Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Measures of Time
Śrīmad Bhāgavatam
›
Canto 3
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
चरमः
सद्विशेषाणामनेकोऽसंयुतः
सदा
।
परमाणुः
स
विज्ञेयो
नृणामैक्यभ्रमो
यतः
2
▾
Meaning
Keep
सत
एव
पदार्थस्य
स्वरूपावस्थितस्य
यत्
।
कैवल्यं
परममहानविशेषो
निरन्तरः
3
▾
Meaning
Keep
एवं
कालोऽप्यनुमितः
सौक्ष्म्ये
स्थौल्ये
च
सत्तम
।
संस्थानभुक्त्या
भगवानव्यक्तो
व्यक्तभुग्विभुः
4
▾
Meaning
Keep
स
कालः
परमाणुर्वै
यो
भुङ्क्ते
परमाणुताम्
।
सतोऽविशेषभुग्यस्तु
स
कालः
परमो
महान्
5
▾
Meaning
Keep
अणुर्द्वौ
परमाणू
स्यात्त्रसरेणुस्त्रयः
स्मृतः
।
जालार्करश्म्यवगतः
खमेवानुपतन्नगात्
6
▾
Meaning
Keep
त्रसरेणुत्रिकं
भुङ्क्ते
यः
कालः
स
त्रुटिः
स्मृतः
।
शतभागस्तु
वेधः
स्यात्तैस्त्रिभिस्तु
लवः
स्मृतः
7
▾
Meaning
Keep
निमेषस्त्रिलवो
ज्ञेय
आम्नातस्ते
त्रयः
क्षणः
।
क्षणान्
पञ्च
विदुः
काष्ठां
लघु
ता
दश
पञ्च
च
8
▾
Meaning
Keep
लघूनि
वै
समाम्नाता
दश
पञ्च
च
नाडिका
।
ते
द्वे
मुहूर्तः
प्रहरः
षड्यामः
सप्त
वा
नृणाम्
9
▾
Meaning
Keep
द्वादशार्धपलोन्मानं
चतुर्भिश्चतुरङ्गुलैः
।
स्वर्णमाषैः
कृतच्छिद्रं
यावत्प्रस्थजलप्लुतम्
10
▾
Meaning
Keep
यामाश्चत्वारश्चत्वारो
मर्त्यानामहनी
उभे
।
पक्षः
पञ्चदशाहानि
शुक्लः
कृष्णश्च
मानद
11
▾
Meaning
Keep
तयोः
समुच्चयो
मासः
पितॄणां
तदहर्निशम्
।
द्वौ
तावृतुः
षडयनं
दक्षिणं
चोत्तरं
दिवि
12
▾
Meaning
Keep
अयने
चाहनी
प्राहुर्वत्सरो
द्वादश
स्मृतः
।
संवत्सरशतं
नॄणां
परमायुर्निरूपितम्
13
▾
Meaning
Keep
ग्रहर्क्षतारा
चक्रस्थः
परमाण्वादिना
जगत्
।
संवत्सरावसानेन
पर्येत्यनिमिषो
विभुः
14
▾
Meaning
Keep
संवत्सरः
परिवत्सर
इडावत्सर
एव
च
।
अनुवत्सरो
वत्सरश्च
विदुरैवं
प्रभाष्यते
15
▾
Meaning
Keep
यः
सृज्यशक्तिमुरुधोच्छ्वसयन्
स्वशक्त्या
पुंसोऽभ्रमाय
दिवि
धावति
भूतभेदः
।
कालाख्यया
गुणमयं
क्रतुभिर्वितन्वं-
स्तस्मै
बलिं
हरत
वत्सरपञ्चकाय
16
▾
Meaning
Keep
पितृदेवमनुष्याणामायुः
परमिदं
स्मृतम्
।
परेषां
गतिमाचक्ष्व
ये
स्युः
कल्पाद्बहिर्विदः
17
▾
Meaning
Keep
भगवान्
वेद
कालस्य
गतिं
भगवतो
ननु
।
विश्वं
विचक्षते
धीरा
योगराद्धेन
चक्षुषा
18
▾
Meaning
Keep
कृतं
त्रेता
द्वापरं
च
कलिश्चेति
चतुर्युगम्
।
दिव्यैर्द्वादशभिर्वर्षैः
सावधानं
निरूपितम्
19
▾
Meaning
Keep
चत्वारि
त्रीणि
द्वे
चैकं
कृतादिषु
यथाक्रमम्
।
संख्यातानि
सहस्राणि
द्विगुणानि
शतानि
च
20
▾
Meaning
Keep
संध्यांशयोरन्तरेण
यः
कालः
शतसंख्ययोः
।
तमेवाहुर्युगं
तज्ज्ञा
यत्र
धर्मो
विधीयते
21
▾
