Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · What Brahma Brought Forth
Śrīmad Bhāgavatam
›
Canto 3
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
इति
ते
वर्णितः
क्षत्तः
कालाख्यः
परमात्मनः
।
महिमा
वेदगर्भोऽथ
यथास्राक्षीन्निबोध
मे
2
▾
Meaning
Keep
ससर्जाग्रेऽन्धतामिस्रमथ
तामिस्रमादिकृत्
।
महामोहं
च
मोहं
च
तमश्चाज्ञानवृत्तयः
3
▾
Meaning
Keep
दृष्ट्वा
पापीयसीं
सृष्टिं
नात्मानं
बह्वमन्यत
।
भगवद्ध्यानपूतेन
मनसान्यां
ततोऽसृजत्
4
▾
Meaning
Keep
सनकं
च
सनन्दं
च
सनातनमथात्मभूः
।
सनत्कुमारं
च
मुनीन्निष्क्रियानूर्ध्वरेतसः
5
▾
Meaning
Keep
तान्
बभाषे
स्वभूः
पुत्रान्
प्रजाः
सृजत
पुत्रकाः
।
तन्नैच्छन्मोक्षधर्माणो
वासुदेवपरायणाः
6
▾
Meaning
Keep
सोऽवध्यातः
सुतैरेवं
प्रत्याख्यातानुशासनैः
।
क्रोधं
दुर्विषहं
जातं
नियन्तुमुपचक्रमे
7
▾
Meaning
Keep
धिया
निगृह्यमाणोऽपि
भ्रुवोर्मध्यात्प्रजापतेः
।
सद्योऽजायत
तन्मन्युः
कुमारो
नीललोहितः
8
▾
Meaning
Keep
स
वै
रुरोद
देवानां
पूर्वजो
भगवान्
भवः
।
नामानि
कुरु
मे
धातः
स्थानानि
च
जगद्गुरो
9
▾
Meaning
Keep
इति
तस्य
वचः
पाद्मो
भगवान्
परिपालयन्
।
अभ्यधाद्भद्रया
वाचा
मा
रोदीस्तत्करोमि
ते
10
▾
Meaning
Keep
यदरोदीः
सुरश्रेष्ठ
सोद्वेग
इव
बालकः
।
ततस्त्वामभिधास्यन्ति
नाम्ना
रुद्र
इति
प्रजाः
11
▾
Meaning
Keep
हृदिन्द्रियाण्यसुर्व्योम
वायुरग्निर्जलं
मही
।
सूर्यश्चन्द्रस्तपश्चैव
स्थानान्यग्रे
कृतानि
मे
12
▾
Meaning
Keep
मन्युर्मनुर्महिनसो
महाञ्छिव
ऋतध्वजः
।
उग्ररेता
भवः
कालो
वामदेवो
धृतव्रतः
13
▾
Meaning
Keep
धीर्वृतिरुशनोमा
च
नियुत्सर्पिरिलाम्बिका
।
इरावती
स्वधा
दीक्षा
रुद्राण्यो
रुद्र
ते
स्त्रियः
14
▾
Meaning
Keep
गृहाणैतानि
नामानि
स्थानानि
च
सयोषणः
।
एभिः
सृज
प्रजा
बह्वीः
प्रजानामसि
यत्पतिः
15
▾
Meaning
Keep
इत्यादिष्टः
स्वगुरुणा
भगवान्नीललोहितः
।
सत्त्वाकृतिस्वभावेन
ससर्जात्मसमाः
प्रजाः
16
▾
Meaning
Keep
रुद्राणां
रुद्रसृष्टानां
समन्ताद्
ग्रसतां
जगत्
।
निशाम्यासंख्यशो
यूथान्
प्रजापतिरशङ्कत
17
▾
Meaning
Keep
अलं
प्रजाभिः
सृष्टाभिरीदृशीभिः
सुरोत्तम
।
मया
सह
दहन्तीभिर्दिशश्चक्षुर्भिरुल्बणैः
18
▾
Meaning
Keep
तप
आतिष्ठ
भद्रं
ते
सर्वभूतसुखावहम्
।
तपसैव
यथा
पूर्वं
स्रष्टा
विश्वमिदं
भवान्
19
▾
Meaning
Keep
तपसैव
परं
