Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Birth of Kapila
Śrīmad Bhāgavatam
›
Canto 3
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
निर्वेदवादिनीमेवं
मनोर्दुहितरं
मुनिः
।
दयालुः
शालिनीमाह
शुक्लाभिव्याहृतं
स्मरन्
2
▾
Meaning
Keep
मा
खिदो
राजपुत्रीत्थमात्मानं
प्रत्यनिन्दिते
।
भगवांस्तेऽक्षरो
गर्भमदूरात्सम्प्रपत्स्यते
3
▾
Meaning
Keep
धृतव्रतासि
भद्रं
ते
दमेन
नियमेन
च
।
तपोद्रविणदानैश्च
श्रद्धया
चेश्वरं
भज
4
▾
Meaning
Keep
स
त्वयाऽऽराधितः
शुक्लो
वितन्वन्
मामकं
यशः
।
छेत्ता
ते
हृदयग्रन्थिमौदर्यो
ब्रह्मभावनः
5
▾
Meaning
Keep
देवहूत्यपि
संदेशं
गौरवेण
प्रजापतेः
।
सम्यक्
श्रद्धाय
पुरुषं
कूटस्थमभजद्गुरुम्
6
▾
Meaning
Keep
तस्यां
बहुतिथे
काले
भगवान्
मधुसूदनः
।
कार्दमं
वीर्यमापन्नो
जज्ञेऽग्निरिव
दारुणि
7
▾
Meaning
Keep
अवादयंस्तदा
व्योम्नि
वादित्राणि
घनाघनाः
।
गायन्ति
तं
स्म
गन्धर्वा
नृत्यन्त्यप्सरसो
मुदा
8
▾
Meaning
Keep
पेतुः
सुमनसो
दिव्याः
खेचरैरपवर्जिताः
।
प्रसेदुश्च
दिशः
सर्वा
अम्भांसि
च
मनांसि
च
9
▾
Meaning
Keep
तत्कर्दमाश्रमपदं
सरस्वत्या
परिश्रितम्
।
स्वयम्भूः
साकमृषिभिर्मरीच्यादिभिरभ्ययात्
10
▾
Meaning
Keep
भगवन्तं
परं
ब्रह्म
सत्त्वेनांशेन
शत्रुहन्
।
तत्त्वसंख्यानविज्ञप्त्यै
जातं
विद्वानजः
स्वराट्
11
▾
Meaning
Keep
सभाजयन्
विशुद्धेन
चेतसा
तच्चिकीर्षितम्
।
प्रहृष्यमाणैरसुभिः
कर्दमं
चेदमभ्यधात्
12
▾
Meaning
Keep
त्वया
मेऽपचितिस्तात
कल्पिता
निर्व्यलीकतः
।
यन्मे
संजगृहे
वाक्यं
भवान्मानद
मानयन्
13
▾
Meaning
Keep
एतावत्येव
शुश्रूषा
कार्या
पितरि
पुत्रकैः
।
बाढमित्यनुमन्येत
गौरवेण
गुरोर्वचः
14
▾
Meaning
Keep
इमा
दुहितरः
सभ्य
तव
वत्स
सुमध्यमाः
।
सर्गमेतं
प्रभावैः
स्वैर्बृंहयिष्यन्त्यनेकधा
15
▾
Meaning
Keep
अतस्त्वमृषिमुख्येभ्यो
यथाशीलं
यथारुचि
।
आत्मजाः
परिदेह्यद्य
विस्तृणीहि
यशो
भुवि
16
▾
Meaning
Keep
वेदाहमाद्यं
पुरुषमवतीर्णं
स्वमायया
।
भूतानां
शेवधिं
देहं
बिभ्राणं
कपिलं
मुने
17
▾
Meaning
Keep
ज्ञानविज्ञानयोगेन
कर्मणामुद्धरञ्जटाः
।
हिरण्यकेशः
पद्माक्षः
पद्ममुद्रापदाम्बुजः
18
▾
Meaning
Keep
एष
मानवि
ते
गर्भं
प्रविष्टः
कैटभार्दनः
।
अविद्यासंशयग्रन्थिं
छित्त्वा
गां
विचरिष्यति
19
▾
Meaning
Keep
अयं
सिद्धगणाधीशः
साङ्ख्याचार्यैः
सुसम्मतः
।
लोके
कपिल
इत्याख्यां
गन्ता
ते
कीर्तिवर्धनः
20
▾
Meaning
Keep
तावाश्वास्य
जगत्स्रष्टा
कुमारैः
सह
नारदः
।
हंसो
हंसेन
यानेन
त्रिधाम
परमं
ययौ
21
▾
Meaning
Keep
गते
शतधृतौ
क्षत्तः
कर्दमस्तेन
चोदितः
।
यथोदितं
स्वदुहितॄः
प्रादाद्विश्वसृजां
ततः
22
▾
Meaning
Keep
मरीचये
कलां
प्रादादनसूयामथात्रये
।
श्रद्धामङ्गिरसेऽयच्छत्पुलस्त्याय
हविर्भुवम्
23
▾
Meaning
Keep
पुलहाय
गतिं
युक्तां
क्रतवे
च
क्रियां
सतीम्
।
ख्यातिं
च
भृगवेऽयच्छद्वसिष्ठायाप्यरुन्धतीम्
24
▾
Meaning
Keep
अथर्वणेऽददाच्छान्तिं
यया
यज्ञो
वितन्यते
