Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Bodies Brahma Threw Off
Śrīmad Bhāgavatam
›
Canto 3
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
महीं
प्रतिष्ठामध्यस्य
सौते
स्वायम्भुवो
मनुः
।
कान्यन्वतिष्ठद्द्वाराणि
मार्गायावरजन्मनाम्
2
▾
Meaning
Keep
क्षत्ता
महाभागवतः
कृष्णस्यैकान्तिकः
सुहृत्
।
यस्तत्याजाग्रजं
कृष्णे
सापत्यमघवानिति
3
▾
Meaning
Keep
द्वैपायनादनवरो
महित्वे
तस्य
देहजः
।
सर्वात्मना
श्रितः
कृष्णं
तत्परांश्चाप्यनुव्रतः
4
▾
Meaning
Keep
किमन्वपृच्छन्मैत्रेयं
विरजास्तीर्थसेवया
।
उपगम्य
कुशावर्त
आसीनं
तत्त्ववित्तमम्
5
▾
Meaning
Keep
तयोः
संवदतोः
सूत
प्रवृत्ता
ह्यमलाः
कथाः
।
आपो
गाङ्गा
इवाघघ्नीर्हरेः
पादाम्बुजाश्रयाः
6
▾
Meaning
Keep
ता
नः
कीर्तय
भद्रं
ते
कीर्तन्योदारकर्मणः
।
रसज्ञः
को
नु
तृप्येत
हरिलीलामृतं
पिबन्
7
▾
Meaning
Keep
एवमुग्रश्रवाः
पृष्ट
ऋषिभिर्नैमिषायनैः
।
भगवत्यर्पिताध्यात्मस्तानाह
श्रूयतामिति
8
▾
Meaning
Keep
हरेर्धृतक्रोडतनोः
स्वमायया
निशम्य
गोरुद्धरणं
रसातलात्
।
लीलां
हिरण्याक्षमवज्ञया
हतं
संजातहर्षो
मुनिमाह
भारतः
9
▾
Meaning
Keep
प्रजापतिपतिः
सृष्ट्वा
प्रजासर्गे
प्रजापतीन्
।
किमारभत
मे
ब्रह्मन्
प्रब्रूह्यव्यक्तमार्गवित्
10
▾
Meaning
Keep
ये
मरीच्यादयो
विप्रा
यस्तु
स्वायम्भुवो
मनुः
।
ते
वै
ब्रह्मण
आदेशात्कथमेतदभावयन्
11
▾
Meaning
Keep
सद्वितीयाः
किमसृजन्
स्वतन्त्रा
उत
कर्मसु
।
आहोस्वित्संहताः
सर्व
इदं
स्म
समकल्पयन्
12
▾
Meaning
Keep
दैवेन
दुर्वितर्क्येण
परेणानिमिषेण
च
।
जातक्षोभाद्भगवतो
महानासीद्गुणत्रयात्
13
▾
Meaning
Keep
रजःप्रधानान्
महतस्त्रिलिङ्गो
दैवचोदितात्
।
जातः
ससर्ज
भूतादिर्वियदादीनि
पञ्चशः
14
▾
Meaning
Keep
तानि
चैकैकशः
स्रष्टुमसमर्थानि
भौतिकम्
।
संहत्य
दैवयोगेन
हैममण्डमवासृजन्
15
▾
Meaning
Keep
सोऽशयिष्टाब्धिसलिले
आण्डकोशो
निरात्मकः
।
साग्रं
वै
वर्षसाहस्रमन्ववात्सीत्तमीश्वरः
16
▾
Meaning
Keep
तस्य
नाभेरभूत्पद्मं
सहस्रार्कोरुदीधिति
।
सर्वजीवनिकायौको
यत्र
स्वयमभूत्स्वराट्
17
▾
Meaning
Keep
सोऽनुविष्टो
भगवता
यः
शेते
सलिलाशये
।
लोकसंस्थां
यथापूर्वं
निर्ममे
संस्थया
स्वया
18
▾
Meaning
Keep
ससर्जच्छायया
विद्यां