ज्योतिर्भगवन्तमधोक्षजम्
।
सर्वभूतगुहावासमञ्जसा
विन्दते
पुमान्
20
▾
Meaning
Keep
एवमात्मभुवाऽऽदिष्टः
परिक्रम्य
गिरां
पतिम्
।
बाढमित्यमुमामन्त्र्य
विवेश
तपसे
वनम्
21
▾
Meaning
Keep
अथाभिध्यायतः
सर्गं
दशपुत्राः
प्रजज्ञिरे
।
भगवच्छक्तियुक्तस्य
लोकसन्तानहेतवः
22
▾
Meaning
Keep
मरीचिरत्र्यङ्गिरसौ
पुलस्त्यः
पुलहः
क्रतुः
।
भृगुर्वसिष्ठो
दक्षश्च
दशमस्तत्र
नारदः
23
▾
Meaning
Keep
उत्सङ्गान्नारदो
जज्ञे
दक्षोऽङ्गुष्ठात्स्वयम्भुवः
।
प्राणाद्वसिष्ठः
सञ्जातो
भृगुस्त्वचि
करात्क्रतुः
24
▾
Meaning
Keep
पुलहो
नाभितो
जज्ञे
पुलस्त्यः
कर्णयोर्ऋषिः
।
अङ्गिरा
मुखतोऽक्ष्णोऽत्रिर्मरीचिर्मनसोऽभवत्
25
▾
Meaning
Keep
धर्मः
स्तनाद्दक्षिणतो
यत्र
नारायणः
स्वयम्
।
अधर्मः
पृष्ठतो
यस्मान्मृत्युर्लोकभयङ्करः
26
▾
Meaning
Keep
हृदि
कामो
भ्रुवः
क्रोधो
लोभश्चाधरदच्छदात्
।
आस्याद्वाक्सिन्धवो
मेढ्रान्निरृतिः
पायोरघाश्रयः
27
▾
Meaning
Keep
छायायाः
कर्दमो
जज्ञे
देवहूत्याः
पतिः
प्रभुः
।
मनसो
देहतश्चेदं
जज्ञे
विश्वकृतो
जगत्
28
▾
Meaning
Keep
वाचं
दुहितरं
तन्वीं
स्वयम्भूर्हरतीं
मनः
।
अकामां
चकमे
क्षत्तः
सकाम
इति
नः
श्रुतम्
29
▾
Meaning
Keep
तमधर्मे
कृतमतिं
विलोक्य
पितरं
सुताः
।
मरीचिमुख्या
मुनयो
विश्रम्भात्प्रत्यबोधयन्
30
▾
Meaning
Keep
नैतत्पूर्वैः
कृतं
त्वद्ये
न
करिष्यन्ति
चापरे
।
यत्त्वं
दुहितरं
गच्छेरनिगृह्याङ्गजं
प्रभुः
31
▾
Meaning
Keep
तेजीयसामपि
ह्येतन्न
सुश्लोक्यं
जगद्गुरो
।
यद्वृत्तमनुतिष्ठन्
वै
लोकः
क्षेमाय
कल्पते
32
▾
Meaning
Keep
तस्मै
नमो
भगवते
य
इदं
स्वेन
रोचिषा
।
आत्मस्थं
व्यञ्जयामास
स
धर्मं
पातुमर्हति
33
▾
Meaning
Keep
स
इत्थं
गृणतः
पुत्रान्
पुरो
दृष्ट्वा
प्रजापतीन्
।
प्रजापतिपतिस्तन्वं
तत्याज
व्रीडितस्तदा
।
तां
दिशो
जगृहुर्घोरां
नीहारं
यद्विदुस्तमः
34
▾
Meaning
Keep
कदाचिद्ध्यायतः
स्रष्टुर्वेदा
आसंश्चतुर्मुखात्
।
कथं
स्रक्ष्याम्यहं
लोकान्
समवेतान्यथा
पुरा
35
▾
Meaning
Keep
चातुर्होत्रं
कर्मतन्त्रमुपवेदनयैः
सह
।
धर्मस्य
पादाश्चत्वारस्तथैवाश्रमवृत्तयः
36
▾
Meaning
Keep
स
वै
विश्वसृजामीशो
वेदादीन्
मुखतोऽसृजत्
।
यद्यद्येनासृजद्देवस्तन्मे
ब्रूहि
तपोधन
37
▾
Meaning
Keep
ऋग्यजुःसामाथर्वाख्यान्
वेदान्
पूर्वादिभिर्मुखैः
।
शास्त्रमिज्यां
स्तुतिस्तोमं
प्रायश्चित्तं
व्यधात्क्रमात्
38
▾
Meaning
