Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Birth of Hiranyakasipu and Hiranyaksa
Śrīmad Bhāgavatam
›
Canto 3
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
निशम्यात्मभुवा
गीतं
कारणं
शङ्कयोज्झिताः
।
ततः
सर्वे
न्यवर्तन्त
त्रिदिवाय
दिवौकसः
2
▾
Meaning
Keep
दितिस्तु
भर्तुरादेशादपत्यपरिशङ्किनी
।
पूर्णे
वर्षशते
साध्वी
पुत्रौ
प्रसुषुवे
यमौ
3
▾
Meaning
Keep
उत्पाता
बहवस्तत्र
निपेतुर्जायमानयोः
।
दिवि
भुव्यन्तरिक्षे
च
लोकस्योरुभयावहाः
4
▾
Meaning
Keep
सहाचला
भुवश्चेलुर्दिशः
सर्वाः
प्रजज्वलुः
।
सोल्काश्चाशनयः
पेतुः
केतवश्चार्तिहेतवः
5
▾
Meaning
Keep
ववौ
वायुः
सुदुःस्पर्शः
फूत्कारानीरयन्
मुहुः
।
उन्मूलयन्नगपतीन्
वात्यानीको
रजोध्वजः
6
▾
Meaning
Keep
उद्धसत्तडिदम्भोदघटया
नष्टभागणे
।
व्योम्नि
प्रविष्टतमसा
न
स्म
व्यादृश्यते
पदम्
7
▾
Meaning
Keep
चुक्रोश
विमना
वार्धिरुदूर्मिः
क्षुभितोदरः
।
सोदपानाश्च
सरितश्चुक्षुभुः
शुष्कपङ्कजाः
8
▾
Meaning
Keep
मुहुः
परिधयोऽभूवन्
सराह्वोः
शशिसूर्ययोः
।
निर्घाता
रथनिर्ह्रादा
विवरेभ्यः
प्रजज्ञिरे
9
▾
Meaning
Keep
अन्तर्ग्रामेषु
मुखतो
वमन्त्यो
वह्निमुल्बणम्
।
सृगालोलूकटङ्कारैः
प्रणेदुरशिवं
शिवाः
10
▾
Meaning
Keep
सङ्गीतवद्रोदनवदुन्नमय्य
शिरोधराम्
।
व्यमुञ्चन्
विविधा
वाचो
ग्रामसिंहास्ततस्ततः
11
▾
Meaning
Keep
खराश्च
कर्कशैः
क्षत्तः
खुरैर्घ्नन्तो
धरातलम्
।
खार्काररभसा
मत्ताः
पर्यधावन्
वरूथशः
12
▾
Meaning
Keep
रुदन्तो
रासभत्रस्ता
नीडादुदपतन्
खगाः
।
घोषेऽरण्ये
च
पशवः
शकृन्मूत्रमकुर्वत
13
▾
Meaning
Keep
गावोऽत्रसन्नसृग्दोहास्तोयदाः
पूयवर्षिणः
।
व्यरुदन्
देवलिङ्गानि
द्रुमाः
पेतुर्विनानिलम्
14
▾
Meaning
Keep
ग्रहान्
पुण्यतमानन्ये
भगणांश्चापि
दीपिताः
।
अतिचेरुर्वक्रगत्या
युयुधुश्च
परस्परम्
15
▾
Meaning
Keep
दृष्ट्वान्यांश्च
महोत्पातानतत्तत्त्वविदः
प्रजाः
।
ब्रह्मपुत्रान्
ऋते
भीता
मेनिरे
विश्वसम्प्लवम्
16
▾
Meaning
Keep
तावादिदैत्यौ
सहसा
व्यज्यमानात्मपौरुषौ
।
ववृधातेऽश्मसारेण
कायेनाद्रिपती
इव
17
▾
Meaning
Keep
दिविस्पृशौ
हेमकिरीटकोटिभि-
र्निरुद्धकाष्ठौ
स्फुरदङ्गदाभुजौ
।
गां
कम्पयन्तौ
