Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Manu Gives His Daughter Away
Śrīmad Bhāgavatam
›
Canto 3
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
एवमाविष्कृताशेषगुणकर्मोदयो
मुनिम्
।
सव्रीड
इव
तं
सम्राडुपारतमुवाच
ह
2
▾
Meaning
Keep
ब्रह्मासृजत्स्वमुखतो
युष्मानात्मपरीप्सया
।
छन्दोमयस्तपोविद्यायोगयुक्तानलम्पटान्
3
▾
Meaning
Keep
तत्त्राणायासृजच्चास्मान्
दोःसहस्रात्सहस्रपात्
।
हृदयं
तस्य
हि
ब्रह्म
क्षत्रमङ्गं
प्रचक्षते
4
▾
Meaning
Keep
अतो
ह्यन्योन्यमात्मानं
ब्रह्म
क्षत्रं
च
रक्षतः
।
रक्षति
स्माव्ययो
देवः
स
यः
सदसदात्मकः
5
▾
Meaning
Keep
तव
संदर्शनादेवच्छिन्ना
मे
सर्वसंशयाः
।
यत्स्वयं
भगवान्
प्रीत्या
धर्ममाह
रिरक्षिषोः
6
▾
Meaning
Keep
दिष्ट्या
मे
भगवान्
दृष्टो
दुर्दर्शो
योऽकृतात्मनाम्
।
दिष्ट्या
पादरजः
स्पृष्टं
शीर्ष्णा
मे
भवतः
शिवम्
7
▾
Meaning
Keep
दिष्ट्या
त्वयानुशिष्टोऽहं
कृतश्चानुग्रहो
महान्
।
अपावृतैः
कर्णरन्ध्रैर्जुष्टा
दिष्ट्योशतीर्गिरः
8
▾
Meaning
Keep
स
भवान्
दुहितृस्नेहपरिक्लिष्टात्मनो
मम
।
श्रोतुमर्हसि
दीनस्य
श्रावितं
कृपया
मुने
9
▾
Meaning
Keep
प्रियव्रतोत्तानपदोः
स्वसेयं
दुहिता
मम
।
अन्विच्छति
पतिं
युक्तं
वयःशीलगुणादिभिः
10
▾
Meaning
Keep
यदा
तु
भवतः
शीलश्रुतरूपवयोगुणान्
।
अशृणोन्नारदादेषा
त्वय्यासीत्कृतनिश्चया
11
▾
Meaning
Keep
तत्प्रतीच्छ
द्विजाग्र्येमां
श्रद्धयोपहृतां
मया
।
सर्वात्मनानुरूपां
ते
गृहमेधिषु
कर्मसु
12
▾
Meaning
Keep
उद्यतस्य
हि
कामस्य
प्रतिवादो
न
शस्यते
।
अपि
निर्मुक्तसङ्गस्य
कामरक्तस्य
किं
पुनः
13
▾
Meaning
Keep
य
उद्यतमनादृत्य
कीनाशमभियाचते
।
क्षीयते
तद्यशः
स्फीतं
मानश्चावज्ञया
हतः
14
▾
Meaning
Keep
अहं
त्वाशृणवं
विद्वन्
विवाहार्थं
समुद्यतम्
।
अतस्त्वमुपकुर्वाणः
प्रत्तां
प्रतिगृहाण
मे
15
▾
Meaning
Keep
बाढमुद्वोढुकामोऽहमप्रत्ता
च
तवात्मजा
।
आवयोरनुरूपोऽसावाद्यो
वैवाहिको
विधिः
16
▾
Meaning
Keep
कामः
स
भूयान्नरदेव
तेऽस्याः
पुत्र्याः
समाम्नायविधौ
प्रतीतः
।
क
एव
ते
तनयां
नाद्रियेत
स्वयैव
कान्त्या
क्षिपतीमिव
श्रियम्
17
▾
Meaning
Keep
यां
हर्म्यपृष्ठे
क्वणदङ्घ्रिशोभां
विक्रीडतीं
कन्दुकविह्वलाक्षीम्
।
विश्वावसुर्न्यपतत्स्वाद्विमाना-
द्विलोक्य
सम्मोहविमूढचेताः
18
▾
Meaning
Keep
तां
प्रार्थयन्तीं
ललनाललाम-
मसेवितश्रीचरणैरदृष्टाम्
।
वत्सां
मनोरुच्चपदः
स्वसारं
को
नानुमन्येत
बुधोऽभियाताम्
19
▾
Meaning
Keep
अतो
भजिष्ये
समयेन
साध्वीं
यावत्तेजो
बिभृयादात्मनो
मे
।
अतो
धर्मान्
पारमहंस्यमुख्यान्
शुक्लप्रोक्तान्
बहु
