep
ब्रह्मन्
कथं
भगवतश्चिन्मात्रस्याविकारिणः
।
लीलया
चापि
युज्येरन्निर्गुणस्य
गुणाः
क्रियाः
3
▾
Meaning
Keep
क्रीडायामुद्यमोऽर्भस्य
कामश्चिक्रीडिषान्यतः
।
स्वतस्तृप्तस्य
च
कथं
निवृत्तस्य
सदान्यतः
4
▾
Meaning
Keep
अस्राक्षीद्भगवान्विश्वं
गुणमय्याऽऽत्ममायया
।
तया
संस्थापयत्येतद्भूयः
प्रत्यपिधास्यति
5
▾
Meaning
Keep
देशतः
कालतो
योऽसाववस्थातः
स्वतोऽन्यतः
।
अविलुप्तावबोधात्मा
स
युज्येताजया
कथम्
6
▾
Meaning
Keep
भगवानेक
एवैष
सर्वक्षेत्रेष्ववस्थितः
।
अमुष्य
दुर्भगत्वं
वा
क्लेशो
वा
कर्मभिः
कुतः
7
▾
Meaning
Keep
एतस्मिन्
मे
मनो
विद्वन्खिद्यतेऽज्ञानसङ्कटे
।
तन्नः
पराणुद
विभो
कश्मलं
मानसं
महत्
8
▾
Meaning
Keep
स
इत्थं
चोदितः
क्षत्त्रा
तत्त्वजिज्ञासुना
मुनिः
।
प्रत्याह
भगवच्चित्तः
स्मयन्निव
गतस्मयः
9
▾
Meaning
Keep
सेयं
भगवतो
माया
यन्नयेन
विरुध्यते
।
ईश्वरस्य
विमुक्तस्य
कार्पण्यमुत
बन्धनम्
10
▾
Meaning
Keep
यदर्थेन
विनामुष्य
पुंस
आत्मविपर्ययः
।
प्रतीयत
उपद्रष्टुः
स्वशिरश्छेदनादिकः
11
▾
Meaning
Keep
यथा
जले
चन्द्रमसः
कम्पादिस्तत्कृतो
गुणः
।
दृश्यतेऽसन्नपि
द्रष्टुरात्मनोऽनात्मनो
गुणः
12
▾
Meaning
Keep
स
वै
निवृत्तिधर्मेण
वासुदेवानुकम्पया
।
भगवद्भक्तियोगेन
तिरोधत्ते
शनैरिह
13
▾
Meaning
Keep
यदेन्द्रियोपरामोऽथ
द्रष्ट्रात्मनि
परे
हरौ
।
विलीयन्ते
तदा
क्लेशाः
संसुप्तस्येव
कृत्स्नशः
14
▾
Meaning
Keep
अशेषसंक्लेशशमं
विधत्ते
गुणानुवादश्रवणं
मुरारेः
।
कुतः
पुनस्तच्चरणारविन्दपरागसेवारतिरात्मलब्धा
15
▾
Meaning
Keep
संछिन्नः
संशयो
मह्यं
तव
सूक्तासिना
विभो
।
उभयत्रापि
भगवन्
मनो
मे
सम्प्रधावति
16
▾
Meaning
Keep
साध्वेतद्व्याहृतं
विद्वन्नात्ममायायनं
हरेः
।
आभात्यपार्थं
निर्मूलं
विश्वमूलं
न
यद्बहिः
17
▾
Meaning
Keep
यश्च
मूढतमो
लोके
यश्च
बुद्धेः
परं
गतः
।
तावुभौ
सुखमेधेते
क्लिश्यत्यन्तरितो
जनः
18
▾
Meaning
Keep
अर्थाभावं
विनिश्चित्य
प्रतीतस्यापि
नात्मनः
।
तां
चापि
युष्मच्चरणसेवयाहं
पराणुदे
19
▾
Meaning
Keep
यत्सेवया
भगवतः
कूटस्थस्य
मधुद्विषः
।
रतिरासो
भवेत्तीव्रः
पादयोर्व्यसनार्दनः
20
▾
Meaning
Keep
दुरापा
ह्यल्पतपसः
सेवा
वैकुण्ठवर्त्मसु
।
यत्रोपगीयते
नित्यं
देवदेवो
जनार्दनः
21
▾
Meaning
Keep
सृष्ट्वाग्रे
महदादीनि
सविकाराण्यनुक्रमात्
।
तेभ्यो
विराजमुद्धृत्य
तमनु
प्राविशद्विभुः
22
▾
Meaning
Keep
यमाहुराद्यं
पुरुषं
सहस्राङ्घ्र्यूरुबाहुकम्
।
यत्र
विश्व
इमे
लोकाः
सविकासं
समासते
23
▾
Meaning
Keep
यस्मिन्
दशविधः
प्राणः
