Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Diti at Twilight
Śrīmad Bhāgavatam
›
Canto 3
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
निशम्य
कौषारविणोपवर्णितां
हरेः
कथां
कारणसूकरात्मनः
।
पुनः
स
पप्रच्छ
तमुद्यताञ्जलि-
र्नचातितृप्तो
विदुरो
धृतव्रतः
2
▾
Meaning
Keep
तेनैव
तु
मुनिश्रेष्ठ
हरिणा
यज्ञमूर्तिना
।
आदिदैत्यो
हिरण्याक्षो
हत
इत्यनुशुश्रुम
3
▾
Meaning
Keep
तस्य
चोद्धरतः
क्षोणीं
स्वदंष्ट्राग्रेण
लीलया
।
दैत्यराजस्य
च
ब्रह्मन्
कस्माद्धेतोरभून्मृधः
4
▾
Meaning
Keep
साधु
वीर
त्वया
पृष्टमवतारकथां
हरेः
।
यत्त्वं
पृच्छसि
मर्त्यानां
मृत्युपाशविशातनीम्
5
▾
Meaning
Keep
ययोत्तानपदः
पुत्रो
मुनिना
गीतयार्भकः
।
मृत्योः
कृत्वैव
मूर्ध्न्यङ्घ्रिमारुरोह
हरेः
पदम्
6
▾
Meaning
Keep
अथात्रापीतिहासोऽयं
श्रुतो
मे
वर्णितः
पुरा
।
ब्रह्मणा
देवदेवेन
देवानामनुपृच्छताम्
7
▾
Meaning
Keep
दितिर्दाक्षायणी
क्षत्तर्मारीचं
कश्यपं
पतिम्
।
अपत्यकामा
चकमे
सन्ध्यायां
हृच्छयार्दिता
8
▾
Meaning
Keep
इष्ट्वाग्निजिह्वं
पयसा
पुरुषं
यजुषां
पतिम्
।
निम्लोचत्यर्क
आसीनमग्न्यगारे
समाहितम्
9
▾
Meaning
Keep
एष
मां
त्वत्कृते
विद्वन्
काम
आत्तशरासनः
।
दुनोति
दीनां
विक्रम्य
रम्भामिव
मतङ्गजः
10
▾
Meaning
Keep
तद्भवान्
दह्यमानायां
सपत्नीनां
समृद्धिभिः
।
प्रजावतीनां
भद्रं
ते
मय्यायुङ्क्तामनुग्रहम्
11
▾
Meaning
Keep
भर्तर्याप्तोरुमानानां
लोकानाविशते
यशः
।
पतिर्भवद्विधो
यासां
प्रजया
ननु
जायते
12
▾
Meaning
Keep
पुरा
पिता
नो
भगवान्
दक्षो
दुहितृवत्सलः
।
कं
वृणीत
वरं
वत्सा
इत्यपृच्छत
नः
पृथक्
13
▾
Meaning
Keep
स
विदित्वाऽऽत्मजानां
नो
भावं
सन्तानभावनः
।
त्रयोदशाददात्तासां
यास्ते
शीलमनुव्रताः
14
▾
Meaning
Keep
अथ
मे
कुरु
कल्याणकामं
कञ्जविलोचन
।
आर्तोपसर्पणं
भूमन्नमोघं
हि
महीयसि
15
▾
Meaning
Keep
इति
तां
वीर
मारीचः
कृपणां
बहुभाषिणीम्
।
प्रत्याहानुनयन्
वाचा
प्रवृद्धानङ्गकश्मलाम्
16
▾
Meaning
Keep
एष
तेऽहं
विधास्यामि
प्रियं
भीरु
यदिच्छसि
।
तस्याः
कामं
न
कः
कुर्यात्सिद्धिस्त्रैवर्गिकी
यतः
17
▾
Meaning
Keep
सर्वाश्रमानुपादाय
स्वाश्रमेण
