Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Devahuti's Praise and Her Release
Śrīmad Bhāgavatam
›
Canto 3
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
एवं
निशम्य
कपिलस्य
वचो
जनित्री
सा
कर्दमस्य
दयिता
किल
देवहूतिः
।
विस्रस्तमोहपटला
तमभिप्रणम्य
तुष्टाव
तत्त्वविषयाङ्कितसिद्धिभूमिम्
2
▾
Meaning
Keep
अथाप्यजोऽन्तःसलिले
शयानं
भूतेन्द्रियार्थात्ममयं
वपुस्ते
।
गुणप्रवाहं
सदशेषबीजं
दध्यौ
स्वयं
यज्जठराब्जजातः
3
▾
Meaning
Keep
स
एव
विश्वस्य
भवान्
विधत्ते
गुणप्रवाहेण
विभक्तवीर्यः
।
सर्गाद्यनीहोऽवितथाभिसन्धि-
रात्मेश्वरोऽतर्क्यसहस्रशक्तिः
4
▾
Meaning
Keep
स
त्वं
भृतो
मे
जठरेण
नाथ
कथं
नु
यस्योदर
एतदासीत्
।
विश्वं
युगान्ते
वटपत्र
एकः
शेते
स्म
मायाशिशुरङ्घ्रिपानः
5
▾
Meaning
Keep
त्वं
देहतन्त्रः
प्रशमाय
पाप्मनां
निदेशभाजां
च
विभो
विभूतये
।
यथावतारास्तव
सूकरादय-
स्तथायमप्यात्मपथोपलब्धये
6
▾
Meaning
Keep
यन्नामधेयश्रवणानुकीर्तना-
द्यत्प्रह्वणाद्यत्स्मरणादपि
क्वचित्
।
श्वादोऽपि
सद्यः
सवनाय
कल्पते
कुतः
पुनस्ते
भगवन्
नु
दर्शनात्
7
▾
Meaning
Keep
अहो
बत
श्वपचोऽतो
गरीयान्
यज्जिह्वाग्रे
वर्तते
नाम
तुभ्यम्
।
तेपुस्तपस्ते
जुहुवुः
सस्नुरार्या
ब्रह्मानूचुर्नाम
गृणन्ति
ये
ते
8
▾
Meaning
Keep
तं
त्वामहं
ब्रह्म
परं
पुमांसं
प्रत्यक्स्रोतस्यात्मनि
संविभाव्यम्
।
स्वतेजसा
ध्वस्तगुणप्रवाहं
वन्दे
विष्णुं
कपिलं
वेदगर्भम्
9
▾
Meaning
Keep
ईडितो
भगवानेवं
कपिलाख्यः
परः
पुमान्
।
वाचा
विक्लवयेत्याह
मातरं
मातृवत्सलः
10
▾
Meaning
Keep
मार्गेणानेन
मातस्ते
सुसेव्येनोदितेन
मे
।
आस्थितेन
परां
काष्ठामचिरादवरोत्स्यसि
11
▾
Meaning
Keep
श्रद्धत्स्वैतन्मतं
मह्यं
जुष्टं
यद्ब्रह्मवादिभिः
।
येन
मामभवं
याया
मृत्युमृच्छन्त्यतद्विदः
12
▾
Meaning
Keep
इति
प्रदर्श्य
भगवान्
सतीं
तामात्मनो
गतिम्
।
स्वमात्रा
ब्रह्मवादिन्या
कपिलोऽनुमतो
ययौ
13
▾
Meaning
Keep
सा
चापि
तनयोक्तेन
योगादेशेन
योगयुक्
।
तस्मिन्नाश्रम
आपीडे
सरस्वत्याः
समाहिता
14
▾
Meaning
Keep
अभीक्ष्णावगाहकपिशान्
जटिलान्
कुटिलालकान्
।
आत्मानं
चोग्रतपसा
बिभ्रती
चीरिणं
कृशम्
15
▾
Meaning
Keep
प्रजापतेः
कर्दमस्य
तपोयोगविजृम्भितम्
।
स्वगार्हस्थ्यमनौपम्यं
प्रार्थ्यं
वैमानिकैरपि
16
▾
Meaning
Keep
पयःफेननिभाः
शय्या
दान्ता
रुक्मपरिच्छदाः
।
आसनानि
च
हैमानि
सुस्पर्शास्तरणानि
च
17
▾
Meaning
Keep
स्वच्छस्फटिककुड्येषु
महामारकतेषु
च
।
रत्नप्रदीपा
