Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Flying Palace
Śrīmad Bhāgavatam
›
Canto 3
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
पितृभ्यां
प्रस्थिते
साध्वी
पतिमिङ्गितकोविदा
।
नित्यं
पर्यचरत्प्रीत्या
भवानीव
भवं
प्रभुम्
2
▾
Meaning
Keep
विश्रम्भेणात्मशौचेन
गौरवेण
दमेन
च
।
शुश्रूषया
सौहृदेन
वाचा
मधुरया
च
भोः
3
▾
Meaning
Keep
विसृज्य
कामं
दम्भं
च
द्वेषं
लोभमघं
मदम्
।
अप्रमत्तोद्यता
नित्यं
तेजीयांसमतोषयत्
4
▾
Meaning
Keep
स
वै
देवर्षिवर्यस्तां
मानवीं
समनुव्रताम्
।
दैवाद्गरीयसः
पत्युराशासानां
महाशिषः
5
▾
Meaning
Keep
कालेन
भूयसा
क्षामां
कर्शितां
व्रतचर्यया
।
प्रेमगद्गदया
वाचा
पीडितः
कृपयाब्रवीत्
6
▾
Meaning
Keep
तुष्टोऽहमद्य
तव
मानवि
मानदायाः
शुश्रूषया
परमया
परया
च
भक्त्या
।
यो
देहिनामयमतीव
सुहृत्स्वदेहो
नावेक्षितः
समुचितः
क्षपितुं
मदर्थे
7
▾
Meaning
Keep
ये
मे
स्वधर्मनिरतस्य
तपः
समाधि-
विद्यात्मयोगविजिता
भगवत्प्रसादाः
।
तानेव
ते
मदनुसेवनयावरुद्धान्
दृष्टिं
प्रपश्य
वितराम्यभयानशोकान्
8
▾
Meaning
Keep
अन्ये
पुनर्भगवतो
भ्रुव
उद्विजृम्भ-
विभ्रंशितार्थरचनाः
किमुरुक्रमस्य
।
सिद्धासि
भुङ्क्ष्व
विभवान्
निजधर्मदोहान्
दिव्यान्नरैर्दुरधिगान्नृपविक्रियाभिः
9
▾
Meaning
Keep
एवं
ब्रुवाणमबलाखिलयोगमाया-
विद्याविचक्षणमवेक्ष्य
गताधिरासीत्
।
सम्प्रश्रयप्रणयविह्वलया
गिरेषद्-
व्रीडावलोकविलसद्धसिताननाऽऽह
10
▾
Meaning
Keep
राद्धं
बत
द्विजवृषैतदमोघयोग-
मायाधिपे
त्वयि
विभो
तदवैमि
भर्तः
।
यस्तेऽभ्यधायि
समयः
सकृदङ्गसङ्गो
भूयाद्गरीयसि
गुणः
प्रसवः
सतीनाम्
11
▾
Meaning
Keep
तत्रेतिकृत्यमुपशिक्ष
यथोपदेशं
येनैष
मे
कर्शितोऽतिरिरंसयाऽऽत्मा
।
सिद्ध्येत
ते
कृतमनोभवधर्षिताया
दीनस्तदीश
भवनं
सदृशं
विचक्ष्व
12
▾
Meaning
Keep
प्रियायाः
प्रियमन्विच्छन्
कर्दमो
योगमास्थितः
।
विमानं
कामगं
क्षत्तस्तर्ह्येवाविरचीकरत्
13
▾
Meaning
Keep
सर्वकामदुघं
दिव्यं
सर्वरत्नसमन्वितम्
।
सर्वर्द्ध्युपचयोदर्कं
मणिस्तम्भैरुपस्कृतम्
14
▾
Meaning
Keep
दिव्योपकरणोपेतं
सर्वकालसुखावहम्
।
पट्टिकाभिः
पताकाभिर्विचित्राभिरलङ्कृतम्
15
▾
Meaning
Keep
स्रग्भिर्विचित्रमाल्याभिर्मञ्जुशिञ्जत्षडङ्घ्रिभिः
।
दुकूलक्षौमकौशेयैर्नानावस्त्रैर्विराजितम्
16
▾
Meaning
Keep
उपर्युपरि
विन्यस्तनिलयेषु
पृथक्पृथक्
।
क्षिप्तैः
कशिपुभिः
कान्तं
पर्यङ्कव्यजनासनैः
17
▾
Meaning
Keep
तत्र
तत्र
विनिक्षिप्तनानाशिल्पोपशोभितम्
।
महामरकतस्थल्या
