Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Killing of Hiranyaksa
Śrīmad Bhāgavatam
›
Canto 3
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अवधार्य
विरिञ्चस्य
निर्व्यलीकामृतं
वचः
।
प्रहस्य
प्रेमगर्भेण
तदपाङ्गेन
सोऽग्रहीत्
2
▾
Meaning
Keep
ततः
सपत्नं
मुखतश्चरन्तमकुतोभयम्
।
जघानोत्पत्य
गदया
हनावसुरमक्षजः
3
▾
Meaning
Keep
सा
हता
तेन
गदया
विहता
भगवत्करात्
।
विघूर्णितापतद्रेजे
तदद्भुतमिवाभवत्
4
▾
Meaning
Keep
स
तदा
लब्धतीर्थोऽपि
न
बबाधे
निरायुधम्
।
मानयन्
स
मृधे
धर्मं
विष्वक्सेनं
प्रकोपयन्
5
▾
Meaning
Keep
गदायामपविद्धायां
हाहाकारे
विनिर्गते
।
मानयामास
तद्धर्मं
सुनाभं
चास्मरद्विभुः
6
▾
Meaning
Keep
तं
व्यग्रचक्रं
दितिपुत्राधमेन
स्वपार्षदमुख्येन
विषज्जमानम्
।
चित्रा
वाचोऽतद्विदां
खेचराणां
तत्र
स्मासन्
स्वस्ति
तेऽमुं
जहीति
7
▾
Meaning
Keep
स
तं
निशाम्यात्तरथाङ्गमग्रतो
व्यवस्थितं
पद्मपलाशलोचनम्
।
विलोक्य
चामर्षपरिप्लुतेन्द्रियो
रुषा
स्वदन्तच्छदमादशच्छ्वसन्
8
▾
Meaning
Keep
करालदंष्ट्रश्चक्षुर्भ्यां
सञ्चक्षाणो
दहन्निव
।
अभिप्लुत्य
स्वगदया
हतोऽसीत्याहनद्धरिम्
9
▾
Meaning
Keep
पदा
सव्येन
तां
साधो
भगवान्
यज्ञसूकरः
।
लीलया
मिषतः
शत्रोः
प्राहरद्वातरंहसम्
10
▾
Meaning
Keep
आह
चायुधमाधत्स्व
घटस्व
त्वं
जिगीषसि
।
इत्युक्तः
स
तदा
भूयस्ताडयन्
व्यनदद्भृशम्
11
▾
Meaning
Keep
तां
स
आपततीं
वीक्ष्य
भगवान्
समवस्थितः
।
जग्राह
लीलया
प्राप्तां
गरुत्मानिव
पन्नगीम्
12
▾
Meaning
Keep
स्वपौरुषे
प्रतिहते
हतमानो
महासुरः
।
नैच्छद्गदां
दीयमानां
हरिणा
विगतप्रभः
13
▾
Meaning
Keep
जग्राह
त्रिशिखं
शूलं
ज्वलज्ज्वलनलोलुपम्
।
यज्ञाय
धृतरूपाय
विप्रायाभिचरन्
यथा
14
▾
Meaning
Keep
तदोजसा
दैत्यमहाभटार्पितं
चकासदन्तःख
उदीर्णदीधिति
।
-चक्रेण
चिच्छेद
निशातनेमिना
हरिर्यथा
तार्क्ष्यपतत्रमुज्झितम्
15
▾
Meaning
Keep
वृक्णे
स्वशूले
बहुधारिणा
हरेः
प्रत्येत्य
विस्तीर्णमुरो
विभूतिमत्
।
प्रवृद्धरोषः
स
कठोरमुष्टिना
नदन्
प्रहृत्यान्तरधीयतासुरः
16
▾
Meaning
Keep
तेनेत्थमाहतः
क्षत्तर्भगवानादिसूकरः
।
नाकम्पत
मनाक्
क्वापि
स्रजा
हत
इव
द्विपः
17
▾
Meaning
Keep
अथोरुधासृजन्मायां
योगमायेश्वरे
हरौ
।
यां
विलोक्य
प्रजास्त्रस्ता
मेनिरेऽस्योपसंयमम्
18
▾
Meaning
Keep
प्रववुर्वायवश्चण्डास्तमः
पांसवमैरयन्
।
दिग्भ्यो
निपेतुर्ग्रावाणः
क्षेपणैः
प्रहिता
इव
19
▾
Meaning
Keep
द्यौर्नष्टभगणाभ्रौघैः
सविद्युत्स्तनयित्नुभिः
।
वर्षद्भिः
पूयकेशासृग्विण्मूत्रास्थीनि
चासकृत्
20
▾
Meaning
Keep
गिरयः
प्रत्यदृश्यन्त
नानायुधमुचोऽनघ
।
दिग्वाससो
