Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Yoga That Has a Seed
Śrīmad Bhāgavatam
›
Canto 3
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
श्रीभगवानुवाच ।
योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे ।
मनो येनैव विधिना प्रसन्नं याति सत्पथम्
2
▾
Meaning
Keep
स्वधर्माचरणं
शक्त्या
विधर्माच्च
निवर्तनम्
।
दैवाल्लब्धेन
सन्तोष
आत्मविच्चरणार्चनम्
3
▾
Meaning
Keep
ग्राम्यधर्मनिवृत्तिश्च
मोक्षधर्मरतिस्तथा
।
मितमेध्यादनं
शश्वद्विविक्तक्षेमसेवनम्
4
▾
Meaning
Keep
अहिंसा
सत्यमस्तेयं
यावदर्थपरिग्रहः
।
ब्रह्मचर्यं
तपः
शौचं
स्वाध्यायः
पुरुषार्चनम्
5
▾
Meaning
Keep
मौनं
सदाऽऽसनजयः
स्थैर्यं
प्राणजयः
शनैः
।
प्रत्याहारश्चेन्द्रियाणां
विषयान्मनसा
हृदि
6
▾
Meaning
Keep
स्वधिष्ण्यानामेकदेशे
मनसा
प्राणधारणम्
।
वैकुण्ठलीलाभिध्यानं
समाधानं
तथाऽऽत्मनः
7
▾
Meaning
Keep
एतैरन्यैश्च
पथिभिर्मनो
दुष्टमसत्पथम्
।
बुद्ध्या
युञ्जीत
शनकैर्जितप्राणो
ह्यतन्द्रितः
8
▾
Meaning
Keep
शुचौ
देशे
प्रतिष्ठाप्य
विजितासन
आसनम्
।
तस्मिन्
स्वस्ति
समासीन
ऋजुकायः
समभ्यसेत्
9
▾
Meaning
Keep
प्राणस्य
शोधयेन्मार्गं
पूरकुम्भकरेचकैः
।
प्रतिकूलेन
वा
चित्तं
यथा
स्थिरमचञ्चलम्
10
▾
Meaning
Keep
मनोऽचिरात्स्याद्विरजं
जितश्वासस्य
योगिनः
।
वाय्वग्निभ्यां
यथा
लोहं
ध्मातं
त्यजति
वै
मलम्
11
▾
Meaning
Keep
प्राणायामैर्दहेद्दोषान्
धारणाभिश्च
किल्बिषान्
।
प्रत्याहारेण
संसर्गान्
ध्यानेनानीश्वरान्
गुणान्
12
▾
Meaning
Keep
यदा
मनः
स्वं
विरजं
योगेन
सुसमाहितम्
।
काष्ठां
भगवतो
ध्यायेत्स्वनासाग्रावलोकनः
13
▾
Meaning
Keep
प्रसन्नवदनाम्भोजं
पद्मगर्भारुणेक्षणम्
।
नीलोत्पलदलश्यामं
शङ्खचक्रगदाधरम्
14
▾
Meaning
Keep
लसत्पङ्कजकिञ्जल्कपीतकौशेयवाससम्
।
श्रीवत्सवक्षसं
भ्राजत्कौस्तुभामुक्तकन्धरम्
15
▾
Meaning
Keep
मत्तद्विरेफकलया
परीतं
वनमालया
।
परार्ध्यहारवलयकिरीटाङ्गदनूपुरम्
16
▾
Meaning
Keep
काञ्चीगुणोल्लसच्छ्रोणिं
हृदयाम्भोजविष्टरम्
।
दर्शनीयतमं
शान्तं
मनोनयनवर्धनम्
17
▾
Meaning
Keep
अपीच्यदर्शनं
शश्वत्सर्वलोकनमस्कृतम्
।
सन्तं
वयसि
कैशोरे
भृत्यानुग्रहकातरम्
18
▾