चरणैः
पदे
पदे
कट्या
सुकाञ्च्यार्कमतीत्य
तस्थतुः
18
▾
Meaning
Keep
प्रजापतिर्नाम
तयोरकार्षीद्-
यः
प्राक्
स्वदेहाद्यमयोरजायत
।
तं
वै
हिरण्यकशिपुं
विदुः
प्रजा
यं
तं
हिरण्याक्षमसूत
साग्रतः
19
▾
Meaning
Keep
चक्रे
हिरण्यकशिपुर्दोर्भ्यां
ब्रह्मवरेण
च
।
वशे
सपालाँल्लोकांस्त्रीनकुतोमृत्युरुद्धतः
20
▾
Meaning
Keep
हिरण्याक्षोऽनुजस्तस्य
प्रियः
प्रीतिकृदन्वहम्
।
गदापाणिर्दिवं
यातो
युयुत्सुर्मृगयन्
रणम्
21
▾
Meaning
Keep
तं
वीक्ष्य
दुःसहजवं
रणत्काञ्चननूपुरम्
।
वैजयन्त्या
स्रजा
जुष्टमंसन्यस्तमहागदम्
22
▾
Meaning
Keep
मनोवीर्यवरोत्सिक्तमसृण्यमकुतोभयम्
।
भीता
निलिल्यिरे
देवास्तार्क्ष्यत्रस्ता
इवाहयः
23
▾
Meaning
Keep
स
वै
तिरोहितान्
दृष्ट्वा
महसा
स्वेन
दैत्यराट्
।
सेन्द्रान्
देवगणान्
क्षीबानपश्यन्
व्यनदद्भृशम्
24
▾
Meaning
Keep
ततो
निवृत्तः
क्रीडिष्यन्
गम्भीरं
भीमनिस्वनम्
।
विजगाहे
महासत्त्वो
वार्धिं
मत्त
इव
द्विपः
25
▾
Meaning
Keep
तस्मिन्
प्रविष्टे
वरुणस्य
सैनिका
यादोगणाः
सन्नधियः
ससाध्वसाः
।
अहन्यमाना
अपि
तस्य
वर्चसा
प्रधर्षिता
दूरतरं
प्रदुद्रुवुः
26
▾
Meaning
Keep
स
वर्षपूगानुदधौ
महाबल-
श्चरन्महोर्मीञ्छ्वसनेरितान्
मुहुः
।
मौर्व्याभिजघ्ने
गदया
विभावरी-
मासेदिवांस्तात
पुरीं
प्रचेतसः
27
▾
Meaning
Keep
तत्रोपलभ्यासुरलोकपालकं
यादोगणानामृषभं
प्रचेतसम्
।
स्मयन्
प्रलब्धुं
प्रणिपत्य
नीचव-
ज्जगादमे
देह्यधिराज
संयुगम्
28
▾
Meaning
Keep
त्वं
लोकपालोऽधिपतिर्बृहच्छ्रवा
वीर्यापहो
दुर्मदवीरमानिनाम्
।
विजित्य
लोकेऽखिलदैत्यदानवान्
यद्राजसूयेन
पुरायजत्प्रभो
29
▾
Meaning
Keep
स
एवमुत्सिक्तमदेन
विद्विषा
दृढं
प्रलब्धो
भगवानपां
पतिः
।
रोषं
समुत्थं
शमयन्
स्वया
धिया
व्यवोचदङ्गोपशमं
गता
वयम्
30
▾
Meaning
Keep
पश्यामि
नान्यं
पुरुषात्पुरातनाद्
यः
संयुगे
त्वां
रणमार्गकोविदम्
।
आराधयिष्यत्यसुरर्षभेहि
तं
मनस्विनो
यं
गृणते
भवादृशाः
31
▾
Meaning
Keep
तं
वीरमारादभिपद्य
विस्मयः
शयिष्यसे
वीरशये
श्वभिर्वृतः
।
यस्त्वद्विधानामसतां
प्रशान्तये
रूपाणि
धत्ते
सदनुग्रहेच्छया
Previous
←
The Two Doorkeepers Are Sent Down
Next
The Boar and Hiranyaksa Fight
→