कलत्रवान्
।
व्यसनार्णवमत्येति
जलयानैर्यथार्णवम्
18
▾
Meaning
Keep
यामाहुरात्मनो
ह्यर्धं
श्रेयस्कामस्य
मानिनि
।
यस्यां
स्वधुरमध्यस्य
पुमांश्चरति
विज्वरः
19
▾
Meaning
Keep
यामाश्रित्येन्द्रियारातीन्
दुर्जयानितराश्रमैः
।
वयं
जयेम
हेलाभिर्दस्यून्
दुर्गपतिर्यथा
20
▾
Meaning
Keep
न
वयं
प्रभवस्तां
त्वामनुकर्तुं
गृहेश्वरि
।
अप्यायुषा
वा
कार्त्स्न्येन
ये
चान्ये
गुणगृध्नवः
21
▾
Meaning
Keep
अथापि
काममेतं
ते
प्रजात्यै
करवाण्यलम्
।
यथा
मां
नातिरोचन्ति
मुहूर्तं
प्रतिपालय
22
▾
Meaning
Keep
एषा
घोरतमा
वेला
घोराणां
घोरदर्शना
।
चरन्ति
यस्यां
भूतानि
भूतेशानुचराणि
ह
23
▾
Meaning
Keep
एतस्यां
साध्वि
सन्ध्यायां
भगवान्
भूतभावनः
।
परीतो
भूतपर्षद्भिर्वृषेणाटति
भूतराट्
24
▾
Meaning
Keep
श्मशानचक्रानिलधूलिधूम्र-
विकीर्णविद्योतजटाकलापः
।
भस्मावगुण्ठामलरुक्मदेहो
देवस्त्रिभिः
पश्यति
देवरस्ते
25
▾
Meaning
Keep
न
यस्य
लोके
स्वजनः
परो
वा
नात्यादृतो
नोत
कश्चिद्विगर्ह्यः
।
वयं
व्रतैर्यच्चरणापविद्धा-
माशास्महेऽजां
बत
भुक्तभोगाम्
26
▾
Meaning
Keep
यस्यानवद्याचरितं
मनीषिणो
गृणन्त्यविद्यापटलं
बिभित्सवः
।
निरस्तसाम्यातिशयोऽपि
यत्स्वयं
पिशाचचर्यामचरद्गतिः
सताम्
27
▾
Meaning
Keep
हसन्ति
यस्याचरितं
हि
दुर्भगाः
स्वात्मन्
रतस्याविदुषः
समीहितम्
।
यैर्वस्त्रमाल्याभरणानुलेपनैः
श्वभोजनं
स्वात्मतयोपलालितम्
28
▾
Meaning
Keep
ब्रह्मादयो
यत्कृतसेतुपाला
यत्कारणं
विश्वमिदं
च
माया
।
आज्ञाकरी
यस्य
पिशाचचर्या
अहो
विभूम्नश्चरितं
विडम्बनम्
29
▾
Meaning
Keep
सैवं
संविदिते
भर्त्रा
मन्मथोन्मथितेन्द्रिया
।
जग्राह
वासो
ब्रह्मर्षेर्वृषलीव
गतत्रपा
30
▾
Meaning
Keep
स
विदित्वाथ
भार्यायास्तं
निर्बन्धं
विकर्मणि
।
नत्वा
दिष्टाय
रहसि
तयाथोपविवेश
ह
31
▾
Meaning
Keep
अथोपस्पृश्य
सलिलं
प्राणानायम्य
वाग्यतः
।
ध्यायञ्जजाप
विरजं
ब्रह्मज्योतिः
सनातनम्
32
▾
Meaning
Keep
दितिस्तु
व्रीडिता
तेन
कर्मावद्येन
भारत
।
उपसंगम्य
विप्रर्षिमधोमुख्यभ्यभाषत
33
▾
Meaning
Keep
मा
मे
गर्भमिमं
ब्रह्मन्
भूतानामृषभोऽवधीत्
।
रुद्रः
पतिर्हि
भूतानां
यस्याकरवमंहसम्
34
▾
Meaning
Keep
नमो
रुद्राय