जुष्टं
विद्रुमवेदिभिः
18
▾
Meaning
Keep
द्वाःसु
विद्रुमदेहल्या
भातं
वज्रकपाटवत्
।
शिखरेष्विन्द्रनीलेषु
हेमकुम्भैरधिश्रितम्
19
▾
Meaning
Keep
चक्षुष्मत्पद्मरागाग्र्यैर्वज्रभित्तिषु
निर्मितैः
।
जुष्टं
विचित्रवैतानैर्महार्हैर्हेमतोरणैः
20
▾
Meaning
Keep
हंसपारावतव्रातैस्तत्र
तत्र
निकूजितम्
।
कृत्रिमान्
मन्यमानैः
स्वानधिरुह्याधिरुह्य
च
21
▾
Meaning
Keep
विहारस्थानविश्रामसंवेशप्राङ्गणाजिरैः
।
यथोपजोषं
रचितैर्विस्मापनमिवात्मनः
22
▾
Meaning
Keep
ईदृग्गृहं
तत्पश्यन्तीं
नातिप्रीतेन
चेतसा
।
सर्वभूताशयाभिज्ञः
प्रावोचत्कर्दमः
स्वयम्
23
▾
Meaning
Keep
निमज्ज्यास्मिन्
ह्रदे
भीरु
विमानमिदमारुह
।
इदं
शुक्लकृतं
तीर्थमाशिषां
यापकं
नृणाम्
24
▾
Meaning
Keep
सा
तद्भर्तुः
समादाय
वचः
कुवलयेक्षणा
।
सरजं
बिभ्रती
वासो
वेणीभूतांश्च
मूर्धजान्
25
▾
Meaning
Keep
अङ्गं
च
मलपङ्केन
संछन्नं
शबलस्तनम्
।
आविवेश
सरस्वत्याः
सरः
शिवजलाशयम्
26
▾
Meaning
Keep
सान्तःसरसि
वेश्मस्थाः
शतानि
दश
कन्यकाः
।
सर्वाः
किशोरवयसो
ददर्शोत्पलगन्धयः
27
▾
Meaning
Keep
तां
दृष्ट्वा
सहसोत्थाय
प्रोचुः
प्राञ्जलयः
स्त्रियः
।
वयं
कर्मकरीस्तुभ्यं
शाधि
नः
करवाम
किम्
28
▾
Meaning
Keep
स्नानेन
तां
महार्हेण
स्नापयित्वा
मनस्विनीम्
।
दुकूले
निर्मले
नूत्ने
ददुरस्यै
च
मानदाः
29
▾
Meaning
Keep
भूषणानि
परार्ध्यानि
वरीयांसि
द्युमन्ति
च
।
अन्नं
सर्वगुणोपेतं
पानं
चैवामृतासवम्
30
▾
Meaning
Keep
अथादर्शे
स्वमात्मानं
स्रग्विणं
विरजाम्बरम्
।
विरजं
कृतस्वस्त्ययनं
कन्याभिर्बहुमानितम्
31
▾
Meaning
Keep
स्नातं
कृतशिरःस्नानं
सर्वाभरणभूषितम्
।
निष्कग्रीवं
वलयिनं
कूजत्काञ्चननूपुरम्
32
▾
Meaning
Keep
श्रोण्योरध्यस्तया
काञ्च्या
काञ्चन्या
बहुरत्नया
।
हारेण
च
महार्हेण
रुचकेन
च
भूषितम्
33
▾
Meaning
Keep
सुदता
सुभ्रुवा
श्लक्ष्णस्निग्धापाङ्गेन
चक्षुषा
।
पद्मकोशस्पृधा
नीलैरलकैश्च
लसन्मुखम्
34
▾
Meaning
Keep
यदा
सस्मार
ऋषभमृषीणां
दयितं
पतिम्
।
तत्र
चास्ते
सह
स्त्रीभिर्यत्रास्ते
स
प्रजापतिः
35
▾
Meaning
Keep
भर्तुः
पुरस्तादात्मानं
स्त्रीसहस्रवृतं
तदा
।
निशाम्य
तद्योगगतिं
संशयं
प्रत्यपद्यत
36
▾
Meaning
Keep
स
तां
कृतमलस्नानां
विभ्राजन्तीमपूर्ववत्
।
आत्मनो
बिभ्रतीं
रूपं
संवीतरुचिरस्तनीम्
37
▾
Meaning
Keep
विद्याधरीसहस्रेण
सेव्यमानां
सुवाससम्
।
जातभावो
विमानं
तदारोहयदमित्रहन्
38
▾
Meaning
Keep
तस्मिन्नलुप्तमहिमा
प्रिययानुरक्तो
विद्याधरीभिरुपचीर्णवपुर्विमाने