यातुधान्यः
शूलिन्यो
मुक्तमूर्धजाः
21
▾
Meaning
Keep
बहुभिर्यक्षरक्षोभिः
पत्त्यश्वरथकुञ्जरैः
।
आततायिभिरुत्सृष्टा
हिंस्रा
वाचोऽतिवैशसाः
22
▾
Meaning
Keep
प्रादुष्कृतानां
मायानामासुरीणां
विनाशयत्
।
सुदर्शनास्त्रं
भगवान्
प्रायुङ्क्त
दयितं
त्रिपात्
23
▾
Meaning
Keep
तदा
दितेः
समभवत्सहसा
हृदि
वेपथुः
।
स्मरन्त्या
भर्तुरादेशं
स्तनाच्चासृक्
प्रसुस्रुवे
24
▾
Meaning
Keep
विनष्टासु
स्वमायासु
भूयश्चाव्रज्य
केशवम्
।
रुषोपगूहमानोऽमुं
ददृशेऽवस्थितं
बहिः
25
▾
Meaning
Keep
तं
मुष्टिभिर्विनिघ्नन्तं
वज्रसारैरधोक्षजः
।
करेण
कर्णमूलेऽहन्
यथा
त्वाष्ट्रं
मरुत्पतिः
26
▾
Meaning
Keep
स
आहतो
विश्वजिता
ह्यवज्ञया
परिभ्रमद्गात्र
उदस्तलोचनः
।
विशीर्णबाह्वङ्घ्रिशिरोरुहोऽपत-
द्यथा
नगेन्द्रो
लुलितो
नभस्वता
27
▾
Meaning
Keep
क्षितौ
शयानं
तमकुण्ठवर्चसं
करालदंष्ट्रं
परिदष्टदच्छदम्
।
अजादयो
वीक्ष्य
शशंसुरागता
अहो
इमं
को
नु
लभेत
संस्थितिम्
28
▾
Meaning
Keep
यं
योगिनो
योगसमाधिना
रहो
ध्यायन्ति
लिङ्गादसतो
मुमुक्षया
।
तस्यैष
दैत्यऋषभः
पदाहतो
मुखं
प्रपश्यंस्तनुमुत्ससर्ज
ह
29
▾
Meaning
Keep
एतौ
तौ
पार्षदावस्य
शापाद्यातावसद्गतिम्
।
पुनः
कतिपयैः
स्थानं
प्रपत्स्येते
ह
जन्मभिः
30
▾
Meaning
Keep
देवा ऊचुः
नमो नमस्तेऽखिलयज्ञतन्तवे
स्थितौ गृहीतामलसत्त्वमूर्तये ।
दिष्ट्या हतोऽयं जगतामरुन्तुद-
स्त्वत्पादभक्त्या वयमीश निर्वृताः
31
▾
Meaning
Keep
एवं
हिरण्याक्षमसह्यविक्रमं
स
सादयित्वा
हरिरादिसूकरः
।
जगाम
लोकं
स्वमखण्डितोत्सवं
समीडितः
पुष्करविष्टरादिभिः
32
▾
Meaning
Keep
मया
यथानूक्तमवादि
ते
हरेः
कृतावतारस्य
सुमित्रचेष्टितम्
।
यथा
हिरण्याक्ष
उदारविक्रमो
महामृधे
क्रीडनवन्निराकृतः
33
▾
Meaning
Keep
इति
कौषारवाख्यातामाश्रुत्य
भगवत्कथाम्
।
क्षत्ताऽऽनन्दं
परं
लेभे
महाभागवतो
द्विज
34
▾
Meaning
Keep
अन्येषां
पुण्यश्लोकानामुद्दामयशसां
सताम्
।
उपश्रुत्य
भवेन्मोदः
श्रीवत्साङ्कस्य
किं
पुनः
35
▾
Meaning
Keep
यो
गजेन्द्रं
झषग्रस्तं
ध्यायन्तं
चरणाम्बुजम्
।
क्रोशन्तीनां
करेणूनां
कृच्छ्रतोऽमोचयद्द्रुतम्
36
▾
Meaning
Keep
तं
सुखाराध्यमृजुभिरनन्यशरणैर्नृभिः
।
कृतज्ञः
को
न
सेवेत
दुराराध्यमसाधुभिः
37
▾
Meaning
Keep
यो
वै
हिरण्याक्षवधं
महाद्भुतं
विक्रीडितं
कारणसूकरात्मनः
।
शृणोति
गायत्यनुमोदतेऽञ्जसा
विमुच्यते
ब्रह्मवधादपि
द्विजाः
38
▾
Meaning
Keep
एतन्महापुण्यमलं
पवित्रं
धन्यं
यशस्यं
पदमायुराशिषाम्
।
प्राणेन्द्रियाणां
युधि
शौर्यवर्धनं
नारायणोऽन्ते
गतिरङ्ग
शृण्वताम्
Previous
←
The Boar and Hiranyaksa Fight
Next
The Bodies Brahma Threw Off
→