Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Dhruva Comes Home
Śrīmad Bhāgavatam
›
Canto 4
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
त
एवमुत्सन्नभया
उरुक्रमे
कृतावनामाः
प्रययुस्त्रिविष्टपम्
।
सहस्रशीर्षापि
ततो
गरुत्मता
मधोर्वनं
भृत्यदिदृक्षया
गतः
2
▾
Meaning
Keep
स
वै
धिया
योगविपाकतीव्रया
हृत्पद्मकोशे
स्फुरितं
तडित्प्रभम्
।
तिरोहितं
सहसैवोपलक्ष्य
बहिःस्थितं
तदवस्थं
ददर्श
3
▾
Meaning
Keep
तद्दर्शनेनागतसाध्वसः
क्षिताववन्दताङ्गं
विनमय्य
दण्डवत्
।
दृग्भ्यां
प्रपश्यन्
प्रपिबन्निवार्भकश्चुम्बन्निवास्येन
भुजैरिवाश्लिषन्
4
▾
Meaning
Keep
स
तं
विवक्षन्तमतद्विदं
हरिर्ज्ञात्वास्य
सर्वस्य
च
हृद्यवस्थितः
।
कृताञ्जलिं
ब्रह्ममयेन
कम्बुना
पस्पर्श
बालं
कृपया
कपोले
5
▾
Meaning
Keep
स
वै
तदैव
प्रतिपादितां
गिरं
दैवीं
परिज्ञातपरात्मनिर्णयः
।
तं
भक्तिभावोऽभ्यगृणादसत्वरं
परिश्रुतोरुश्रवसं
ध्रुवक्षितिः
6
▾
Meaning
Keep
योऽन्तः
प्रविश्य
मम
वाचमिमां
प्रसुप्तां
संजीवयत्यखिलशक्तिधरः
स्वधाम्ना
।
अन्यांश्च
हस्तचरणश्रवणत्वगादीन्
प्राणान्नमो
भगवते
पुरुषाय
तुभ्यम्
7
▾
Meaning
Keep
एकस्त्वमेव
भगवन्निदमात्मशक्त्या
मायाख्ययोरुगुणया
महदाद्यशेषम्
।
सृष्ट्वानुविश्य
पुरुषस्तदसद्गुणेषु
नानेव
दारुषु
विभावसुवद्विभासि
8
▾
Meaning
Keep
त्वद्दत्तया
वयुनयेदमचष्ट
विश्वं
सुप्तप्रबुद्ध
इव
नाथ
भवत्प्रपन्नः
।
तस्यापवर्ग्यशरणं
तव
पादमूलं
विस्मर्यते
कृतविदा
कथमार्तबन्धो
9
▾
Meaning
Keep
नूनं
विमुष्टमतयस्तव
मायया
ते
ये
त्वां
भवाप्ययविमोक्षणमन्यहेतोः
।
अर्चन्ति
कल्पकतरुं
कुणपोपभोग्य-
मिच्छन्ति
यत्स्पर्शजं
निरयेऽपि
नॄणाम्
10
▾
Meaning
Keep
या
निर्वृतिस्तनुभृतां
तव
पादपद्म-
ध्यानाद्भवज्जनकथाश्रवणेन
वा
स्यात्
।
सा
ब्रह्मणि
स्वमहिमन्यपि
नाथ
मा
भूत्
किं
त्वन्तकासिलुलितात्पततां
विमानात्
11
▾
Meaning
Keep
भक्तिं
मुहुः
प्रवहतां
त्वयि
मे
प्रसङ्गो
भूयादनन्त
महताममलाशयानाम्
।
येनाञ्जसोल्बणमुरुव्यसनं
भवाब्धिं
नेष्ये
भवद्गुणकथामृतपानमत्तः
12
▾
Meaning
Keep
ते
न
स्मरन्त्यतितरां
प्रियमीश
मर्त्यं
ये
चान्वदः
सुतसुहृद्गृहवित्तदाराः
।
ये
त्वब्जनाभ
भवदीयपदारविन्द-
सौगन्ध्यलुब्धहृदयेषु
कृतप्रसङ्गाः
13
▾
Meaning
Keep
तिर्यङ्नगद्विजसरीसृपदेवदैत्य-
मर्त्यादिभिः
परिचितं
सदसद्विशेषम्
।
रूपं
स्थविष्ठमज
ते
महदाद्यनेकं
नातः
परं
परम
वेद्मि
न
यत्र
वादः
14
▾
