Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Roads of Devotion
Śrīmad Bhāgavatam
›
Canto 3
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
लक्षणं
महदादीनां
प्रकृतेः
पुरुषस्य
च
।
स्वरूपं
लक्ष्यतेऽमीषां
येन
तत्पारमार्थिकम्
2
▾
Meaning
Keep
यथा
सांख्येषु
कथितं
यन्मूलं
तत्प्रचक्षते
।
भक्तियोगस्य
मे
मार्गं
ब्रूहि
विस्तरशः
प्रभो
3
▾
Meaning
Keep
विरागो
येन
पुरुषो
भगवन्
सर्वतो
भवेत्
।
आचक्ष्व
जीवलोकस्य
विविधा
मम
संसृतीः
4
▾
Meaning
Keep
कालस्येश्वररूपस्य
परेषां
च
परस्य
ते
।
स्वरूपं
बत
कुर्वन्ति
यद्धेतोः
कुशलं
जनाः
5
▾
Meaning
Keep
लोकस्य
मिथ्याभिमतेरचक्षुष-
श्चिरं
प्रसुप्तस्य
तमस्यनाश्रये
।
श्रान्तस्य
कर्मस्वनुविद्धया
धिया
त्वमाविरासीः
किल
योगभास्करः
6
▾
Meaning
Keep
इति
मातुर्वचः
श्लक्ष्णं
प्रतिनन्द्य
महामुनिः
।
आबभाषे
कुरुश्रेष्ठ
प्रीतस्तां
करुणार्दितः
7
▾
Meaning
Keep
श्रीभगवानुवाच ।
भक्तियोगो बहुविधो मार्गैर्भामिनि भाव्यते ।
स्वभावगुणमार्गेण पुंसां भावो विभिद्यते
8
▾
Meaning
Keep
अभिसन्धाय
यो
हिंसां
दम्भं
मात्सर्यमेव
वा
।
संरम्भी
भिन्नदृग्भावं
मयि
कुर्यात्स
तामसः
9
▾
Meaning
Keep
विषयानभिसन्धाय
यश
ऐश्वर्यमेव
वा
।
अर्चादावर्चयेद्यो
मां
पृथग्भावः
स
राजसः
10
▾
Meaning
Keep
कर्मनिर्हारमुद्दिश्य
परस्मिन्
वा
तदर्पणम्
।
यजेद्यष्टव्यमिति
वा
पृथग्भावः
स
सात्त्विकः
11
▾
Meaning
Keep
मद्गुणश्रुतिमात्रेण
मयि
सर्वगुहाशये
।
मनोगतिरविच्छिन्ना
यथा
गङ्गाम्भसोऽम्बुधौ
12
▾
Meaning
Keep
लक्षणं
भक्तियोगस्य
निर्गुणस्य
ह्युदाहृतम्
।
अहैतुक्यव्यवहिता
या
भक्तिः
पुरुषोत्तमे
13
▾
Meaning
Keep
सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत
।
दीयमानं
न
गृह्णन्ति
विना
मत्सेवनं
जनाः
14
▾
Meaning
Keep
स
एव
भक्तियोगाख्य
आत्यन्तिक
उदाहृतः
।
येनातिव्रज्य
त्रिगुणं
मद्भावायोपपद्यते
15
▾
Meaning
Keep
निषेवितेनानिमित्तेन
स्वधर्मेण
महीयसा
।
क्रियायोगेन
शस्तेन
नातिहिंस्रेण
नित्यशः
16
▾
Meaning
Keep
मद्धिष्ण्यदर्शनस्पर्शपूजास्तुत्यभिवन्दनैः
।
भूतेषु
मद्भावनया
सत्त्वेनासङ्गमेन
च
17
▾
Meaning
Keep
महतां
बहुमानेन
दीनानामनुकम्पया
।
मैत्र्या
चैवात्मतुल्येषु
यमेन
नियमेन
च
18
▾
Meaning
Keep
आध्यात्मिकानुश्रवणान्नामसङ्कीर्तनाच्च
मे
।
आर्जवेनार्यसङ्गेन
निरहङ्क्रियया
तथा
19
▾
Meaning
Keep
मद्धर्मणो
गुणैरेतैः
परिसंशुद्ध
आशयः
।
पुरुषस्याञ्जसाभ्येति
श्रुतमात्रगुणं
हि
माम्
20
▾
Meaning
Keep
यथा
वातरथो
घ्राणमावृङ्क्ते
गन्ध
आशयात्
।
एवं
योगरतं
चेत
आत्मानमविकारि
यत्
21
▾
Meaning
Keep
अहं
सर्वेषु
भूतेषु
भूतात्मावस्थितः
सदा
।
तमवज्ञाय
मां
मर्त्यः
कुरुतेऽर्चाविडम्बनम्
22
▾
Meaning
Keep
यो
मां
सर्वेषु
भूतेषु
सन्तमात्मानमीश्वरम्
।
हित्वार्चां
भजते
मौढ्याद्भस्मन्येव
जुहोति
सः
23
▾
Meaning
Keep