पञ्च
पर्वाणमग्रतः
।
तामिस्रमन्धतामिस्रं
तमो
मोहो
महातमः
19
▾
Meaning
Keep
विससर्जात्मनः
कायं
नाभिनन्दंस्तमोमयम्
।
जगृहुर्यक्षरक्षांसि
रात्रिं
क्षुत्तृट्समुद्भवाम्
20
▾
Meaning
Keep
क्षुत्तृड्भ्यामुपसृष्टास्ते
तं
जग्धुमभिदुद्रुवुः
।
मा
रक्षतैनं
जक्षध्वमित्यूचुः
क्षुत्तृडर्दिताः
21
▾
Meaning
Keep
देवस्तानाह
संविग्नो
मा
मां
जक्षत
रक्षत
।
अहो
मे
यक्षरक्षांसि
प्रजा
यूयं
बभूविथ
22
▾
Meaning
Keep
देवताः
प्रभया
या
या
दीव्यन्
प्रमुखतोऽसृजत्
।
ते
अहार्षुर्देवयन्तो
विसृष्टां
तां
प्रभामहः
23
▾
Meaning
Keep
देवोऽदेवाञ्जघनतः
सृजति
स्मातिलोलुपान्
।
त
एनं
लोलुपतया
मैथुनायाभिपेदिरे
24
▾
Meaning
Keep
ततो
हसन्
स
भगवानसुरैर्निरपत्रपैः
।
अन्वीयमानस्तरसा
क्रुद्धो
भीतः
परापतत्
25
▾
Meaning
Keep
स
उपव्रज्य
वरदं
प्रपन्नार्तिहरं
हरिम्
।
अनुग्रहाय
भक्तानामनुरूपात्मदर्शनम्
26
▾
Meaning
Keep
पाहि
मां
परमात्मंस्ते
प्रेषणेनासृजं
प्रजाः
।
ता
इमा
यभितुं
पापा
उपाक्रामन्ति
मां
प्रभो
27
▾
Meaning
Keep
त्वमेकः
किल
लोकानां
क्लिष्टानां
क्लेशनाशनः
।
त्वमेकः
क्लेशदस्तेषामनासन्नपदां
तव
28
▾
Meaning
Keep
सोऽवधार्यास्य
कार्पण्यं
विविक्ताध्यात्मदर्शनः
।
विमुञ्चात्मतनुं
घोरामित्युक्तो
विमुमोच
ह
29
▾
Meaning
Keep
तां
क्वणच्चरणाम्भोजां
मदविह्वललोचनाम्
।
काञ्चीकलापविलसद्दुकूलच्छन्नरोधसम्
30
▾
Meaning
Keep
अन्योन्यश्लेषयोत्तुङ्गनिरन्तरपयोधराम्
।
सुनासां
सुद्विजां
स्निग्धहासलीलावलोकनाम्
31
▾
Meaning
Keep
गूहन्तीं
व्रीडयाऽऽत्मानं
नीलालकवरूथिनीम्
।
उपलभ्यासुरा
धर्म
सर्वे
सम्मुमुहुः
स्त्रियम्
32
▾
Meaning
Keep
अहो
रूपमहो
धैर्यमहो
अस्या
नवं
वयः
।
मध्ये
कामयमानानामकामेव
विसर्पति
33
▾
Meaning
Keep
वितर्कयन्तो
बहुधा
तां
सन्ध्यां
प्रमदाकृतिम्
।
अभिसम्भाव्य
विश्रम्भात्पर्यपृच्छन्
कुमेधसः
34
▾
Meaning
Keep
कासि
कस्यासि
रम्भोरु
को
वार्थस्तेऽत्र
भामिनि
।
रूपद्रविणपण्येन
दुर्भगान्नो
विबाधसे
35
▾
Meaning
Keep
या
वा
काचित्त्वमबले
दिष्ट्या
सन्दर्शनं
तव
।
उत्सुनोषीक्षमाणानां
कन्दुकक्रीडया
मनः
36
▾
Meaning
Keep
नैकत्र
ते
जयति
शालिनि
पादपद्मं
घ्नन्त्या
मुहुः
करतलेन
पतत्पतङ्गम्
।
मध्यं
विषीदति
बृहत्स्तनभारभीतं
शान्तेव
दृष्टिरमला
