Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Gate of Vaikuntha
Śrīmad Bhāgavatam
›
Canto 3
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
प्राजापत्यं
तु
तत्तेजः
परतेजोहनं
दितिः
।
दधार
वर्षाणि
शतं
शङ्कमाना
सुरार्दनात्
2
▾
Meaning
Keep
लोके
तेनाहतालोके
लोकपाला
हतौजसः
।
न्यवेदयन्
विश्वसृजे
ध्वान्तव्यतिकरं
दिशाम्
3
▾
Meaning
Keep
तम
एतद्विभो
वेत्थ
संविग्ना
यद्वयं
भृशम्
।
न
ह्यव्यक्तं
भगवतः
कालेनास्पृष्टवर्त्मनः
4
▾
Meaning
Keep
देवदेव
जगद्धातर्लोकनाथशिखामणे
।
परेषामपरेषां
त्वं
भूतानामसि
भाववित्
5
▾
Meaning
Keep
नमो
विज्ञानवीर्याय
माययेदमुपेयुषे
।
गृहीतगुणभेदाय
नमस्तेऽव्यक्तयोनये
6
▾
Meaning
Keep
ये
त्वानन्येन
भावेन
भावयन्त्यात्मभावनम्
।
आत्मनि
प्रोतभुवनं
परं
सदसदात्मकम्
7
▾
Meaning
Keep
तेषां
सुपक्वयोगानां
जितश्वासेन्द्रियात्मनाम्
।
लब्धयुष्मत्प्रसादानां
न
कुतश्चित्पराभवः
8
▾
Meaning
Keep
यस्य
वाचा
प्रजाः
सर्वा
गावस्तन्त्येव
यन्त्रिताः
।
हरन्ति
बलिमायत्तास्तस्मै
मुख्याय
ते
नमः
9
▾
Meaning
Keep
स
त्वं
विधत्स्व
शं
भूमंस्तमसा
लुप्तकर्मणाम्
।
अदभ्रदयया
दृष्ट्या
आपन्नानर्हसीक्षितुम्
10
▾
Meaning
Keep
एष
देव
दितेर्गर्भ
ओजः
काश्यपमर्पितम्
।
दिशस्तिमिरयन्
सर्वा
वर्धतेऽग्निरिवैधसि
11
▾
Meaning
Keep
स
प्रहस्य
महाबाहो
भगवान्
शब्दगोचरः
।
प्रत्याचष्टात्मभूर्देवान्
प्रीणन्
रुचिरया
गिरा
12
▾
Meaning
Keep
मानसा
मे
सुता
युष्मत्पूर्वजाः
सनकादयः
।
चेरुर्विहायसा
लोकाँल्लोकेषु
विगतस्पृहाः
13
▾
Meaning
Keep
त
एकदा
भगवतो
वैकुण्ठस्यामलात्मनः
।
ययुर्वैकुण्ठनिलयं
सर्वलोकनमस्कृतम्
14
▾
Meaning
Keep
वसन्ति
यत्र
पुरुषाः
सर्वे
वैकुण्ठमूर्तयः
।
येऽनिमित्तनिमित्तेन
धर्मेणाराधयन्
हरिम्
15
▾
Meaning
Keep
यत्र
चाद्यः
पुमानास्ते
भगवान्
शब्दगोचरः
।
सत्त्वं
विष्टभ्य
विरजं
स्वानां
नो
मृडयन्
वृषः
16
▾
Meaning
Keep
यत्र
नैःश्रेयसं
नाम
वनं
कामदुघैर्द्रुमैः
।
सर्वर्तुश्रीभिर्विभ्राजत्कैवल्यमिव
मूर्तिमत्
17
▾
Meaning
Keep
वैमानिकाः