Meaning
Keep
कीर्तन्यतीर्थयशसं
पुण्यश्लोकयशस्करम्
।
ध्यायेद्देवं
समग्राङ्गं
यावन्न
च्यवते
मनः
19
▾
Meaning
Keep
स्थितं
व्रजन्तमासीनं
शयानं
वा
गुहाशयम्
।
प्रेक्षणीयेहितं
ध्यायेच्छुद्धभावेन
चेतसा
20
▾
Meaning
Keep
तस्मिँल्लब्धपदं
चित्तं
सर्वावयवसंस्थितम्
।
विलक्ष्यैकत्र
संयुज्यादङ्गे
भगवतो
मुनिः
21
▾
Meaning
Keep
सञ्चिन्तयेद्भगवतश्चरणारविन्दं
वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम्
।
उत्तुङ्गरक्तविलसन्नखचक्रवाल-
ज्योत्स्नाभिराहतमहद्धृदयान्धकारम्
22
▾
Meaning
Keep
यच्छौचनिःसृतसरित्प्रवरोदकेन
तीर्थेन
मूर्ध्न्यधिकृतेन
शिवः
शिवोऽभूत्
।
ध्यातुर्मनःशमलशैलनिसृष्टवज्रं
ध्यायेच्चिरं
भगवतश्चरणारविन्दम्
23
▾
Meaning
Keep
जानुद्वयं
जलजलोचनया
जनन्या
लक्ष्म्याखिलस्य
सुरवन्दितया
विधातुः
।
ऊर्वोर्निधाय
करपल्लवरोचिषा
यत्
संलालितं
हृदि
विभोरभवस्य
कुर्यात्
24
▾
Meaning
Keep
ऊरू
सुपर्णभुजयोरधिशोभमाना-
वोजोनिधी
अतसिकाकुसुमावभासौ
।
व्यालम्बि
पीतवरवाससि
वर्तमान-
काञ्चीकलापपरिरम्भिनितम्बबिम्बम्
25
▾
Meaning
Keep
नाभिह्रदं
भुवनकोशगुहोदरस्थं
यत्रात्मयोनिधिषणाखिललोकपद्मम्
।
व्यूढं
हरिन्मणिवृषस्तनयोरमुष्य
ध्यायेद्द्वयं
विशदहारमयूखगौरम्
26
▾
Meaning
Keep
वक्षोऽधिवासमृषभस्य
महाविभूतेः
पुंसां
मनोनयननिर्वृतिमादधानम्
।
कण्ठं
च
कौस्तुभमणेरधिभूषणार्थं
कुर्यान्मनस्यखिललोकनमस्कृतस्य
27
▾
Meaning
Keep
बाहूंश्च
मन्दरगिरेः
परिवर्तनेन
निर्णिक्तबाहुवलयानधिलोकपालान्
।
सञ्चिन्तयेद्दशशतारमसह्यतेजः
शङ्खं
च
तत्करसरोरुहराजहंसम्
28
▾
Meaning
Keep
कौमोदकीं
भगवतो
दयितां
स्मरेत
दिग्धामरातिभटशोणितकर्दमेन
।
मालां
मधुव्रतवरूथगिरोपघुष्टां
चैत्यस्य
तत्त्वममलं
मणिमस्य
कण्ठे
29
▾
Meaning
Keep
भृत्यानुकम्पितधियेह
गृहीतमूर्तेः
सञ्चिन्तयेद्भगवतो
वदनारविन्दम्
।
यद्विस्फुरन्मकरकुण्डलवल्गितेन
विद्योतितामलकपोलमुदारनासम्
30
▾
Meaning
Keep
यच्छ्रीनिकेतमलिभिः
परिसेव्यमानं
भूत्या
स्वया
कुटिलकुन्तलवृन्दजुष्टम्
।
मीनद्वयाश्रयमधिक्षिपदब्जनेत्रं
ध्यायेन्मनोमयमतन्द्रित
उल्लसद्भ्रु
31
▾
Meaning
Keep
तस्यावलोकमधिकं
कृपयातिघोर-
तापत्रयोपशमनाय
निसृष्टमक्ष्णोः
।