।
विप्रर्षभान्
कृतोद्वाहान्
सदारान्
समलालयत्
25
▾
Meaning
Keep
ततस्त
ऋषयः
क्षत्तः
कृतदारा
निमन्त्र्य
तम्
।
प्रातिष्ठन्
नन्दिमापन्नाः
स्वं
स्वमाश्रममण्डलम्
26
▾
Meaning
Keep
स
चावतीर्णं
त्रियुगमाज्ञाय
विबुधर्षभम्
।
विविक्त
उपसङ्गम्य
प्रणम्य
समभाषत
27
▾
Meaning
Keep
अहो
पापच्यमानानां
निरये
स्वैरमङ्गलैः
।
कालेन
भूयसा
नूनं
प्रसीदन्तीह
देवताः
28
▾
Meaning
Keep
बहुजन्मविपक्वेन
सम्यग्योगसमाधिना
।
द्रष्टुं
यतन्ते
यतयः
शून्यागारेषु
यत्पदम्
29
▾
Meaning
Keep
स
एव
भगवानद्य
हेलनं
नगणय्य
नः
।
गृहेषु
जातो
ग्राम्याणां
यः
स्वानां
पक्षपोषणः
30
▾
Meaning
Keep
स्वीयं
वाक्यमृतं
कर्तुमवतीर्णोऽसि
मे
गृहे
।
चिकीर्षुर्भगवान्
ज्ञानं
भक्तानां
मानवर्धनः
31
▾
Meaning
Keep
तान्येव
तेऽभिरूपाणि
रूपाणि
भगवंस्तव
।
यानि
यानि
च
रोचन्ते
स्वजनानामरूपिणः
32
▾
Meaning
Keep
त्वां
सूरिभिस्तत्त्वबुभुत्सयाद्धा
सदाभिवादार्हणपादपीठम्
।
ऐश्वर्यवैराग्ययशोऽवबोध-
वीर्यश्रिया
पूर्तमहं
प्रपद्ये
33
▾
Meaning
Keep
परं
प्रधानं
पुरुषं
महान्तं
कालं
कविं
त्रिवृतं
लोकपालम्
।
आत्मानुभूत्यानुगतप्रपञ्चं
स्वच्छन्दशक्तिं
कपिलं
प्रपद्ये
34
▾
Meaning
Keep
आ
स्माभिपृच्छेऽद्य
पतिं
प्रजानां
त्वयावतीर्णर्ण
उताप्तकामः
।
परिव्रजत्पदवीमास्थितोऽहं
चरिष्ये
त्वां
हृदि
युञ्जन्
विशोकः
35
▾
Meaning
Keep
श्रीभगवानुवाच ।
मया प्रोक्तं हि लोकस्य प्रमाणं सत्यलौकिके ।
अथाजनि मया तुभ्यं यदवोचमृतं मुने
36
▾
Meaning
Keep
एतन्मे
जन्म
लोकेऽस्मिन्मुमुक्षूणां
दुराशयात्
।
प्रसंख्यानाय
तत्त्वानां
संमतायात्मदर्शने
37
▾
Meaning
Keep
एष
आत्मपथोऽव्यक्तो
नष्टः
कालेन
भूयसा
।
तं
प्रवर्तयितुं
देहमिमं
विद्धि
मया
भृतम्
38
▾
Meaning
Keep
गच्छ
कामं
मयाऽऽपृष्टो
मयि
संन्यस्तकर्मणा
।
जित्वा
सुदुर्जयं
मृत्युममृतत्वाय
मां
भज
39
▾
Meaning
Keep
मामात्मानं
स्वयंज्योतिः
सर्वभूतगुहाशयम्
।
आत्मन्येवात्मना
वीक्ष्य
विशोकोऽभयमृच्छसि
40
▾
Meaning
Keep
मात्र
आध्यात्मिकीं
विद्यां
शमनीं
सर्वकर्मणाम्
।
वितरिष्ये
यया
चासौ
भयं
चातितरिष्यति
41
▾
Meaning
Keep
एवं
समुदितस्तेन
कपिलेन
प्रजापतिः
।
दक्षिणीकृत्य
तं
प्रीतो
वनमेव
जगाम
ह
42
▾
Meaning
Keep
व्रतं
स
आस्थितो
मौनमात्मैकशरणो
मुनिः
।
निःसङ्गो
व्यचरत्क्षोणीमनग्निरनिकेतनः
43
▾
Meaning
Keep
मनो
ब्रह्मणि
युञ्जानो
यत्तत्सदसतः
परम्
।
गुणावभासे
विगुण
एकभक्त्यानुभाविते
44
▾
Meaning
Keep
निरहंकृतिर्निर्ममश्च
निर्द्वन्द्वः
समदृक्
स्वदृक्
।
प्रत्यक्प्रशान्तधीर्धीरः
प्रशान्तोर्मिरिवोदधिः
45
▾
Meaning
Keep
वासुदेवे
भगवति
सर्वज्ञे
प्रत्यगात्मनि
।
परेण
भक्तिभावेन
लब्धात्मा
मुक्तबन्धनः
46
▾
Meaning
Keep
आत्मानं
सर्वभूतेषु
भगवन्तमवस्थितम्
।
अपश्यत्सर्वभूतानि
भगवत्यपि
चात्मनि
47
▾
Meaning
Keep
इच्छाद्वेषविहीनेन
सर्वत्र
समचेतसा
।
भगवद्भक्तियुक्तेन
प्राप्ता
भागवती
गतिः
Previous
←
The Flying Palace
Next
The Glory of Devotion
→