Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Boar and Hiranyaksa Fight
Śrīmad Bhāgavatam
›
Canto 3
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
तदेवमाकर्ण्य
जलेशभाषितं
महामनास्तद्विगणय्य
दुर्मदः
।
हरेर्विदित्वा
गतिमङ्ग
नारदा-
द्रसातलं
निर्विविशे
त्वरान्वितः
2
▾
Meaning
Keep
ददर्श
तत्राभिजितं
धराधरं
प्रोन्नीयमानावनिमग्रदंष्ट्रया
।
मुष्णन्तमक्ष्णा
स्वरुचोऽरुणश्रिया
जहास
चाहो
वनगोचरो
मृगः
3
▾
Meaning
Keep
आहैनमेह्यज्ञ
महीं
विमुञ्च
नो
रसौकसां
विश्वसृजेयमर्पिता
।
न
स्वस्ति
यास्यस्यनया
ममेक्षतः
सुराधमासादितसूकराकृते
4
▾
Meaning
Keep
त्वं
नः
सपत्नैरभवाय
किं
भृतो
यो
मायया
हन्त्यसुरान्
परोक्षजित्
।
त्वां
योगमायाबलमल्पपौरुषं
संस्थाप्य
मूढ
प्रमृजे
सुहृच्छुचः
5
▾
Meaning
Keep
त्वयि
संस्थिते
गदया
शीर्णशीर्ष-
ण्यस्मद्भुजच्युतया
ये
च
तुभ्यम्
।
बलिं
हरन्त्यृषयो
ये
च
देवाः
स्वयं
सर्वे
न
भविष्यन्त्यमूलाः
6
▾
Meaning
Keep
स
तुद्यमानोऽरिदुरुक्ततोमरै-
र्दंष्ट्राग्रगां
गामुपलक्ष्य
भीताम्
।
तोदं
मृषन्
निरगादम्बुमध्या-
द्ग्राहाहतः
स
करेणुर्यथेभः
7
▾
Meaning
Keep
तं
निःसरन्तं
सलिलादनुद्रुतो
हिरण्यकेशो
द्विरदं
यथा
झषः
।
करालदंष्ट्रोऽशनिनिस्वनोऽब्रवी-
द्गतह्रियां
किं
त्वसतां
विगर्हितम्
8
▾
Meaning
Keep
स
गामुदस्तात्सलिलस्य
गोचरे
विन्यस्य
तस्यामदधात्स्वसत्त्वम्
।
अभिष्टुतो
विश्वसृजा
प्रसूनै-
रापूर्यमाणो
विबुधैः
पश्यतोऽरेः
9
▾
Meaning
Keep
परानुषक्तं
तपनीयोपकल्पं
महागदं
काञ्चनचित्रदंशम्
।
मर्माण्यभीक्ष्णं
प्रतुदन्तं
दुरुक्तैः
प्रचण्डमन्युः
प्रहसंस्तं
बभाषे
10
▾
Meaning
Keep
श्रीभगवानुवाच ।
सत्यं वयं भो वनगोचरा मृगा
युष्मद्विधान् मृगये ग्रामसिंहान् ।
न मृत्युपाशैः प्रतिमुक्तस्य वीरा
विकत्थनं तव गृह्णन्त्यभद्र
11
▾
Meaning
Keep
एते
वयं
न्यासहरा
रसौकसां
गतह्रियो
गदया
द्रावितास्ते
।
तिष्ठामहेऽथापि
कथञ्चिदाजौ
स्थेयं
क्व
यामो
बलिनोत्पाद्य
वैरम्
12
▾
Meaning
Keep
त्वं
पद्रथानां
किल
यूथपाधिपो
घटस्व
नोऽस्वस्तय
आश्वनूहः
।
संस्थाप्य
चास्मान्
प्रमृजाश्रु
स्वकानां
यः
स्वां
प्रतिज्ञां