Keep
आयुर्वेदं
धनुर्वेदं
गान्धर्वं
वेदमात्मनः
।
स्थापत्यं
चासृजद्वेदं
क्रमात्पूर्वादिभिर्मुखैः
39
▾
Meaning
Keep
इतिहासपुराणानि
पञ्चमं
वेदमीश्वरः
।
सर्वेभ्य
एव
वक्त्रेभ्यः
ससृजे
सर्वदर्शनः
40
▾
Meaning
Keep
षोडश्युक्थौ
पूर्ववक्त्रात्पुरीष्यग्निष्टुतावथ
।
आप्तोर्यामातिरात्रौ
च
वाजपेयं
सगोसवम्
41
▾
Meaning
Keep
विद्या
दानं
तपः
सत्यं
धर्मस्येति
पदानि
च
।
आश्रमांश्च
यथासंख्यमसृजत्सह
वृत्तिभिः
42
▾
Meaning
Keep
सावित्रं
प्राजापत्यं
च
ब्राह्मं
चाथ
बृहत्तथा
।
वार्तासञ्चयशालीनशिलोञ्छ
इति
वै
गृहे
43
▾
Meaning
Keep
वैखानसा
वालखिल्यौदुम्बराः
फेनपा
वने
।
न्यासे
कुटीचकः
पूर्वं
बह्वोदो
हंसनिष्क्रियौ
44
▾
Meaning
Keep
आन्वीक्षिकी
त्रयी
वार्ता
दण्डनीतिस्तथैव
च
।
एवं
व्याहृतयश्चासन्
प्रणवो
ह्यस्य
दह्रतः
45
▾
Meaning
Keep
तस्योष्णिगासील्लोमभ्यो
गायत्री
च
त्वचो
विभोः
।
त्रिष्टुम्मांसात्स्नुतोऽनुष्टुब्जगत्यस्थ्नः
प्रजापतेः
46
▾
Meaning
Keep
मज्जायाः
पङ्क्तिरुत्पन्ना
बृहती
प्राणतोऽभवत्
।
स्पर्शस्तस्याभवज्जीवः
स्वरो
देह
उदाहृत
47
▾
Meaning
Keep
ऊष्माणमिन्द्रियाण्याहुरन्तःस्था
बलमात्मनः
।
स्वराः
सप्तविहारेण
भवन्ति
स्म
प्रजापतेः
48
▾
Meaning
Keep
शब्दब्रह्मात्मनस्तस्य
व्यक्ताव्यक्तात्मनः
परः
।
ब्रह्मावभाति
विततो
नानाशक्त्युपबृंहितः
49
▾
Meaning
Keep
ततोऽपरामुपादाय
स
सर्गाय
मनो
दधे
।
ऋषीणां
भूरिवीर्याणामपि
सर्गमविस्तृतम्
50
▾
Meaning
Keep
ज्ञात्वा
तद्धृदये
भूयश्चिन्तयामास
कौरव
।
अहो
अद्भुतमेतन्मे
व्यापृतस्यापि
नित्यदा
51
▾
Meaning
Keep
न
ह्येधन्ते
प्रजा
नूनं
दैवमत्र
विघातकम्
।
एवं
युक्तकृतस्तस्य
दैवं
चावेक्षतस्तदा
52
▾
Meaning
Keep
कस्य
रूपमभूद्द्वेधा
यत्कायमभिचक्षते
।
ताभ्यां
रूपविभागाभ्यां
मिथुनं
समपद्यत
53
▾
Meaning
Keep
यस्तु
तत्र
पुमान्
सोऽभून्मनुः
स्वायम्भुवः
स्वराट्
।
स्त्री
याऽऽसीच्छतरूपाख्या
महिष्यस्य
महात्मनः
54
▾
Meaning
Keep
तदा
मिथुनधर्मेण
प्रजा
ह्येधाम्बभूविरे
।
स
चापि
शतरूपायां
पञ्चापत्यान्यजीजनत्
55
▾
Meaning
Keep
प्रियव्रतोत्तानपादौ
तिस्रः
कन्याश्च
भारत
।
आकूतिर्देवहूतिश्च
प्रसूतिरिति
सत्तम
56
▾
Meaning
Keep
आकूतिं
रुचये
प्रादात्कर्दमाय
तु
मध्यमाम्
।
दक्षायादात्प्रसूतिं
च
यत
आपूरितं
जगत्
Previous
←
The Measures of Time
Next
The Boar Lifts the Earth
→