सेन्द्रियार्थेन्द्रियस्त्रिवृत्
।
त्वयेरितो
यतो
वर्णास्तद्विभूतीर्वदस्व
नः
24
▾
Meaning
Keep
यत्र
पुत्रैश्च
पौत्रैश्च
नप्तृभिः
सह
गोत्रजैः
।
प्रजा
विचित्राकृतय
आसन्
याभिरिदं
ततम्
25
▾
Meaning
Keep
प्रजापतीनां
स
पतिश्चक्ऌपे
कान्
प्रजापतीन्
।
सर्गांश्चैवानुसर्गांश्च
मनून्
मन्वन्तराधिपान्
26
▾
Meaning
Keep
एतेषामपि
वेदांश्च
वंशानुचरितानि
च
।
उपर्यधश्च
ये
लोका
भूमेर्मित्रात्मजासते
27
▾
Meaning
Keep
तेषां
संस्थां
प्रमाणं
च
भूर्लोकस्य
च
वर्णय
।
तिर्यङ्मानुषदेवानां
सरीसृपपतत्त्रिणाम्
।
वद
नः
सर्गसंव्यूहं
गार्भस्वेदद्विजोद्भिदाम्
28
▾
Meaning
Keep
गुणावतारैर्विश्वस्य
सर्गस्थित्यप्ययाश्रयम्
।
सृजतः
श्रीनिवासस्य
व्याचक्ष्वोदारविक्रमम्
29
▾
Meaning
Keep
वर्णाश्रमविभागांश्च
रूपशीलस्वभावतः
।
ऋषीणां
जन्मकर्माणि
वेदस्य
च
विकर्षणम्
30
▾
Meaning
Keep
यज्ञस्य
च
वितानानि
योगस्य
च
पथः
प्रभो
।
नैष्कर्म्यस्य
च
सांख्यस्य
तन्त्रं
वा
भगवत्स्मृतम्
31
▾
Meaning
Keep
पाखण्डपथवैषम्यं
प्रतिलोमनिवेशनम्
।
जीवस्य
गतयो
याश्च
यावतीर्गुणकर्मजाः
32
▾
Meaning
Keep
धर्मार्थकाममोक्षाणां
निमित्तान्यविरोधतः
।
वार्ताया
दण्डनीतेश्च
श्रुतस्य
च
विधिं
पृथक्
33
▾
Meaning
Keep
श्राद्धस्य
च
विधिं
ब्रह्मन्
पितॄणां
सर्गमेव
च
।
ग्रहनक्षत्रताराणां
कालावयवसंस्थितिम्
34
▾
Meaning
Keep
दानस्य
तपसो
वापि
यच्चेष्टापूर्तयोः
फलम्
।
प्रवासस्थस्य
यो
धर्मो
यश्च
पुंस
उतापदि
35
▾
Meaning
Keep
येन
वा
भगवांस्तुष्येद्
धर्मयोनिर्जनार्दनः
।
सम्प्रसीदति
वा
येषामेतदाख्याहि
चानघ
36
▾
Meaning
Keep
अनुव्रतानां
शिष्याणां
पुत्राणां
च
द्विजोत्तम
।
अनापृष्टमपि
ब्रूयुर्गुरवो
दीनवत्सलाः
37
▾
Meaning
Keep
तत्त्वानां
भगवंस्तेषां
कतिधा
प्रतिसंक्रमः
।
तत्रेमं
क
उपासीरन्
क
उ
स्विदनुशेरते
38
▾
Meaning
Keep
पुरुषस्य
च
संस्थानं
स्वरूपं
वा
परस्य
च
।
ज्ञानं
च
नैगमं
यत्तद्गुरुशिष्यप्रयोजनम्
39
▾
Meaning
Keep
निमित्तानि
च
तस्येह
प्रोक्तान्यनघ
सूरिभिः
।
स्वतो
ज्ञानं
कुतः
पुंसां
भक्तिर्वैराग्यमेव
वा
40
▾
Meaning
Keep
एतान्मे
पृच्छतः
प्रश्नान्
हरेः
कर्मविवित्सया
।
ब्रूहि
मेऽज्ञस्य
मित्रत्वादजया
नष्टचक्षुषः
41
▾
Meaning
Keep
सर्वे
वेदाश्च
यज्ञाश्च
तपो
दानानि
चानघ
।
जीवाभयप्रदानस्य
न
कुर्वीरन्
कलामपि
42
▾
Meaning
Keep
स
इत्थमापृष्टपुराणकल्पः
कुरुप्रधानेन
मुनिप्रधानः
।
प्रवृद्धहर्षो
भगवत्कथायां
सञ्चोदितस्तं
प्रहसन्निवाह
Previous
←
The Body of the Vast One
Next
The Lotus and the Birth of Brahma
→