Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Sacrifice of Daksa Is Destroyed
Śrīmad Bhāgavatam
›
Canto 4
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
भवो
भवान्या
निधनं
प्रजापते-
रसत्कृताया
अवगम्य
नारदात्
।
स्वपार्षदसैन्यं
च
तदध्वरर्भुभि-
र्विद्रावितं
क्रोधमपारमादधे
2
▾
Meaning
Keep
क्रुद्धः
सुदष्टौष्ठपुटः
स
धूर्जटि-
र्जटां
तडिद्वह्निसटोग्ररोचिषम्
।
उत्कृत्य
रुद्रः
सहसोत्थितो
हसन्
गम्भीरनादो
विससर्ज
तां
भुवि
3
▾
Meaning
Keep
ततोऽतिकायस्तनुवा
स्पृशन्
दिवं
सहस्रबाहुर्घनरुक्
त्रिसूर्यदृक्
।
करालदंष्ट्रो
ज्वलदग्निमूर्धजः
कपालमाली
विविधोद्यतायुधः
4
▾
Meaning
Keep
तं
किं
करोमीति
गृणन्तमाह
बद्धाञ्जलिं
भगवान्
भूतनाथः
।
दक्षं
सयज्ञं
जहि
मद्भटानां
त्वमग्रणी
रुद्रभटांशको
मे
5
▾
Meaning
Keep
आज्ञप्त
एवं
कुपितेन
मन्युना
स
देवदेवं
परिचक्रमे
विभुम्
।
मेने
तदाऽऽत्मानमसङ्गरंहसा
महीयसां
तात
सहः
सहिष्णुम्
6
▾
Meaning
Keep
अन्वीयमानः
स
तु
रुद्रपार्षदैर्भृशं
नदद्भिर्व्यनदत्सुभैरवम्
।
उद्यम्य
शूलं
जगदन्तकान्तकं
स
प्राद्रवद्
घोषणभूषणाङ्घ्रिः
7
▾
Meaning
Keep
अथर्त्विजो
यजमानः
सदस्याः
ककुभ्युदीच्यां
प्रसमीक्ष्य
रेणुम्
।
तमः
किमेतत्कुत
एतद्रजोऽभू-
दिति
द्विजा
द्विजपत्न्यश्च
दध्युः
8
▾
Meaning
Keep
वाता
न
वान्ति
न
हि
सन्ति
दस्यवः
प्राचीनबर्हिर्जीवति
होग्रदण्डः
।
गावो
न
काल्यन्त
इदं
कुतो
रजो
लोकोऽधुना
किं
प्रलयाय
कल्पते
9
▾
Meaning
Keep
प्रसूतिमिश्राः
स्त्रिय
उद्विग्नचित्ता
ऊचुर्विपाको
वृजिनस्यैव
तस्य
।
यत्पश्यन्तीनां
दुहितॄणां
प्रजेशः
सुतां
सतीमवदध्यावनागाम्
10
▾
Meaning
Keep
यस्त्वन्तकाले
व्युप्तजटाकलापः
स्वशूलसूच्यर्पितदिग्गजेन्द्रः
।
वितत्य
नृत्यत्युदितास्त्रदोर्ध्वजा-
नुच्चाट्टहासस्तनयित्नुभिन्नदिक्
11
▾
Meaning
Keep
अमर्षयित्वा
तमसह्यतेजसं
मन्युप्लुतं
दुर्विषहं
भ्रुकुट्या
।
करालदंष्ट्राभिरुदस्तभागणं
स्यात्स्वस्ति
किं
कोपयतो
विधातुः
12
▾
Meaning
Keep
बह्वेवमुद्विग्नदृशोच्यमाने
जनेन
दक्षस्य
मुहुर्महात्मनः
।
उत्पेतुरुत्पाततमाः
सहस्रशो
भयावहा
दिवि
भूमौ
च
पर्यक्
13
▾
Meaning
Keep
तावत्स
रुद्रानुचरैर्मखो
महान्नानायुधैर्वामनकैरुदायुधैः
।
पिङ्गैः
पिशङ्गैर्मकरोदराननैः
पर्याद्रवद्भिर्विदुरान्वरुध्यत
14
▾
Meaning
Keep
केचिद्बभञ्जुः
प्राग्वंशं
पत्नीशालां
तथापरे
।
सद
आग्नीध्रशालां
च
तद्विहारं
महानसम्
15
▾
Meaning
Keep
रुरुजुर्यज्ञपात्राणि
तथैकेऽग्नीननाशयन्
।
कुण्डेष्वमूत्रयन्
केचिद्बिभिदुर्वेदिमेखलाः
16
▾
Meaning
Keep
अबाधन्त
मुनीनन्ये
एके
पत्नीरतर्जयन्
।
अपरे
जगृहुर्देवान्
प्रत्यासन्नान्
पलायितान्
17
▾
Meaning
Keep
भृगुं
बबन्ध
मणिमान्
वीरभद्रः
प्रजापतिम्
।
चण्डीशः
पूषणं
देवं
भगं
नन्दीश्वरोऽग्रहीत्
18
▾
Meaning
Keep
सर्व
एवर्त्विजो
दृष्ट्वा
सदस्याः
सदिवौकसः
।
तैरर्द्यमानाः
सुभृशं
ग्रावभिर्नैकधाद्रवन्
19
▾
Meaning
Keep
जुह्वतः
स्रुवहस्तस्य
श्मश्रूणि
भगवान्
भवः
।
भृगोर्लुलुञ्चे
सदसि
योऽहसच्छ्मश्रु
दर्शयन्
20
▾
Meaning
Keep
भगस्य
नेत्रे
भगवान्
पातितस्य
रुषा
भुवि
।
उज्जहार
सदःस्थोऽक्ष्णा
यः
शपन्तमसूसुचत्
21
▾
Meaning
Keep
पूष्णश्चापातयद्दन्तान्
कालिङ्गस्य
यथा
बलः
।
शप्यमाने
गरिमणि
योऽहसद्दर्शयन्दतः
22
▾
Meaning
Keep
आक्रम्योरसि
दक्षस्य
शितधारेण
हेतिना
।
छिन्दन्नपि
तदुद्धर्तुं
नाशक्नोत्त्र्यम्बकस्तदा
23
▾
Meaning
Keep
शस्त्रैरस्त्रान्वितैरेवमनिर्भिन्नत्वचं
हरः
।
विस्मयं
परमापन्नो
दध्यौ
पशुपतिश्चिरम्
24
▾
Meaning
Keep
दृष्ट्वा
संज्ञपनं
योगं
पशूनां
स
पतिर्मखे
।
यजमानपशोः
कस्य
कायात्तेनाहरच्छिरः
25
▾
Meaning
Keep
साधुवादस्तदा
तेषां
कर्म
तत्तस्य
शंसताम्
।
भूतप्रेतपिशाचानामन्येषां
तद्विपर्ययः
26
▾
Meaning
Keep
जुहावैतच्छिरस्तस्मिन्
दक्षिणाग्नावमर्षितः
।
तद्देवयजनं
दग्ध्वा
प्रातिष्ठद्गुह्यकालयम्
Previous
←
Sati Gives Up Her Body
Next
Brahma Goes to Kailasa
→