Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Who Comes Back and Who Does Not
Śrīmad Bhāgavatam
›
Canto 3
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अथ
यो
गृहमेधीयान्
धर्मानेवावसन्
गृहे
।
काममर्थं
च
धर्मान्
स्वान्
दोग्धि
भूयः
पिपर्ति
तान्
2
▾
Meaning
Keep
स
चापि
भगवद्धर्मात्काममूढः
पराङ्मुखः
।
यजते
क्रतुभिर्देवान्
पितॄंश्च
श्रद्धयान्वितः
3
▾
Meaning
Keep
तच्छ्रद्धयाक्रान्तमतिः
पितृदेवव्रतः
पुमान्
।
गत्वा
चान्द्रमसं
लोकं
सोमपाः
पुनरेष्यति
4
▾
Meaning
Keep
यदा
चाहीन्द्रशय्यायां
शेतेऽनन्तासनो
हरिः
।
तदा
लोका
लयं
यान्ति
त
एते
गृहमेधिनाम्
5
▾
Meaning
Keep
ये
स्वधर्मान्
न
दुह्यन्ति
धीराः
कामार्थहेतवे
।
निःसङ्गा
न्यस्तकर्माणः
प्रशान्ताः
शुद्धचेतसः
6
▾
Meaning
Keep
निवृत्तिधर्मनिरता
निर्ममा
निरहङ्कृताः
।
स्वधर्माख्येन
सत्त्वेन
परिशुद्धेन
चेतसा
7
▾
Meaning
Keep
सूर्यद्वारेण
ते
यान्ति
पुरुषं
विश्वतोमुखम्
।
परावरेशं
प्रकृतिमस्योत्पत्त्यन्तभावनम्
8
▾
Meaning
Keep
द्विपरार्धावसाने
यः
प्रलयो
ब्रह्मणस्तु
ते
।
तावदध्यासते
लोकं
परस्य
परचिन्तकाः
9
▾
Meaning
Keep
क्ष्माम्भोऽनलानिलवियन्मन
इन्द्रियार्थ-
भूतादिभिः
परिवृतं
प्रतिसञ्जिहीर्षुः
।
अव्याकृतं
विशति
यर्हि
गुणत्रयात्मा
कालं
पराख्यमनुभूय
परः
स्वयम्भूः
10
▾
Meaning
Keep
एवं
परेत्य
भगवन्तमनुप्रविष्टा
ये
योगिनो
जितमरुन्मनसो
विरागाः
।
तेनैव
साकममृतं
पुरुषं
पुराणं
ब्रह्म
प्रधानमुपयान्त्यगताभिमानाः
11
▾
Meaning
Keep
अथ
तं
सर्वभूतानां
हृत्पद्मेषु
कृतालयम्
।
श्रुतानुभावं
शरणं
व्रज
भावेन
भामिनि
12
▾
Meaning
Keep
आद्यः
स्थिरचराणां
यो
वेदगर्भः
सहर्षिभिः
।
योगेश्वरैः
कुमाराद्यैः
सिद्धैर्योगप्रवर्तकैः
13
▾
Meaning
Keep
भेददृष्ट्याभिमानेन
निःसङ्गेनापि
कर्मणा
।
कर्तृत्वात्सगुणं
ब्रह्म
पुरुषं
पुरुषर्षभम्
14
▾
Meaning
Keep
स
संसृत्य
पुनः
काले
कालेनेश्वरमूर्तिना
।
जाते
गुणव्यतिकरे
यथापूर्वं
प्रजायते
15
▾
Meaning
Keep
ऐश्वर्यं
पारमेष्ठ्यं
च
तेऽपि
धर्मविनिर्मितम्
।
निषेव्य
पुनरायान्ति
गुणव्यतिकरे
सति
16
▾
Meaning
Keep
ये
त्विहासक्तमनसः
कर्मसु
श्रद्धयान्विताः
।
कुर्वन्त्यप्रतिषिद्धानि
नित्यान्यपि
च
कृत्स्नशः
17
▾
Meaning
Keep
रजसा
कुण्ठमनसः
कामात्मानोऽजितेन्द्रियाः
।
पितॄन्
यजन्त्यनुदिनं
गृहेष्वभिरताशयाः
18
▾
Meaning
Keep
त्रैवर्गिकास्ते
पुरुषा
विमुखा
हरिमेधसः
।
कथायां
कथनीयोरुविक्रमस्य
मधुद्विषः
19
▾
Meaning
Keep
नूनं
दैवेन
विहता
ये
चाच्युतकथासुधाम्
।
हित्वा
शृण्वन्त्यसद्गाथाः
पुरीषमिव
विड्भुजः
20
▾
Meaning
Keep
दक्षिणेन
पथार्यम्णः
पितृलोकं
व्रजन्ति
ते
।
प्रजामनु
प्रजायन्ते
श्मशानान्तक्रियाकृतः
21
▾
Meaning
Keep
ततस्ते
क्षीणसुकृताः
