Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Sati Gives Up Her Body
Śrīmad Bhāgavatam
›
Canto 4
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
एतावदुक्त्वा
विरराम
शंकरः
पत्न्यङ्गनाशं
ह्युभयत्र
चिन्तयन्
।
सुहृद्दिदृक्षुः
परिशङ्किता
भवान्निष्क्रामती
निर्विशती
द्विधाऽऽस
सा
2
▾
Meaning
Keep
सुहृद्दिदृक्षाप्रतिघातदुर्मनाः
स्नेहाद्रुदत्यश्रुकलातिविह्वला
।
भवं
भवान्यप्रतिपूरुषं
रुषा
प्रधक्ष्यतीवैक्षत
जातवेपथुः
3
▾
Meaning
Keep
ततो
विनिःश्वस्य
सती
विहाय
तं
शोकेन
रोषेण
च
दूयता
हृदा
।
पित्रोरगात्स्त्रैणविमूढधीर्गृहान्
प्रेम्णाऽऽत्मनो
योऽर्धमदात्सतां
प्रियः
4
▾
Meaning
Keep
तामन्वगच्छन्द्रुतविक्रमां
सती-
मेकां
त्रिनेत्रानुचराः
सहस्रशः
।
सपार्षदयक्षा
मणिमन्मदादयः
पुरो
वृषेन्द्रास्तरसा
गतव्यथाः
5
▾
Meaning
Keep
तां
सारिकाकन्दुकदर्पणाम्बुज-
श्वेतातपत्रव्यजनस्रगादिभिः
।
गीतायनैर्दुन्दुभिशङ्खवेणुभि-
र्वृषेन्द्रमारोप्य
विटङ्किता
ययुः
6
▾
Meaning
Keep
आब्रह्मघोषोर्जितयज्ञवैशसं
विप्रर्षिजुष्टं
विबुधैश्च
सर्वशः
।
मृद्दार्वयःकाञ्चनदर्भचर्मभि-
र्निसृष्टभाण्डं
यजनं
समाविशत्
7
▾
Meaning
Keep
तामागतां
तत्र
न
कश्चनाद्रिय-
द्विमानितां
यज्ञकृतो
भयाज्जनः
।
ऋते
स्वसॄर्वै
जननीं
च
सादराः
प्रेमाश्रुकण्ठ्यः
परिषस्वजुर्मुदा
8
▾
Meaning
Keep
सौदर्यसम्प्रश्नसमर्थवार्तया
मात्रा
च
मातृष्वसृभिश्च
सादरम्
।
दत्तां
सपर्यां
वरमासनं
च
सा
नादत्त
पित्राप्रतिनन्दिता
सती
9
▾
Meaning
Keep
अरुद्रभागं
तमवेक्ष्य
चाध्वरं
पित्रा
च
देवे
कृतहेलनं
विभौ
।
अनादृता
यज्ञसदस्यधीश्वरी
चुकोप
लोकानिव
धक्ष्यती
रुषा
10
▾
Meaning
Keep
जगर्ह
सामर्षविपन्नया
गिरा
शिवद्विषं
धूमपथश्रमस्मयम्
।
स्वतेजसा
भूतगणान्
समुत्थितान्
निगृह्य
देवी
जगतोऽभिशृण्वतः
11
▾
Meaning
Keep
देव्युवाच ।
न यस्य लोकेऽस्त्यतिशायनः प्रियस्तथाप्रियो देहभृतां प्रियात्मनः ।
तस्मिन् समस्तात्मनि मुक्तवैरके ऋते भवन्तं कतमः प्रतीपयेत्
12
▾
Meaning
Keep
दोषान्
परेषां
हि
गुणेषु
साधवो
गृह्णन्ति
केचिन्न
भवादृशो
द्विज
।
गुणांश्च
फल्गून्
बहुलीकरिष्णवो
महत्तमास्तेष्वविदद्भवानघम्
13
▾
Meaning
Keep
नाश्चर्यमेतद्यदसत्सु
सर्वदा
महद्विनिन्दा
कुणपात्मवादिषु
।
सेर्ष्यं
महापूरुषपादपांसुभिर्निरस्ततेजःसु
तदेव
शोभनम्
14
▾
Meaning
Keep
यद्
द्व्यक्षरं
नाम
गिरेरितं
नृणां
सकृत्प्रसङ्गादघमाशु
हन्ति
तत्
।
पवित्रकीर्तिं
तमलङ्घ्यशासनं
भवानहो
द्वेष्टि
शिवं
शिवेतरः
15
▾
Meaning
Keep
यत्पादपद्मं
महतां
मनोऽलिभि-
र्निषेवितं
ब्रह्मरसासवार्थिभिः
।
लोकस्य
यद्वर्षति
चाशिषोऽर्थिन-
स्तस्मै
भवान्द्रुह्यति
विश्वबन्धवे
16
▾
Meaning
Keep
किं
वा
शिवाख्यमशिवं
न
विदुस्त्वदन्ये
ब्रह्मादयस्तमवकीर्य
जटाः
श्मशाने
।
तन्माल्यभस्मनृकपाल्यवसत्पिशाचै-
र्ये
मूर्धभिर्दधति
तच्चरणावसृष्टम्
17
▾