स्निग्धस्मितानुगुणितं
विपुलप्रसादं
ध्यायेच्चिरं
विपुलभावनया
गुहायाम्
32
▾
Meaning
Keep
हासं
हरेरवनताखिललोकतीव्र-
शोकाश्रुसागरविशोषणमत्युदारम्
।
सम्मोहनाय
रचितं
निजमाययास्य
भ्रूमण्डलं
मुनिकृते
मकरध्वजस्य
33
▾
Meaning
Keep
ध्यानायनं
प्रहसितं
बहुलाधरोष्ठभासारुणायिततनुद्विजकुन्दपङ्क्ति
।
ध्यायेत्स्वदेहकुहरेऽवसितस्य
विष्णोर्भक्त्याऽऽर्द्रयार्पितमना
न
पृथग्दिदृक्षेत्
34
▾
Meaning
Keep
एवं
हरौ
भगवति
प्रतिलब्धभावो
भक्त्या
द्रवद्धृदय
उत्पुलकः
प्रमोदात्
।
औत्कण्ठ्यबाष्पकलया
मुहुरर्द्यमान-
स्तच्चापि
चित्तबडिशं
शनकैर्वियुङ्क्ते
35
▾
Meaning
Keep
मुक्ताश्रयं
यर्हि
निर्विषयं
विरक्तं
निर्वाणमृच्छति
मनः
सहसा
यथार्चिः
।
आत्मानमत्र
पुरुषोऽव्यवधानमेक-
मन्वीक्षते
प्रतिनिवृत्तगुणप्रवाहः
36
▾
Meaning
Keep
सोऽप्येतया
चरमया
मनसो
निवृत्त्या
तस्मिन्महिम्न्यवसितः
सुखदुःखबाह्ये
।
हेतुत्वमप्यसति
कर्तरि
दुःखयोर्यत्
स्वात्मन्
विधत्त
उपलब्धपरात्मकाष्ठः
37
▾
Meaning
Keep
देहं
च
तं
न
चरमः
स्थितमुत्थितं
वा
सिद्धो
विपश्यति
यतोऽध्यगमत्स्वरूपम्
।
दैवादुपेतमथ
दैववशादपेतं
वासो
यथा
परिकृतं
मदिरामदान्धः
38
▾
Meaning
Keep
देहोऽपि
दैववशगः
खलु
कर्म
यावत्
स्वारम्भकं
प्रतिसमीक्षत
एव
सासुः
।
तं
स
प्रपञ्चमधिरूढसमाधियोगः
स्वाप्नं
पुनर्न
भजते
प्रतिबुद्धवस्तुः
39
▾
Meaning
Keep
यथा
पुत्राच्च
वित्ताच्च
पृथङ्मर्त्यः
प्रतीयते
।
अप्यात्मत्वेनाभिमताद्देहादेः
पुरुषस्तथा
40
▾
Meaning
Keep
यथोल्मुकाद्विस्फुलिङ्गाद्धूमाद्वापि
स्वसम्भवात्
।
अप्यात्मत्वेनाभिमताद्यथाग्निः
पृथगुल्मुकात्
41
▾
Meaning
Keep
भूतेन्द्रियान्तःकरणात्प्रधानाज्जीवसंज्ञितात्
।
आत्मा
तथा
पृथग्
द्रष्टा
भगवान्
ब्रह्मसंज्ञितः
42
▾
Meaning
Keep
सर्वभूतेषु
चात्मानं
सर्वभूतानि
चात्मनि
।
ईक्षेतानन्यभावेन
भूतेष्विव
तदात्मताम्
43
▾
Meaning
Keep
स्वयोनिषु
यथा
ज्योतिरेकं
नाना
प्रतीयते
।
योनीनां
गुणवैषम्यात्तथाऽऽत्मा
प्रकृतौ
स्थितः
44
▾
Meaning
Keep
तस्मादिमां
स्वां
प्रकृतिं
दैवीं
सदसदात्मिकाम्
।
दुर्विभाव्यां
पराभाव्य
स्वरूपेणावतिष्ठते
Previous
←
Release by Discerning Nature from the Person
Next
The Roads of Devotion
→