नातिपिपर्त्यसभ्यः
13
▾
Meaning
Keep
सोऽधिक्षिप्तो
भगवता
प्रलब्धश्च
रुषा
भृशम्
।
आजहारोल्बणं
क्रोधं
क्रीड्यमानोऽहिराडिव
14
▾
Meaning
Keep
सृजन्नमर्षितः
श्वासान्
मन्युप्रचलितेन्द्रियः
।
आसाद्य
तरसा
दैत्यो
गदयाभ्यहनद्धरिम्
15
▾
Meaning
Keep
भगवांस्तु
गदावेगं
विसृष्टं
रिपुणोरसि
।
अवञ्चयत्तिरश्चीनो
योगारूढ
इवान्तकम्
16
▾
Meaning
Keep
पुनर्गदां
स्वामादाय
भ्रामयन्तमभीक्ष्णशः
।
अभ्यधावद्धरिः
क्रुद्धः
संरम्भाद्दष्टदच्छदम्
17
▾
Meaning
Keep
ततश्च
गदयारातिं
दक्षिणस्यां
भ्रुवि
प्रभुः
।
आजघ्ने
स
तु
तां
सौम्य
गदया
कोविदोऽहनत्
18
▾
Meaning
Keep
एवं
गदाभ्यां
गुर्वीभ्यां
हर्यक्षो
हरिरेव
च
।
जिगीषया
सुसंरब्धावन्योन्यमभिजघ्नतुः
19
▾
Meaning
Keep
तयोः
स्पृधोस्तिग्मगदाहताङ्गयोः
क्षतास्रवघ्राणविवृद्धमन्य्वोः
।
विचित्रमार्गांश्चरतोर्जिगीषया
व्यभादिलायामिव
शुष्मिणोर्मृधः
20
▾
Meaning
Keep
दैत्यस्य
यज्ञावयवस्य
माया-
गृहीतवाराहतनोर्महात्मनः
।
कौरव्य
मह्यां
द्विषतोर्विमर्दनं
दिदृक्षुरागादृषिभिर्वृतः
स्वराट्
21
▾
Meaning
Keep
आसन्नशौण्डीरमपेतसाध्वसं
कृतप्रतीकारमहार्यविक्रमम्
।
विलक्ष्य
दैत्यं
भगवान्
सहस्रणी-
र्जगाद
नारायणमादिसूकरम्
22
▾
Meaning
Keep
एष
ते
देव
देवानामङ्घ्रिमूलमुपेयुषाम्
।
विप्राणां
सौरभेयीणां
भूतानामप्यनागसाम्
23
▾
Meaning
Keep
आगस्कृद्भयकृद्दुष्कृदस्मद्राद्धवरोऽसुरः
।
अन्वेषन्नप्रतिरथो
लोकानटति
कण्टकः
24
▾
Meaning
Keep
मैनं
मायाविनं
दृप्तं
निरङ्कुशमसत्तमम्
।
आक्रीड
बालवद्
देव
यथाऽऽशीविषमुत्थितम्
25
▾
Meaning
Keep
न
यावदेष
वर्धेत
स्वां
वेलां
प्राप्य
दारुणः
।
स्वां
देव
मायामास्थाय
तावज्जह्यघमच्युत
26
▾
Meaning
Keep
एषा
घोरतमा
सन्ध्या
लोकच्छम्बट्करी
प्रभो
।
उपसर्पति
सर्वात्मन्
सुराणां
जयमावह
27
▾
Meaning
Keep
अधुनैषोऽभिजिन्नाम
योगो
मौहूर्तिको
ह्यगात्
।
शिवाय
नस्त्वं
सुहृदामाशु
निस्तर
दुस्तरम्
28
▾
Meaning
Keep
दिष्ट्या
त्वां
विहितं
मृत्युमयमासादितः
स्वयम्
।
विक्रम्यैनं
मृधे
हत्वा
लोकानाधेहि
शर्मणि
Previous
←
The Birth of Hiranyakasipu and Hiranyaksa
Next
The Killing of Hiranyaksa
→