सललनाश्चरितानि
यत्र
गायन्ति
लोकशमलक्षपणानि
भर्तुः
।
अन्तर्जलेऽनुविकसन्मधुमाधवीनां
गन्धेन
खण्डितधियोऽप्यनिलं
क्षिपन्तः
18
▾
Meaning
Keep
पारावतान्यभृतसारसचक्रवाकदात्यूहहंसशुकतित्तिरिबर्हिणां
यः
।
कोलाहलो
विरमतेऽचिरमात्रमुच्चैर्भृङ्गाधिपे
हरिकथामिव
गायमाने
19
▾
Meaning
Keep
मन्दारकुन्दकुरबोत्पलचम्पकार्ण-
पुन्नागनागबकुलाम्बुजपारिजाताः
।
गन्धेऽर्चिते
तुलसिकाभरणेन
तस्या
यस्मिंस्तपः
सुमनसो
बहु
मानयन्ति
20
▾
Meaning
Keep
यत्संकुलं
हरिपदानतिमात्रदृष्टैर्वैदूर्यमारकतहेममयैर्विमानैः
।
येषां
बृहत्कटितटाः
स्मितशोभिमुख्यः
कृष्णात्मनां
न
रज
आदधुरुत्स्मयाद्यैः
21
▾
Meaning
Keep
श्री
रूपिणी
क्वणयती
चरणारविन्दं
लीलाम्बुजेन
हरिसद्मनि
मुक्तदोषा
।
संलक्ष्यते
स्फटिककुड्य
उपेतहेम्नि
सम्मार्जतीव
यदनुग्रहणेऽन्ययत्नः
22
▾
Meaning
Keep
वापीषु
विद्रुमतटास्वमलामृताप्सु
प्रेष्यान्विता
निजवने
तुलसीभिरीशम्
।
अभ्यर्चती
स्वलकमुन्नसमीक्ष्य
वक्त्र-
मुच्छेषितं
भगवतेत्यमताङ्ग
यच्छ्रीः
23
▾
Meaning
Keep
यन्न
व्रजन्त्यघभिदो
रचनानुवादा-
च्छृण्वन्ति
येऽन्यविषयाः
कुकथा
मतिघ्नीः
।
यास्तु
श्रुता
हतभगैर्नृभिरात्तसारा-
स्तांस्तान्
क्षिपन्त्यशरणेषु
तमःसु
हन्त
24
▾
Meaning
Keep
येऽभ्यर्थितामपि
च
नो
नृगतिं
प्रपन्ना
ज्ञानं
च
तत्त्वविषयं
सहधर्मं
यत्र
।
नाराधनं
भगवतो
वितरन्त्यमुष्य
सम्मोहिता
विततया
बत
मायया
ते
25
▾
Meaning
Keep
यच्च
व्रजन्त्यनिमिषामृषभानुवृत्त्या
दूरे
यमा
ह्युपरि
नः
स्पृहणीयशीलाः
।
भर्तुर्मिथः
सुयशसः
कथनानुराग-
वैक्लव्यबाष्पकलया
पुलकीकृताङ्गाः
26
▾
Meaning
Keep
तद्विश्वगुर्वधिकृतं
भुवनैकवन्द्यं
दिव्यं
विचित्रविबुधाग्र्यविमानशोचिः
।
आपुः
परां
मुदमपूर्वमुपेत्य
योग-
मायाबलेन
मुनयस्तदथो
विकुण्ठम्
27
▾
Meaning
Keep
तस्मिन्नतीत्य
मुनयः
षडसज्जमानाः
कक्षाः
समानवयसावथ
सप्तमायाम्
।
देवावचक्षत
गृहीतगदौ
परार्ध्य-
केयूरकुण्डलकिरीटविटङ्कवेषौ
28
▾
Meaning
Keep
मत्तद्विरेफवनमालिकया
निवीतौ
विन्यस्तयासितचतुष्टयबाहुमध्ये
।
वक्त्रं
भ्रुवा
कुटिलया
स्फुटनिर्गमाभ्यां
