Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Body of the Vast One
Śrīmad Bhāgavatam
›
Canto 3
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
इति
तासां
स्वशक्तीनां
सतीनामसमेत्य
सः
।
प्रसुप्तलोकतन्त्राणां
निशाम्य
गतिमीश्वरः
2
▾
Meaning
Keep
कालसंज्ञां
तदा
देवीं
बिभ्रच्छक्तिमुरुक्रमः
।
त्रयोविंशतितत्त्वानां
गणं
युगपदाविशत्
3
▾
Meaning
Keep
सोऽनुप्रविष्टो
भगवांश्चेष्टारूपेण
तं
गणम्
।
भिन्नं
संयोजयामास
सुप्तं
कर्म
प्रबोधयन्
4
▾
Meaning
Keep
प्रबुद्धकर्म
दैवेन
त्रयोविंशतिको
गणः
।
प्रेरितोऽजनयत्
स्वाभिर्मात्राभिरधिपूरुषम्
5
▾
Meaning
Keep
परेण
विशता
स्वस्मिन्
मात्रया
विश्वसृग्गणः
।
चुक्षोभान्योन्यमासाद्य
यस्मिँल्लोकाश्चराचराः
6
▾
Meaning
Keep
हिरण्मयः
स
पुरुषः
सहस्रपरिवत्सरान्
।
आण्डकोश
उवासाप्सु
सर्वसत्त्वोपबृंहितः
7
▾
Meaning
Keep
स
वै
विश्वसृजां
गर्भो
देवकर्मात्मशक्तिमान्
।
विबभाजात्मनाऽऽत्मानमेकधा
दशधा
त्रिधा
8
▾
Meaning
Keep
एष
ह्यशेषसत्त्वानामात्मांशः
परमात्मनः
।
आद्योऽवतारो
यत्रासौ
भूतग्रामो
विभाव्यते
9
▾
Meaning
Keep
साध्यात्मः
साधिदैवश्च
साधिभूत
इति
त्रिधा
।
विराट्
प्राणो
दशविध
एकधा
हृदयेन
च
10
▾
Meaning
Keep
स्मरन्विश्वसृजामीशो
विज्ञापितमधोक्षजः
।
विराजमतपत्स्वेन
तेजसैषां
विवृत्तये
11
▾
Meaning
Keep
अथ
तस्याभितप्तस्य
कति
चायतनानि
ह
।
निरभिद्यन्त
देवानां
तानि
मे
गदतः
शृणु
12
▾
Meaning
Keep
तस्याग्निरास्यं
निर्भिन्नं
लोकपालोऽविशत्पदम्
।
वाचा
स्वांशेन
वक्तव्यं
ययासौ
प्रतिपद्यते
13
▾
Meaning
Keep
निर्भिन्नं
तालु
वरुणो
लोकपालोऽविशद्धरेः
।
जिह्वयांशेन
च
रसं
ययासौ
प्रतिपद्यते
14
▾
Meaning
Keep
निर्भिन्ने
अश्विनौ
नासे
विष्णोराविशतां
पदम्
।
घ्राणेनांशेन
गन्धस्य
प्रतिपत्तिर्यतो
भवेत्
15
▾
Meaning
Keep
निर्भिन्ने
अक्षिणी
त्वष्टा
लोकपालोऽविशद्विभोः
।
चक्षुषांशेन
रूपाणां
प्रतिपत्तिर्यतो
भवेत्
16
▾
Meaning
Keep
निर्भिन्नान्यस्य
चर्माणि
लोकपालोऽनिलोऽविशत्
।
प्राणेनांशेन
संस्पर्शं
येनासौ
प्रतिपद्यते
17
▾
Meaning
Keep
कर्णावस्य
विनिर्भिन्नौ
धिष्ण्यं
स्वं
विविशुर्दिशः
।
श्रोत्रेणांशेन
शब्दस्य
सिद्धिं
येन
प्रपद्यते
18
▾
Meaning
Keep
त्वचमस्य
विनिर्भिन्नां
विविशुर्धिष्ण्यमोषधीः
।
अंशेन
रोमभिः
कण्डूं
यैरसौ
प्रतिपद्यते
19
▾
Meaning
Keep
मेढ्रं
तस्य
विनिर्भिन्नं
स्वधिष्ण्यं
क
उपाविशत्
।
रेतसांशेन
येनासावानन्दं
प्रतिपद्यते
20
▾
Meaning
Keep
गुदं
पुंसो
विनिर्भिन्नं
मित्रो
लोकेश
आविशत्
।
पायुनांशेन
येनासौ
विसर्गं
प्रतिपद्यते
21
▾
Meaning