मन्येऽविहिंस्रान्
20
▾
Meaning
Keep
यतोऽभवद्विश्वमिदं
विचित्रं
संस्थास्यते
यत्र
च
वावतिष्ठते
।
प्रजापतीनां
पतिरेष
मह्यं
परं
प्रमाणं
भगवाननन्तः
21
▾
Meaning
Keep
स
उग्रधन्वन्नियदेवाबभाषे
आसीच्च
तूष्णीमरविन्दनाभम्
।
धियोपगृह्णन्
स्मितशोभितेन
मुखेन
चेतो
लुलुभे
देवहूत्याः
22
▾
Meaning
Keep
सोऽनुज्ञात्वा
व्यवसितं
महिष्या
दुहितुः
स्फुटम्
।
तस्मै
गुणगणाढ्याय
ददौ
तुल्यां
प्रहर्षितः
23
▾
Meaning
Keep
शतरूपा
महाराज्ञी
पारिबर्हान्
महाधनान्
।
दम्पत्योः
पर्यदात्प्रीत्या
भूषावासः
परिच्छदान्
24
▾
Meaning
Keep
प्रत्तां
दुहितरं
सम्राट्
सदृक्षाय
गतव्यथः
।
उपगुह्य
च
बाहुभ्यामौत्कण्ठ्योन्मथिताशयः
25
▾
Meaning
Keep
अशक्नुवंस्तद्विरहं
मुञ्चन्
बाष्पकलां
मुहुः
।
आसिञ्चदम्ब
वत्सेति
नेत्रोदैर्दुहितुः
शिखाः
26
▾
Meaning
Keep
आमन्त्र्य
तं
मुनिवरमनुज्ञातः
सहानुगः
।
प्रतस्थे
रथमारुह्य
सभार्यः
स्वपुरं
नृपः
27
▾
Meaning
Keep
उभयोर्ऋषिकुल्यायाः
सरस्वत्याः
सुरोधसोः
।
ऋषीणामुपशान्तानां
पश्यन्नाश्रमसम्पदः
28
▾
Meaning
Keep
तमायान्तमभिप्रेत्य
ब्रह्मावर्तात्प्रजाः
पतिम्
।
गीतसंस्तुतिवादित्रैः
प्रत्युदीयुः
प्रहर्षिताः
29
▾
Meaning
Keep
बर्हिष्मती
नाम
पुरी
सर्वसम्पत्समन्विता
।
न्यपतन्
यत्र
रोमाणि
यज्ञस्याङ्गं
विधुन्वतः
30
▾
Meaning
Keep
कुशाः
काशास्त
एवासन्
शश्वद्धरितवर्चसः
।
ऋषयो
यैः
पराभाव्य
यज्ञघ्नान्यज्ञमीजिरे
31
▾
Meaning
Keep
कुशकाशमयं
बर्हिरास्तीर्य
भगवान्
मनुः
।
अयजद्यज्ञपुरुषं
लब्धा
स्थानं
यतो
भुवम्
32
▾
Meaning
Keep
बर्हिष्मतीं
नाम
विभुर्यां
निर्विश्य
समावसत्
।
तस्यां
प्रविष्टो
भवनं
तापत्रयविनाशनम्
33
▾
Meaning
Keep
सभार्यः
सप्रजः
कामान्
बुभुजेऽन्याविरोधतः
।
संगीयमानसत्कीर्तिः
सस्त्रीभिः
सुरगायकैः
।
प्रत्यूषेष्वनुबद्धेन
हृदा
शृण्वन्
हरेः
कथाः
34
▾
Meaning
Keep
निष्णातं
योगमायासु
मुनिं
स्वायम्भुवं
मनुम्
।
यदा
भ्रंशयितुं
भोगा
न
शेकुर्भगवत्परम्
35
▾
Meaning
Keep
अयातयामास्तस्यासन्
यामाः
स्वान्तरयापनाः
।
शृण्वतो
ध्यायतो
विष्णोः
कुर्वतो
ब्रुवतः
कथाः
36
▾
Meaning
Keep
स
एवं
स्वान्तरं
निन्ये
युगानामेकसप्ततिम्
।
वासुदेवप्रसङ्गेन
परिभूतगतित्रयः
37
▾
Meaning
Keep
शारीरा
मानसा
दिव्या
वैयासे
ये
च
मानुषाः
।
भौतिकाश्च
कथं
क्लेशा
बाधन्ते
हरिसंश्रयम्
38
▾
Meaning
Keep
यः
पृष्टो
मुनिभिः
प्राह
धर्मान्नानाविधाञ्छुभान्
।
नृणां
वर्णाश्रमाणां
च
सर्वभूतहितः
सदा
39
▾
Meaning
Keep
एतत्त
आदिराजस्य
मनोश्चरितमद्भुतम्
।
वर्णितं
वर्णनीयस्य
तदपत्योदयं
शृणु
Previous
←
Kardama at the Lake of Tears
Next
The Flying Palace
→