Meaning
Keep
कल्पान्त
एतदखिलं
जठरेण
गृह्णन्
शेते
पुमान्
स्वदृगनन्तसखस्तदङ्के
।
यन्नाभिसिन्धुरुहकाञ्चनलोकपद्म-
गर्भे
द्युमान्
भगवते
प्रणतोऽस्मि
तस्मै
15
▾
Meaning
Keep
त्वं
नित्यमुक्तपरिशुद्धविबुद्ध
आत्मा
कूटस्थ
आदिपुरुषो
भगवांस्त्र्यधीशः
।
यद्बुद्ध्यवस्थितिमखण्डितया
स्वदृष्ट्या
द्रष्टा
स्थितावधिमखो
व्यतिरिक्त
आस्से
16
▾
Meaning
Keep
यस्मिन्
विरुद्धगतयो
ह्यनिशं
पतन्ति
विद्यादयो
विविधशक्तय
आनुपूर्व्यात्
।
तद्ब्रह्मविश्वभवमेकमनन्तमाद्य-
मानन्दमात्रमविकारमहं
प्रपद्ये
17
▾
Meaning
Keep
सत्याऽऽशिषो
हि
भगवंस्तव
पादपद्ममाशीस्तथानुभजतः
पुरुषार्थमूर्तेः
।
अप्येवमर्य
भगवान्
परिपाति
दीनान्
वाश्रेव
वत्सकमनुग्रहकातरोऽस्मान्
18
▾
Meaning
Keep
अथाभिष्टुत
एवं
वै
सत्सङ्कल्पेन
धीमता
।
भृत्यानुरक्तो
भगवान्
प्रतिनन्द्येदमब्रवीत्
19
▾
Meaning
Keep
श्रीभगवानुवाच ।
वेदाहं ते व्यवसितं हृदि राजन्यबालक ।
तत्प्रयच्छामि भद्रं ते दुरापमपि सुव्रत
20
▾
Meaning
Keep
नान्यैरधिष्ठितं
भद्र
यद्भ्राजिष्णु
ध्रुवक्षिति
।
यत्र
ग्रहर्क्षताराणां
ज्योतिषां
चक्रमाहितम्
21
▾
Meaning
Keep
मेढ्यां
गोचक्रवत्स्थास्नु
परस्तात्कल्पवासिनाम्
।
धर्मोऽग्निः
कश्यपः
शुक्रो
मुनयो
ये
वनौकसः
।
चरन्ति
दक्षिणीकृत्य
भ्रमन्तो
यत्सतारकाः
22
▾
Meaning
Keep
प्रस्थिते
तु
वनं
पित्रा
दत्त्वा
गां
धर्मसंश्रयः
।
षट्त्रिंशद्वर्षसाहस्रं
रक्षिताव्याहतेन्द्रियः
23
▾
Meaning
Keep
त्वद्भ्रातर्युत्तमे
नष्टे
मृगयायां
तु
तन्मनाः
।
अन्वेषन्ती
वनं
माता
दावाग्निं
सा
प्रवेक्ष्यति
24
▾
Meaning
Keep
इष्ट्वा
मां
यज्ञहृदयं
यज्ञैः
पुष्कलदक्षिणैः
।
भुक्त्वा
चेहाशिषः
सत्या
अन्ते
मां
संस्मरिष्यसि
25
▾
Meaning
Keep
ततो
गन्तासि
मत्स्थानं
सर्वलोकनमस्कृतम्
।
उपरिष्टादृषिभ्यस्त्वं
यतो
नावर्तते
गतः
26
▾
Meaning
Keep
इत्यर्चितः
स
भगवानतिदिश्यात्मनः
पदम्
।
बालस्य
पश्यतो
धाम
स्वमगाद्गरुडध्वजः
27
▾
Meaning
Keep
सोऽपि
सङ्कल्पजं
विष्णोः
पादसेवोपसादितम्
।
प्राप्य
सङ्कल्पनिर्वाणं
नातिप्रीतोऽभ्यगात्
पुरम्
28
▾
Meaning
Keep
सुदुर्लभं
यत्परमं
पदं
हरे-
र्मायाविनस्तच्चरणार्चनार्जितम्
।
लब्ध्वाप्यसिद्धार्थमिवैकजन्मना
कथं
स्वमात्मानममन्यतार्थवित्
29
▾
Meaning
Keep
मातुः
सपत्न्या
वाग्बाणैर्हृदि
विद्धस्तु
तान्
स्मरन्
।
नैच्छन्मुक्तिपतेर्मुक्तिं
तस्मात्तापमुपेयिवान्
30
▾
Meaning
Keep
समाधिना
नैकभवेन
यत्पदं
विदुः