सुशिखासमूहः
37
▾
Meaning
Keep
इति
सायन्तनीं
सन्ध्यामसुराः
प्रमदायतीम्
।
प्रलोभयन्तीं
जगृहुर्मत्वा
मूढधियः
स्त्रियम्
38
▾
Meaning
Keep
प्रहस्य
भावगम्भीरं
जिघ्रन्त्यात्मानमात्मना
।
कान्त्या
ससर्ज
भगवान्
गन्धर्वाप्सरसां
गणान्
39
▾
Meaning
Keep
विससर्ज
तनुं
तां
वै
ज्योत्स्नां
कान्तिमतीं
प्रियाम्
।
त
एव
चाददुः
प्रीत्या
विश्वावसुपुरोगमाः
40
▾
Meaning
Keep
सृष्ट्वा
भूतपिशाचांश्च
भगवानात्मतन्द्रिणा
।
दिग्वाससो
मुक्तकेशान्
वीक्ष्य
चामीलयद्दृशौ
41
▾
Meaning
Keep
जगृहुस्तद्विसृष्टां
तां
जृम्भणाख्यां
तनुं
प्रभोः
।
निद्रामिन्द्रियविक्लेदो
यया
भूतेषु
दृश्यते
।
येनोच्छिष्टान्
धर्षयन्ति
तमुन्मादं
प्रचक्षते
42
▾
Meaning
Keep
ऊर्जस्वन्तं
मन्यमान
आत्मानं
भगवानजः
।
साध्यान्
गणान्
पितृगणान्
परोक्षेणासृजत्प्रभुः
43
▾
Meaning
Keep
त
आत्मसर्गं
तं
कायं
पितरः
प्रतिपेदिरे
।
साध्येभ्यश्च
पितृभ्यश्च
कवयो
यद्वितन्वते
44
▾
Meaning
Keep
सिद्धान्
विद्याधरांश्चैव
तिरोधानेन
सोऽसृजत्
।
तेभ्योऽददात्तमात्मानमन्तर्धानाख्यमद्भुतम्
45
▾
Meaning
Keep
स
किन्नरान्
किम्पुरुषान्
प्रत्यात्म्येनासृजत्प्रभुः
।
मानयन्नात्मनाऽऽत्मानमात्माभासं
विलोकयन्
46
▾
Meaning
Keep
ते
तु
तज्जगृहू
रूपं
त्यक्तं
यत्परमेष्ठिना
।
मिथुनीभूय
गायन्तस्तमेवोषसि
कर्मभिः
47
▾
Meaning
Keep
देहेन
वै
भोगवता
शयानो
बहुचिन्तया
।
सर्गेऽनुपचिते
क्रोधादुत्ससर्ज
ह
तद्वपुः
48
▾
Meaning
Keep
येऽहीयन्तामुतः
केशा
अहयस्तेऽङ्ग
जज्ञिरे
।
सर्पाः
प्रसर्पतः
क्रूरा
नागा
भोगोरुकन्धराः
49
▾
Meaning
Keep
स
आत्मानं
मन्यमानः
कृतकृत्यमिवात्मभूः
।
तदा
मनून्
ससर्जान्ते
मनसा
लोकभावनान्
50
▾
Meaning
Keep
तेभ्यः
सोऽसृजत्स्वीयं
पुरं
पुरुषमात्मवान्
।
तान्
दृष्ट्वा
ये
पुरा
सृष्टाः
प्रशशंसुः
प्रजापतिम्
51
▾
Meaning
Keep
अहो
एतज्जगत्स्रष्टः
सुकृतं
बत
ते
कृतम्
।
प्रतिष्ठिताः
क्रिया
यस्मिन्
साकमन्नमदामहे
52
▾
Meaning
Keep
तपसा
विद्यया
युक्तो
योगेन
सुसमाधिना
।
ऋषीन्
ऋषिर्हृषीकेशः
ससर्जाभिमताः
प्रजाः
53
▾
Meaning
Keep
तेभ्यश्चैकैकशः
स्वस्य
देहस्यांशमदादजः
।
यत्तत्समाधियोगर्द्धितपोविद्याविरक्तिमत्
Previous
←
The Killing of Hiranyaksa
Next
Kardama at the Lake of Tears
→