Meaning
Keep
कर्णौ
पिधाय
निरयाद्यदकल्प
ईशे
धर्मावितर्यसृणिभिर्नृभिरस्यमाने
।
छिन्द्यात्प्रसह्य
रुशतीमसतीं
प्रभुश्चे-
ज्जिह्वामसूनपि
ततो
विसृजेत्स
धर्मः
18
▾
Meaning
Keep
अतस्तवोत्पन्नमिदं
कलेवरं
न
धारयिष्ये
शितिकण्ठगर्हिणः
।
जग्धस्य
मोहाद्धि
विशुद्धिमन्धसो
जुगुप्सितस्योद्धरणं
प्रचक्षते
19
▾
Meaning
Keep
न
वेदवादाननुवर्तते
मतिः
स्व
एव
लोके
रमतो
महामुनेः
।
यथा
गतिर्देवमनुष्ययोः
पृथक्
स्व
एव
धर्मे
न
परं
क्षिपेत्स्थितः
20
▾
Meaning
Keep
कर्मप्रवृत्तं
च
निवृत्तमप्यृतं
वेदे
विविच्योभयलिङ्गमाश्रितम्
।
विरोधि
तद्यौगपदैककर्तरि
द्वयं
तथा
ब्रह्मणि
कर्म
नर्च्छति
21
▾
Meaning
Keep
मा
वः
पदव्यः
पितरस्मदास्थिता
या
यज्ञशालासु
न
धूमवर्त्मभिः
।
तदन्नतृप्तैरसुभृद्भिरीडिता
अव्यक्तलिङ्गा
अवधूतसेविताः
22
▾
Meaning
Keep
नैतेन
देहेन
हरे
कृतागसो
देहोद्भवेनालमलं
कुजन्मना
।
व्रीडा
ममाभूत्कुजनप्रसङ्गत-
स्तज्जन्म
धिग्यो
महतामवद्यकृत्
23
▾
Meaning
Keep
गोत्रं
त्वदीयं
भगवान्
वृषध्वजो
दाक्षायणीत्याह
यदा
सुदुर्मनाः
।
व्यपेतनर्मस्मितमाशु
तदाहं
व्युत्स्रक्ष्य
एतत्कुणपं
त्वदङ्गजम्
24
▾
Meaning
Keep
इत्यध्वरे
दक्षमनूद्य
शत्रुहन्
क्षितावुदीचीं
निषसाद
शान्तवाक्
।
स्पृष्ट्वा
जलं
पीतदुकूलसंवृता
निमील्य
दृग्योगपथं
समाविशत्
25
▾
Meaning
Keep
कृत्वा
समानावनिलौ
जितासना
सोदानमुत्थाप्य
च
नाभिचक्रतः
।
शनैर्हृदि
स्थाप्य
धियोरसि
स्थितं
कण्ठाद्भ्रुवोर्मध्यमनिन्दितानयत्
26
▾
Meaning
Keep
एवं
स्वदेहं
महतां
महीयसा
मुहुः
समारोपितमङ्कमादरात्
।
जिहासती
दक्षरुषा
मनस्विनी
दधार
गात्रेष्वनिलाग्निधारणाम्
27
▾
Meaning
Keep
ततः
स्वभर्तुश्चरणाम्बुजासवं
जगद्गुरोश्चिन्तयती
न
चापरम्
।
ददर्श
देहो
हतकल्मषः
सती
सद्यः
प्रजज्वाल
समाधिजाग्निना
28
▾
Meaning
Keep
तत्पश्यतां
खे
भुवि
चाद्भुतं
महद्
हाहेति
वादः
सुमहानजायत
।
हन्त
प्रिया
दैवतमस्य
देवी
जहावसून्
केन
सती
प्रकोपिता
29
▾
Meaning
Keep
अहो
अनात्म्यं
महदस्य
पश्यत
प्रजापतेर्यस्य
चराचरं
प्रजाः
।
जहावसून्
यद्विमताऽऽत्मजा
सती
मनस्विनी
मानमभीक्ष्णमर्हति
30
▾
Meaning
Keep
सोऽयं
दुर्मर्षहृदयो
ब्रह्मध्रुक्
च
लोकेऽपकीर्तिं
महतीमवाप्स्यति
।
यदङ्गजां
स्वां
पुरुषद्विडुद्यतां
न
प्रत्यषेधन्मृतयेऽपराधतः
31
▾
Meaning
Keep
वदत्येवं
जने
सत्या
दृष्ट्वासुत्यागमद्भुतम्
।
दक्षं
तत्पार्षदा
हन्तुमुदतिष्ठन्नुदायुधाः
32
▾
Meaning
Keep
तेषामापततां
वेगं
निशाम्य
भगवान्
भृगुः
।
यज्ञघ्नघ्नेन
यजुषा
दक्षिणाग्नौ
जुहाव
ह
33
▾
Meaning
Keep
अध्वर्युणा
हूयमाने
देवा
उत्पेतुरोजसा
।
ऋभवो
नाम
तपसा
सोमं
प्राप्ताः
सहस्रशः
34
▾
Meaning
Keep
तैरलातायुधैः
सर्वे
प्रमथाः
सह
गुह्यकाः
।
हन्यमाना
दिशो
भेजुरुशद्भिर्ब्रह्मतेजसा
Previous
←
Sati Asks to Go to Her Father's Sacrifice
Next
The Sacrifice of Daksa Is Destroyed
→