Meaning
Keep
धर्मश्चतुष्पान्मनुजान्
कृते
समनुवर्तते
।
स
एवान्येष्वधर्मेण
व्येति
पादेन
वर्धता
22
▾
Meaning
Keep
त्रिलोक्या
युगसाहस्रं
बहिराब्रह्मणो
दिनम्
।
तावत्येव
निशा
तात
यन्निमीलति
विश्वसृक्
23
▾
Meaning
Keep
निशावसान
आरब्धो
लोककल्पोऽनुवर्तते
।
यावद्दिनं
भगवतो
मनून्
भुञ्जंश्चतुर्दश
24
▾
Meaning
Keep
स्वं
स्वं
कालं
मनुर्भुङ्क्ते
साधिकां
ह्येकसप्ततिम्
।
मन्वन्तरेषु
मनवस्तद्वंश्या
ऋषयः
सुराः
।
भवन्ति
चैव
युगपत्सुरेशाश्चानु
ये
च
तान्
25
▾
Meaning
Keep
एष
दैनन्दिनः
सर्गो
ब्राह्मस्त्रैलोक्यवर्तनः
।
तिर्यङ्नृपितृदेवानां
संभवो
यत्र
कर्मभिः
26
▾
Meaning
Keep
मन्वन्तरेषु
भगवान्
बिभ्रत्सत्त्वं
स्वमूर्तिभिः
।
मन्वादिभिरिदं
विश्वमवत्युदितपौरुषः
27
▾
Meaning
Keep
तमोमात्रामुपादाय
प्रतिसंरुद्धविक्रमः
।
कालेनानुगताशेष
आस्ते
तूष्णीं
दिनात्यये
28
▾
Meaning
Keep
तमेवान्वपिधीयन्ते
लोका
भूरादयस्त्रयः
।
निशायामनुवृत्तायां
निर्मुक्तशशिभास्करम्
29
▾
Meaning
Keep
त्रिलोक्यां
दह्यमानायां
शक्त्या
सङ्कर्षणाग्निना
।
यान्त्यूष्मणा
महर्लोकाज्जनं
भृग्वादयोऽर्दिताः
30
▾
Meaning
Keep
तावत्त्रिभुवनं
सद्यः
कल्पान्तैधितसिन्धवः
।
प्लावयन्त्युत्कटाटोपचण्डवातेरितोर्मयः
31
▾
Meaning
Keep
अन्तः
स
तस्मिन्
सलिल
आस्तेऽनन्तासनो
हरिः
।
योगनिद्रानिमीलाक्षः
स्तूयमानो
जनालयैः
32
▾
Meaning
Keep
एवं
विधैरहोरात्रैः
कालगत्योपलक्षितैः
।
अपक्षितमिवास्यापि
परमायुर्वयः
शतम्
33
▾
Meaning
Keep
यदर्धमायुषस्तस्य
परार्धमभिधीयते
।
पूर्वः
परार्धोऽपक्रान्तो
ह्यपरोऽद्य
प्रवर्तते
34
▾
Meaning
Keep
पूर्वस्यादौ
परार्धस्य
ब्राह्मो
नाम
महानभूत्
।
कल्पो
यत्राभवद्ब्रह्मा
शब्दब्रह्मेति
यं
विदुः
35
▾
Meaning
Keep
तस्यैव
चान्ते
कल्पोऽभूद्यं
पाद्ममभिचक्षते
।
यद्धरेर्नाभिसरस
आसील्लोकसरोरुहम्
36
▾
Meaning
Keep
अयं
तु
कथितः
कल्पो
द्वितीयस्यापि
भारत
।
वाराह
इति
विख्यातो
यत्रासीत्सूकरो
हरिः
37
▾
Meaning
Keep
कालोऽयं
द्विपरार्धाख्यो
निमेष
उपचर्यते
।
अव्याकृतस्यानन्तस्य
अनादेर्जगदात्मनः
38
▾
Meaning
Keep
कालोऽयं
परमाण्वादिर्द्विपरार्धान्त
ईश्वरः
।
नैवेशितुं
प्रभुर्भूम्न
ईश्वरो
धाममानिनाम्
39
▾
Meaning
Keep
विकारैः
सहितो
युक्तैर्विशेषादिभिरावृतः
।
आण्डकोशो
बहिरयं
पञ्चाशत्कोटि
विस्तृतः
40
▾
Meaning
Keep
दशोत्तराधिकैर्यत्र
प्रविष्टः
परमाणुवत्
।
लक्ष्यतेऽन्तर्गताश्चान्ये
कोटिशो
ह्यण्डराशयः
41
▾
Meaning
Keep
तदाहुरक्षरं
ब्रह्म
सर्वकारणकारणम्
।
विष्णोर्धाम
परं
साक्षात्पुरुषस्य
महात्मनः
Previous
←
The Ten Creations
Next
What Brahma Brought Forth
→