पुनर्लोकमिमं
सति
।
पतन्ति
विवशा
देवैः
सद्यो
विभ्रंशितोदयाः
22
▾
Meaning
Keep
तस्मात्त्वं
सर्वभावेन
भजस्व
परमेष्ठिनम्
।
तद्गुणाश्रयया
भक्त्या
भजनीयपदाम्बुजम्
23
▾
Meaning
Keep
वासुदेवे
भगवति
भक्तियोगः
प्रयोजितः
।
जनयत्याशु
वैराग्यं
ज्ञानं
यद्ब्रह्मदर्शनम्
24
▾
Meaning
Keep
यदास्य
चित्तमर्थेषु
समेष्विन्द्रियवृत्तिभिः
।
न
विगृह्णाति
वैषम्यं
प्रियमप्रियमित्युत
25
▾
Meaning
Keep
स
तदैवात्मनाऽऽत्मानं
निःसङ्गं
समदर्शनम्
।
हेयोपादेयरहितमारूढं
पदमीक्षते
26
▾
Meaning
Keep
ज्ञानमात्रं
परं
ब्रह्म
परमात्मेश्वरः
पुमान्
।
दृश्यादिभिः
पृथग्भावैर्भगवानेक
ईयते
27
▾
Meaning
Keep
एतावानेव
योगेन
समग्रेणेह
योगिनः
।
युज्यतेऽभिमतो
ह्यर्थो
यदसङ्गस्तु
कृत्स्नशः
28
▾
Meaning
Keep
ज्ञानमेकं
पराचीनैरिन्द्रियैर्ब्रह्म
निर्गुणम्
।
अवभात्यर्थरूपेण
भ्रान्त्या
शब्दादिधर्मिणा
29
▾
Meaning
Keep
यथा महानहं रूपस्त्रिवृत्पञ्चविधः स्वराट् ।
एकादशविधस्तस्य वपुरण्डं जगद्यतः
30
▾
Meaning
Keep
एतद्वै
श्रद्धया
भक्त्या
योगाभ्यासेन
नित्यशः
।
समाहितात्मा
निःसङ्गो
विरक्त्या
परिपश्यति
31
▾
Meaning
Keep
इत्येतत्कथितं
गुर्वि
ज्ञानं
तद्ब्रह्मदर्शनम्
।
येनानुबुद्ध्यते
तत्त्वं
प्रकृतेः
पुरुषस्य
च
32
▾
Meaning
Keep
ज्ञानयोगश्च
मन्निष्ठो
नैर्गुण्यो
भक्तिलक्षणः
।
द्वयोरप्येक
एवार्थो
भगवच्छब्दलक्षणः
33
▾
Meaning
Keep
यथेन्द्रियैः
पृथग्द्वारैरर्थो
बहुगुणाश्रयः
।
एको
नानेयते
तद्वद्भगवान्
शास्त्रवर्त्मभिः
34
▾
Meaning
Keep
क्रियया
क्रतुभिर्दानैस्तपःस्वाध्यायमर्शनैः
।
आत्मेन्द्रियजयेनापि
संन्यासेन
च
कर्मणाम्
35
▾
Meaning
Keep
योगेन
विविधाङ्गेन
भक्तियोगेन
चैव
हि
।
धर्मेणोभयचिह्नेन
यः
प्रवृत्तिनिवृत्तिमान्
36
▾
Meaning
Keep
आत्मतत्त्वावबोधेन
वैराग्येण
दृढेन
च
।
ईयते
भगवानेभिः
सगुणो
निर्गुणः
स्वदृक्
37
▾
Meaning
Keep
प्रावोचं
भक्तियोगस्य
स्वरूपं
ते
चतुर्विधम्
।
कालस्य
चाव्यक्तगतेर्योऽन्तर्धावति
जन्तुषु
38
▾
Meaning
Keep
जीवस्य
संसृतीर्बह्वीरविद्याकर्मनिर्मिताः
।
यास्वङ्ग
प्रविशन्नात्मा
न
वेद
गतिमात्मनः
39
▾
Meaning
Keep
नैतत्खलायोपदिशेन्नाविनीताय
कर्हिचित्
।
न
स्तब्धाय
न
भिन्नाय
नैव
धर्मध्वजाय
च
40
▾
Meaning
Keep
न
लोलुपायोपदिशेन्न
गृहारूढचेतसे
।
नाभक्ताय
च
मे
जातु
न
मद्भक्तद्विषामपि
41
▾
Meaning
Keep
श्रद्दधानाय
भक्ताय
विनीतायानसूयवे
।
भूतेषु
कृतमैत्राय
शुश्रूषाभिरताय
च
42
▾
Meaning
Keep
बहिर्जातविरागाय
शान्तचित्ताय
दीयताम्
।
निर्मत्सराय
शुचये
यस्याहं
प्रेयसां
प्रियः
43
▾
Meaning
Keep
य
इदं
शृणुयादम्ब
श्रद्धया
पुरुषः
सकृत्
।
यो
वाभिधत्ते
मच्चित्तः
स
ह्येति
पदवीं
च
मे
Previous
←
From the Womb Onward
Next
Devahuti's Praise and Her Release
→