।
बभ्राज
उत्कचकुमुद्गणवानपीच्य-
स्ताराभिरावृत
इवोडुपतिर्नभःस्थः
39
▾
Meaning
Keep
तेनाष्टलोकपविहारकुलाचलेन्द्र-
द्रोणीष्वनङ्गसखमारुतसौभगासु
।
सिद्धैर्नुतो
द्युधुनिपातशिवस्वनासु
रेमे
चिरं
धनदवल्ललना
वरूथी
40
▾
Meaning
Keep
वैश्रम्भके
सुरसने
नन्दने
पुष्पभद्रके
।
मानसे
चैत्ररथ्ये
च
स
रेमे
रामया
रतः
41
▾
Meaning
Keep
भ्राजिष्णुना
विमानेन
कामगेन
महीयसा
।
वैमानिकानत्यशेत
चरँल्लोकान्
यथानिलः
42
▾
Meaning
Keep
किं
दुरापादनं
तेषां
पुंसामुद्दामचेतसाम्
।
यैराश्रितस्तीर्थपदश्चरणो
व्यसनात्ययः
43
▾
Meaning
Keep
प्रेक्षयित्वा
भुवो
गोलं
पत्न्यै
यावान्
स्वसंस्थया
।
बह्वाश्चर्यं
महायोगी
स्वाश्रमाय
न्यवर्तत
44
▾
Meaning
Keep
विभज्य
नवधाऽऽत्मानं
मानवीं
सुरतोत्सुकाम्
।
रामां
निरमयन्
रेमे
वर्षपूगान्
मुहूर्तवत्
45
▾
Meaning
Keep
तस्मिन्
विमान
उत्कृष्टां
शय्यां
रतिकरीं
श्रिता
।
न
चाबुध्यत
तं
कालं
पत्यापीच्येन
संगता
46
▾
Meaning
Keep
एवं
योगानुभावेन
दम्पत्यो
रममाणयोः
।
शतं
व्यतीयुः
शरदः
कामलालसयोर्मनाक्
47
▾
Meaning
Keep
तस्यामाधत्त
रेतस्तां
भावयन्नात्मनाऽऽत्मवित्
।
नोधा
विधाय
रूपं
स्वं
सर्वसङ्कल्पविद्विभुः
48
▾
Meaning
Keep
अतः
सा
सुषुवे
सद्यो
देवहूतिः
स्त्रियः
प्रजाः
।
सर्वास्ताश्चारुसर्वाङ्ग्यो
लोहितोत्पलगन्धयः
49
▾
Meaning
Keep
पतिं
सा
प्रव्रजिष्यन्तं
तदाऽऽलक्ष्योशती
सती
।
स्मयमाना
विक्लवेन
हृदयेन
विदूयता
50
▾
Meaning
Keep
लिखन्त्यधोमुखी
भूमिं
पदा
नखमणिश्रिया
।
उवाच
ललितां
वाचं
निरुध्याश्रुकलां
शनैः
51
▾
Meaning
Keep
सर्वं
तद्भगवान्
मह्यमुपोवाह
प्रतिश्रुतम्
।
अथापि
मे
प्रपन्नाया
अभयं
दातुमर्हसि
52
▾
Meaning
Keep
ब्रह्मन्
दुहितृभिस्तुभ्यं
विमृग्याः
पतयः
समाः
।
कश्चित्स्यान्मे
विशोकाय
त्वयि
प्रव्रजिते
वनम्
53
▾
Meaning
Keep
एतावतालं
कालेन
व्यतिक्रान्तेन
मे
प्रभो
।
इन्द्रियार्थप्रसङ्गेन
परित्यक्तपरात्मनः
54
▾
Meaning
Keep
इन्द्रियार्थेषु
सज्जन्त्या
प्रसङ्गस्त्वयि
मे
कृतः
।
अजानन्त्या
परं
भावं
तथाप्यस्त्वभयाय
मे
55
▾
Meaning
Keep
सङ्गो
यः
संसृतेर्हेतुरसत्सु
विहितोऽधिया
।
स
एव
साधुषु
कृतो
निःसङ्गत्वाय
कल्पते
56
▾
Meaning
Keep
नेह
यत्कर्म
धर्माय
न
विरागाय
कल्पते
।
न
तीर्थपदसेवायै
जीवन्नपि
मृतो
हि
सः
57
▾
Meaning
Keep
साहं
भगवतो
नूनं
वञ्चिता
मायया
दृढम्
।
यत्त्वां
विमुक्तिदं
प्राप्य
न
मुमुक्षेय
बन्धनात्
Previous
←
Manu Gives His Daughter Away
Next
The Birth of Kapila
→