Keep
हस्तावस्य
विनिर्भिन्नाविन्द्रः
स्वर्पतिराविशत्
।
वार्तयांशेन
पुरुषो
यया
वृत्तिं
प्रपद्यते
22
▾
Meaning
Keep
पादावस्य
विनिर्भिन्नौ
लोकेशो
विष्णुराविशत्
।
गत्या
स्वांशेन
पुरुषो
यया
प्राप्यं
प्रपद्यते
23
▾
Meaning
Keep
बुद्धिं
चास्य
विनिर्भिन्नां
वागीशो
धिष्ण्यमाविशत्
।
बोधेनांशेन
बोद्धव्यप्रतिपत्तिर्यतो
भवेत्
24
▾
Meaning
Keep
हृदयं
चास्य
निर्भिन्नं
चन्द्रमा
धिष्ण्यमाविशत्
।
मनसांशेन
येनासौ
विक्रियां
प्रतिपद्यते
25
▾
Meaning
Keep
आत्मानं
चास्य
निर्भिन्नमभिमानोऽविशत्पदम्
।
कर्मणांशेन
येनासौ
कर्तव्यं
प्रतिपद्यते
26
▾
Meaning
Keep
सत्त्वं
चास्य
विनिर्भिन्नं
महान्
धिष्ण्यमुपाविशत्
।
चित्तेनांशेन
येनासौ
विज्ञानं
प्रतिपद्यते
27
▾
Meaning
Keep
शीर्ष्णोऽस्य
द्यौर्धरा
पद्भ्यां
खं
नाभेरुदपद्यत
।
गुणानां
वृत्तयो
येषु
प्रतीयन्ते
सुरादयः
28
▾
Meaning
Keep
आत्यन्तिकेन
सत्त्वेन
दिवं
देवाः
प्रपेदिरे
।
धरां
रजः
स्वभावेन
पणयो
ये
च
ताननु
29
▾
Meaning
Keep
तार्तीयेन
स्वभावेन
भगवन्नाभिमाश्रिताः
।
उभयोरन्तरं
व्योम
ये
रुद्रपार्षदां
गणाः
30
▾
Meaning
Keep
मुखतोऽवर्तत
ब्रह्म
पुरुषस्य
कुरूद्वह
।
यस्तून्मुखत्वाद्वर्णानां
मुख्योऽभूद्ब्राह्मणो
गुरुः
31
▾
Meaning
Keep
बाहुभ्योऽवर्तत
क्षत्रं
क्षत्रियस्तदनुव्रतः
।
यो
जातस्त्रायते
वर्णान्
पौरुषः
कण्टकक्षतात्
32
▾
Meaning
Keep
विशोऽवर्तन्त
तस्योर्वोर्लोकवृत्तिकरीर्विभोः
।
वैश्यस्तदुद्भवो
वार्तां
नृणां
यः
समवर्तयत्
33
▾
Meaning
Keep
पद्भ्यां
भगवतो
जज्ञे
शुश्रूषा
धर्मसिद्धये
।
तस्यां
जातः
पुरा
शूद्रो
यद्वृत्त्या
तुष्यते
हरिः
34
▾
Meaning
Keep
एते
वर्णाः
स्वधर्मेण
यजन्ति
स्वगुरुं
हरिम्
।
श्रद्धयाऽऽत्मविशुद्ध्यर्थं
यज्जाताः
सह
वृत्तिभिः
35
▾
Meaning
Keep
एतत्क्षत्तर्भगवतो
दैवकर्मात्मरूपिणः
।
कः
श्रद्दध्यादुपाकर्तुं
योगमायाबलोदयम्
36
▾
Meaning
Keep
अथापि
कीर्तयाम्यङ्ग
यथामति
यथाश्रुतम्
।
कीर्तिं
हरेः
स्वां
सत्कर्तुं
गिरमन्याभिधाऽसतीम्
37
▾
Meaning
Keep
एकान्तलाभं
वचसो
नु
पुंसां
सुश्लोकमौलेर्गुणवादमाहुः
।
श्रुतेश्च
विद्वद्भिरुपाकृतायां
कथासुधायामुपसंप्रयोगम्
38
▾
Meaning
Keep
आत्मनोऽवसितो
वत्स
महिमा
कविनाऽऽदिना
।
संवत्सरसहस्रान्ते
धिया
योगविपक्वया
39
▾
Meaning
Keep
अतो
भगवतो
माया
मायिनामपि
मोहिनी
।
यत्स्वयं
चात्मवर्त्मात्मा
न
वेद
किमुतापरे
40
▾
Meaning
Keep
यतोऽप्राप्य
न्यवर्तन्त
वाचश्च
मनसा
सह
।
अहं
चान्य
इमे
देवास्तस्मै
भगवते
नमः
Previous
←
Vidura Asks Maitreya How It All Began
Next
How Can Play Belong to Him
→