रक्तेक्षणेन
च
मनाग्रभसं
दधानौ
29
▾
Meaning
Keep
द्वार्येतयोर्निविविशुर्मिषतोरपृष्ट्वा
पूर्वा
यथा
पुरटवज्रकपाटिका
याः
।
सर्वत्र
तेऽविषमया
मुनयः
स्वदृष्ट्या
ये
सञ्चरन्त्यविहता
विगताभिशङ्काः
30
▾
Meaning
Keep
तान्
वीक्ष्य
वातरशनांश्चतुरः
कुमारान्
वृद्धान्
दशार्धवयसो
विदितात्मतत्त्वान्
।
वेत्रेण
चास्खलयतामतदर्हणांस्तौ
तेजो
विहस्य
भगवत्प्रतिकूलशीलौ
31
▾
Meaning
Keep
ताभ्यां
मिषत्स्वनिमिषेषु
निषिध्यमानाः
स्वर्हत्तमा
ह्यपि
हरेः
प्रतिहारपाभ्याम्
।
ऊचुः
सुहृत्तमदिदृक्षितभङ्ग
ईष-
त्कामानुजेन
सहसा
त
उपप्लुताक्षाः
32
▾
Meaning
Keep
को
वामिहैत्य
भगवत्परिचर्ययोच्चै-
स्तद्धर्मिणां
निवसतां
विषमः
स्वभावः
।
तस्मिन्
प्रशान्तपुरुषे
गतविग्रहे
वां
को
वाऽऽत्मवत्कुहकयोः
परिशङ्कनीयः
33
▾
Meaning
Keep
न
ह्यन्तरं
भगवतीह
समस्तकुक्षा-
वात्मानमात्मनि
नभो
नभसीव
धीराः
।
पश्यन्ति
यत्र
युवयोः
सुरलिङ्गिनोः
किं
व्युत्पादितं
ह्युदरभेदि
भयं
यतोऽस्य
34
▾
Meaning
Keep
तद्वाममुष्य
परमस्य
विकुण्ठ
भर्तुः
कर्तुं
प्रकृष्टमिह
धीमहि
मन्दधीभ्याम्
।
लोकानितो
व्रजतमन्तरभावदृष्ट्या
पापीयसस्त्रय
इमे
रिपवोऽस्य
यत्र
35
▾
Meaning
Keep
तेषामितीरितमुभाववधार्य घोरं
तं ब्रह्मदण्डमनिवारणमस्त्रपूगैः ।
सद्यो हरेरनुचरावुरुबिभ्यतस्तत्
पादग्रहावपततामतिकातरेण
36
▾
Meaning
Keep
भूयादघोनि
भगवद्भिरकारि
दण्डो
यो
नौ
हरेत
सुरहेलनमप्यशेषम्
।
मा
वोऽनुतापकलया
भगवत्स्मृतिघ्नो
मोहो
भवेदिह
तु
नौ
व्रजतोरधोऽधः
37
▾
Meaning
Keep
एवं
तदैव
भगवानरविन्दनाभः
स्वानां
विबुध्य
सदतिक्रममार्यहृद्यः
।
तस्मिन्
ययौ
परमहंसमहामुनीना-
मन्वेषणीयचरणौ
चलयन्
सहश्रीः
38
▾
Meaning
Keep
तं
त्वागतं
प्रतिहृतौपयिकं
स्वपुम्भि-
स्तेऽचक्षताक्षविषयं
स्वसमाधिभाग्यम्
।
हंसश्रियोर्व्यजनयोः
शिववायुलोल-
च्छुभ्रातपत्रशशिकेसरशीकराम्बुम्
39
▾
Meaning
Keep
कृत्स्नप्रसादसुमुखं
स्पृहणीयधाम-
स्नेहावलोककलया
हृदि
संस्पृशन्तम्
।
श्यामे
पृथावुरसि
शोभितया
श्रियास्व-
श्चूडामणिं
सुभगयन्तमिवात्मधिष्ण्यम्
40
▾
Meaning
Keep
पीतांशुके