महते
देवायोग्राय
मीढुषे
।
शिवाय
न्यस्तदण्डाय
धृतदण्डाय
मन्यवे
35
▾
Meaning
Keep
स
नः
प्रसीदतां
भामो
भगवानुर्वनुग्रहः
।
व्याधस्याप्यनुकम्प्यानां
स्त्रीणां
देवः
सतीपतिः
36
▾
Meaning
Keep
स्वसर्गस्याशिषं
लोक्यामाशासानां
प्रवेपतीम्
।
निवृत्तसन्ध्यानियमो
भार्यामाह
प्रजापतिः
37
▾
Meaning
Keep
अप्रायत्यादात्मनस्ते
दोषान्
मौहूर्तिकादुत
।
मन्निदेशातिचारेण
देवानां
चातिहेलनात्
38
▾
Meaning
Keep
भविष्यतस्तवाभद्रावभद्रे
जाठराधमौ
।
लोकान्
सपालांस्त्रींश्चण्डि
मुहुराक्रन्दयिष्यतः
39
▾
Meaning
Keep
प्राणिनां
हन्यमानानां
दीनानामकृतागसाम्
।
स्त्रीणां
निगृह्यमाणानां
कोपितेषु
महात्मसु
40
▾
Meaning
Keep
तदा
विश्वेश्वरः
क्रुद्धो
भगवाल्लोकभावनः
।
हनिष्यत्यवतीर्यासौ
यथाद्रीन्
शतपर्वधृक्
41
▾
Meaning
Keep
वधं
भगवता
साक्षात्सुनाभोदारबाहुना
।
आशासे
पुत्रयोर्मह्यं
मा
क्रुद्धाद्ब्राह्मणाद्विभो
42
▾
Meaning
Keep
न
ब्रह्मदण्डदग्धस्य
न
भूतभयदस्य
च
।
नारकाश्चानुगृह्णन्ति
यां
यां
योनिमसौ
गतः
43
▾
Meaning
Keep
कृतशोकानुतापेन
सद्यः
प्रत्यवमर्शनात्
।
भगवत्युरुमानाच्च
भवे
मय्यपि
चादरात्
44
▾
Meaning
Keep
पुत्रस्यैव
च
पुत्राणां
भवितैकः
सतां
मतः
।
गास्यन्ति
यद्यशः
शुद्धं
भगवद्यशसा
समम्
45
▾
Meaning
Keep
योगैर्हेमेव
दुर्वर्णं
भावयिष्यन्ति
साधवः
।
निर्वैरादिभिरात्मानं
यच्छीलमनुवर्तितुम्
46
▾
Meaning
Keep
यत्प्रसादादिदं
विश्वं
प्रसीदति
यदात्मकम्
।
स
स्वदृग्भगवान्
यस्य
तोष्यतेऽनन्यया
दृशा
47
▾
Meaning
Keep
स
वै
महाभागवतो
महात्मा
महानुभावो
महतां
महिष्ठः
।
प्रवृद्धभक्त्या
ह्यनुभाविताशये
निवेश्य
वैकुण्ठमिमं
विहास्यति
48
▾
Meaning
Keep
अलम्पटः
शीलधरो
गुणाकरो
हृष्टः
परर्द्ध्या
व्यथितो
दुःखितेषु
।
अभूतशत्रुर्जगतः
शोकहर्ता
नैदाघिकं
तापमिवोडुराजः
49
▾
Meaning
Keep
अन्तर्बहिश्चामलमब्जनेत्रं
स्वपूरुषेच्छानुगृहीतरूपम्
।
पौत्रस्तव
श्रीललनाललामं
द्रष्टा
स्फुरत्कुण्डलमण्डिताननम्
50
▾
Meaning
Keep
श्रुत्वा
भागवतं
पौत्रममोदत
दितिर्भृशम्
।
पुत्रयोश्च
वधं
कृष्णाद्विदित्वाऽऽसीन्महामनाः
Previous
←
The Boar Lifts the Earth
Next
The Gate of Vaikuntha
→