द्विषतः
परकाये
मां
मानिनो
भिन्नदर्शिनः
।
भूतेषु
बद्धवैरस्य
न
मनःशान्तिमृच्छति
24
▾
Meaning
Keep
अहमुच्चावचैर्द्रव्यैः
क्रिययोत्पन्नयानघे
।
नैव
तुष्येऽर्चितोऽर्चायां
भूतग्रामावमानिनः
25
▾
Meaning
Keep
अर्चादावर्चयेत्तावदीश्वरं
मां
स्वकर्मकृत्
।
यावन्न
वेद
स्वहृदि
सर्वभूतेष्ववस्थितम्
26
▾
Meaning
Keep
आत्मनश्च
परस्यापि
यः
करोत्यन्तरोदरम्
।
तस्य
भिन्नदृशो
मृत्युर्विदधे
भयमुल्बणम्
27
▾
Meaning
Keep
अथ
मां
सर्वभूतेषु
भूतात्मानं
कृतालयम्
।
अर्हयेद्दानमानाभ्यां
मैत्र्याभिन्नेन
चक्षुषा
28
▾
Meaning
Keep
जीवाः
श्रेष्ठा
ह्यजीवानां
ततः
प्राणभृतः
शुभे
।
ततः
सचित्ताः
प्रवरास्ततश्चेन्द्रियवृत्तयः
29
▾
Meaning
Keep
तत्रापि
स्पर्शवेदिभ्यः
प्रवरा
रसवेदिनः
।
तेभ्यो
गन्धविदः
श्रेष्ठास्ततः
शब्दविदो
वराः
30
▾
Meaning
Keep
रूपभेदविदस्तत्र
ततश्चोभयतो
दतः
।
तेषां
बहुपदाः
श्रेष्ठाश्चतुष्पादस्ततो
द्विपात्
31
▾
Meaning
Keep
ततो
वर्णाश्च
चत्वारस्तेषां
ब्राह्मण
उत्तमः
।
ब्राह्मणेष्वपि
वेदज्ञो
ह्यर्थज्ञोऽभ्यधिकस्ततः
32
▾
Meaning
Keep
अर्थज्ञात्संशयच्छेत्ता
ततः
श्रेयान्
स्वकर्मकृत्
।
मुक्तसङ्गस्ततो
भूयानदोग्धा
धर्ममात्मनः
33
▾
Meaning
Keep
तस्मान्मय्यर्पिताशेषक्रियार्थात्मा
निरन्तरः
।
मय्यर्पितात्मनः
पुंसो
मयि
संन्यस्तकर्मणः
।
न
पश्यामि
परं
भूतमकर्तुः
समदर्शनात्
34
▾
Meaning
Keep
मनसैतानि
भूतानि
प्रणमेद्बहुमानयन्
।
ईश्वरो
जीवकलया
प्रविष्टो
भगवानिति
35
▾
Meaning
Keep
भक्तियोगश्च
योगश्च
मया
मानव्युदीरितः
।
ययोरेकतरेणैव
पुरुषः
पुरुषं
व्रजेत्
36
▾
Meaning
Keep
एतद्भगवतो
रूपं
ब्रह्मणः
परमात्मनः
।
परं
प्रधानं
पुरुषं
दैवं
कर्मविचेष्टितम्
37
▾
Meaning
Keep
रूपभेदास्पदं
दिव्यं
काल
इत्यभिधीयते
।
भूतानां
महदादीनां
यतो
भिन्नदृशां
भयम्
38
▾
Meaning
Keep
योऽन्तःप्रविश्य
भूतानि
भूतैरत्त्यखिलाश्रयः
।
स
विष्ण्वाख्योऽधियज्ञोऽसौ
कालः
कलयतां
प्रभुः
39
▾
Meaning
Keep
न
चास्य
कश्चिद्दयितो
न
द्वेष्यो
न
च
बान्धवः
।
आविशत्यप्रमत्तोऽसौ
प्रमत्तं
जनमन्तकृत्
40
▾
Meaning
Keep
यद्भयाद्वाति
वातोऽयं
सूर्यस्तपति
यद्भयात्
।
यद्भयाद्वर्षते
देवो
भगणो
भाति
यद्भयात्
41
▾
Meaning
Keep
यद्वनस्पतयो
भीता
लताश्चौषधिभिः
सह
।
स्वे
स्वे
कालेऽभिगृह्णन्ति
पुष्पाणि
च
फलानि
च
42
▾
Meaning
Keep
स्रवन्ति
सरितो
भीता
नोत्सर्पत्युदधिर्यतः
।
अग्निरिन्धे
सगिरिभिर्भूर्न
मज्जति
यद्भयात्
43
▾
Meaning
Keep
नभो
ददाति
श्वसतां
पदं
यन्नियमाददः
।
लोकं
स्वदेहं
तनुते
महान्सप्तभिरावृतम्
44
▾
Meaning
Keep
गुणाभिमानिनो
देवाः
सर्गादिष्वस्य
यद्भयात्
।
वर्तन्तेऽनुयुगं
येषां
वश
एतच्चराचरम्
45
▾
Meaning
Keep
सोऽनन्तोऽन्तकरः
कालोऽनादिरादिकृदव्ययः
।
जनं
जनेन
जनयन्
मारयन्
मृत्युनान्तकम्
Previous
←
The Yoga That Has a Seed
Next
The Man Bound to His House
→