पृथु
नितम्बिनि
विस्फुरन्त्या
काञ्च्यालिभिर्विरुतया
वनमालया
च
।
वल्गुप्रकोष्ठवलयं
विनतासुतांसे
विन्यस्तहस्तमितरेण
धुनानमब्जम्
41
▾
Meaning
Keep
विद्युत्क्षिपन्
मकरकुण्डलमण्डनार्ह-
गण्डस्थलोन्नसमुखं
मणिमत्किरीटम्
।
दोर्दण्डषण्डविवरे
हरता
परार्ध्य-
हारेण
कन्धरगतेन
च
कौस्तुभेन
42
▾
Meaning
Keep
अत्रोपसृष्टमिति
चोत्स्मितमिन्दिरायाः
स्वानां
धिया
विरचितं
बहु
सौष्ठवाढ्यम्
।
मह्यं
भवस्य
भवतां
च
भजन्तमङ्गं
नेमुर्निरीक्ष्य
न
वितृप्तदृशो
मुदा
कैः
43
▾
Meaning
Keep
तस्यारविन्दनयनस्य
पदारविन्दकिञ्जल्कमिश्रतुलसीमकरन्दवायुः
।
अन्तर्गतः
स्वविवरेण
चकार
तेषां
संक्षोभमक्षरजुषामपि
चित्ततन्वोः
44
▾
Meaning
Keep
ते
वा
अमुष्य
वदनासितपद्मकोश-
मुद्वीक्ष्य
सुन्दरतराधरकुन्दहासम्
।
लब्धाशिषः
पुनरवेक्ष्य
तदीयमङ्घ्रि-
द्वन्द्वं
नखारुणमणिश्रयणं
निदध्युः
45
▾
Meaning
Keep
पुंसां
गतिं
मृगयतामिह
योगमार्गैर्ध्यानास्पदं
बहु
मतं
नयनाभिरामम्
।
पौंस्नं
वपुर्दर्शयानमनन्यसिद्धैरौत्पत्तिकैः
समगृणन्
युतमष्टभोगैः
46
▾
Meaning
Keep
योऽन्तर्हितो
हृदि
गतोऽपि
दुरात्मनां
त्वं
सोऽद्यैव
नो
नयनमूलमनन्त
राद्धः
।
यर्ह्येव
कर्णविवरेण
गुहां
गतो
नः
पित्रानुवर्णितरहा
भवदुद्भवेन
47
▾
Meaning
Keep
तं
त्वां
विदाम
भगवन्
परमात्मतत्त्वं
सत्त्वेन
सम्प्रति
रतिं
रचयन्तमेषाम्
।
यत्तेऽनुतापविदितैर्दृढभक्तियोगै-
रुद्ग्रन्थयो
हृदि
विदुर्मुनयो
विरागाः
48
▾
Meaning
Keep
नात्यन्तिकं
विगणयन्त्यपि
ते
प्रसादं
किम्वन्यदर्पितभयं
भ्रुव
उन्नयैस्ते
।
येऽङ्ग
त्वदङ्घ्रिशरणा
भवतः
कथायाः
कीर्तन्यतीर्थयशसः
कुशला
रसज्ञाः
49
▾
Meaning
Keep
कामं
भवः
स्ववृजिनैर्निरयेषु
नः
स्ता-
च्चेतोऽलिवद्यदि
नु
ते
पदयो
रमेत
।
वाचश्च
नस्तुलसिवद्यदि
तेऽङ्घ्रिशोभाः
पूर्येत
ते
गुणगणैर्यदि
कर्णरन्ध्रः
50
▾
Meaning
Keep
प्रादुश्चकर्थ
यदिदं
पुरुहूत
रूपं
तेनेश
निर्वृतिमवापुरलं
दृशो
नः
।
तस्मा
इदं
भगवते
नम
इद्विधेम
योऽनात्मनां
दुरुदयो
भगवान्
प्रतीतः
Previous
←
Diti at Twilight
Next
The Two Doorkeepers Are Sent Down
→