आभान्ति
ललनारत्नसंयुताः
18
▾
Meaning
Keep
गृहोद्यानं
कुसुमितै
रम्यं
बह्वमरद्रुमैः
।
कूजद्विहङ्गमिथुनं
गायन्
मत्तमधुव्रतम्
19
▾
Meaning
Keep
यत्र
प्रविष्टमात्मानं
विबुधानुचरा
जगुः
।
वाप्यामुत्पलगन्धिन्यां
कर्दमेनोपलालितम्
20
▾
Meaning
Keep
हित्वा
तदीप्सिततममप्याखण्डलयोषिताम्
।
किञ्चिच्चकार
वदनं
पुत्रविश्लेषणातुरा
21
▾
Meaning
Keep
वनं
प्रव्रजिते
पत्यावपत्यविरहातुरा
।
ज्ञाततत्त्वाप्यभून्नष्टे
वत्से
गौरिव
वत्सला
22
▾
Meaning
Keep
तमेव
ध्यायती
देवमपत्यं
कपिलं
हरिम्
।
बभूवाचिरतो
वत्स
निःस्पृहा
तादृशे
गृहे
23
▾
Meaning
Keep
ध्यायती
भगवद्रूपं
यदाह
ध्यानगोचरम्
।
सुतः
प्रसन्नवदनं
समस्तव्यस्तचिन्तया
24
▾
Meaning
Keep
भक्तिप्रवाहयोगेन
वैराग्येण
बलीयसा
।
युक्तानुष्ठानजातेन
ज्ञानेन
ब्रह्महेतुना
25
▾
Meaning
Keep
विशुद्धेन
तदाऽऽत्मानमात्मना
विश्वतोमुखम्
।
स्वानुभूत्या
तिरोभूतमायागुणविशेषणम्
26
▾
Meaning
Keep
ब्रह्मण्यवस्थितमतिर्भगवत्यात्मसंश्रये
।
निवृत्तजीवापत्तित्वात्क्षीणक्लेशाऽऽप्तनिर्वृतिः
27
▾
Meaning
Keep
नित्यारूढसमाधित्वात्परावृत्तगुणभ्रमा
।
न
सस्मार
तदाऽऽत्मानं
स्वप्ने
दृष्टमिवोत्थितः
28
▾
Meaning
Keep
तद्देहः
परतः
पोषोऽप्यकृशश्चाध्यसम्भवात्
।
बभौ
मलैरवच्छन्नः
सधूम
इव
पावकः
29
▾
Meaning
Keep
स्वाङ्गं
तपोयोगमयं
मुक्तकेशं
गताम्बरम्
।
दैवगुप्तं
न
बुबुधे
वासुदेवप्रविष्टधीः
30
▾
Meaning
Keep
एवं
सा
कपिलोक्तेन
मार्गेणाचिरतः
परम्
।
आत्मानं
ब्रह्मनिर्वाणं
भगवन्तमवाप
ह
31
▾
Meaning
Keep
तद्वीरासीत्पुण्यतमं
क्षेत्रं
त्रैलोक्यविश्रुतम्
।
नाम्ना
सिद्धपदं
यत्र
सा
संसिद्धिमुपेयुषी
32
▾
Meaning
Keep
तस्यास्तद्योगविधुतमार्त्यं
मर्त्यमभूत्सरित्
।
स्रोतसां
प्रवरा
सौम्य
सिद्धिदा
सिद्धसेविता
33
▾
Meaning
Keep
कपिलोऽपि
महायोगी
भगवान्
पितुराश्रमात्
।
मातरं
समनुज्ञाप्य
प्रागुदीचीं
दिशं
ययौ
34
▾
Meaning
Keep
सिद्धचारणगन्धर्वैर्मुनिभिश्चाप्सरोगणैः
।
स्तूयमानः
समुद्रेण
दत्तार्हणनिकेतनः
35
▾
Meaning
Keep
आस्ते
योगं
समास्थाय
सांख्याचार्यैरभिष्टुतः
।
त्रयाणामपि
लोकानामुपशान्त्यै
समाहितः
36
▾
Meaning
Keep
एतन्निगदितं
तात
यत्पृष्टोऽहं
तवानघ
।
कपिलस्य
च
संवादो
देवहूत्याश्च
पावनः
37
▾
Meaning
Keep
य
इदमनुशृणोति
योऽभिधत्ते
कपिलमुनेर्मतमात्मयोगगुह्यम्
।
भगवति
कृतधीः
सुपर्णकेता-
वुपलभते
भगवत्पदारविन्दम्
Previous
←
Who Comes Back and Who Does Not
Next
The Line of Manu's Daughters
→