सनन्दादय
ऊर्ध्वरेतसः
।
मासैरहं
षड्भिरमुष्य
पादयो-
श्छायामुपेत्यापगतः
पृथङ्मतिः
31
▾
Meaning
Keep
अहो
बत
ममानात्म्यं
मन्दभाग्यस्य
पश्यत
।
भवच्छिदः
पादमूलं
गत्वा
याचे
यदन्तवत्
32
▾
Meaning
Keep
मतिर्विदूषिता
देवैः
पतद्भिरसहिष्णुभिः
।
यो
नारदवचस्तथ्यं
नाग्राहिषमसत्तमः
33
▾
Meaning
Keep
दैवीं
मायामुपाश्रित्य
प्रसुप्त
इव
भिन्नदृक्
।
तप्ये
द्वितीयेऽप्यसति
भ्रातृभ्रातृव्यहृद्रुजा
34
▾
Meaning
Keep
मयैतत्प्रार्थितं
व्यर्थं
चिकित्सेव
गतायुषि
।
प्रसाद्य
जगदात्मानं
तपसा
दुष्प्रसादनम्
।
भवच्छिदमयाचेऽहं
भवं
भाग्यविवर्जितः
35
▾
Meaning
Keep
स्वाराज्यं
यच्छतो
मौढ्यान्मानो
मे
भिक्षितो
बत
।
ईश्वरात्क्षीणपुण्येन
फलीकारानिवाधनः
36
▾
Meaning
Keep
न
वै
मुकुन्दस्य
पदारविन्दयोरजोजुषस्तात
भवादृशा
जनाः
।
वाञ्छन्ति
तद्दास्यमृतेऽर्थमात्मनो
यदृच्छया
लब्धमनःसमृद्धयः
37
▾
Meaning
Keep
आकर्ण्यात्मजमायान्तं
सम्परेत्य
यथाऽऽगतम्
।
राजा
न
श्रद्दधे
भद्रमभद्रस्य
कुतो
मम
38
▾
Meaning
Keep
श्रद्धाय
वाक्यं
देवर्षेर्हर्षवेगेन
धर्षितः
।
वार्ताहर्तुरतिप्रीतो
हारं
प्रादान्महाधनम्
39
▾
Meaning
Keep
सदश्वं
रथमारुह्य
कार्तस्वरपरिष्कृतम्
।
ब्राह्मणैः
कुलवृद्धैश्च
पर्यस्तोऽमात्यबन्धुभिः
40
▾
Meaning
Keep
शङ्खदुन्दुभिनादेन
ब्रह्मघोषेण
वेणुभिः
।
निश्चक्राम
पुरात्तूर्णमात्मजाभीक्षणोत्सुकः
41
▾
Meaning
Keep
सुनीतिः
सुरुचिश्चास्य
महिष्यौ
रुक्मभूषिते
।
आरुह्य
शिबिकां
सार्धमुत्तमेनाभिजग्मतुः
42
▾
Meaning
Keep
तं
दृष्ट्वोपवनाभ्याश
आयान्तं
तरसा
रथात्
।
अवरुह्य
नृपस्तूर्णमासाद्य
प्रेमविह्वलः
43
▾
Meaning
Keep
परिरेभेऽङ्गजं
दोर्भ्यां
दीर्घोत्कण्ठमनाः
श्वसन्
।
विष्वक्सेनाङ्घ्रिसंस्पर्शहताशेषाघबन्धनम्
44
▾
Meaning
Keep
अथाजिघ्रन्मुहुर्मूर्ध्नि
शीतैर्नयनवारिभिः
।
स्नापयामास
तनयं
जातोद्दाममनोरथः
45
▾
Meaning
Keep
अभिवन्द्य
पितुः
पादावाशीर्भिश्चाभिमन्त्रितः
।
ननाम
मातरौ
शीर्ष्णा
सत्कृतः
सज्जनाग्रणीः
46
▾
Meaning
Keep
सुरुचिस्तं
समुत्थाप्य
पादावनतमर्भकम्
।
परिष्वज्याह
जीवेति
बाष्पगद्गदया
गिरा
47
▾
Meaning
Keep
यस्य
प्रसन्नो
भगवान्
गुणैर्मैत्र्यादिभिर्हरिः
।
तस्मै
नमन्ति
भूतानि
निम्नमाप
इव
स्वयम्
48
▾
Meaning
Keep
उत्तमश्च
ध्रुवश्चोभावन्योन्यं
प्रेमविह्वलौ
।
अङ्गसङ्गादुत्पुलकावस्रौघं
मुहुरूहतुः
49
▾
Meaning
Keep
सुनीतिरस्य
जननी
प्राणेभ्योऽपि
प्रियं
सुतम्
।
उपगुह्य
जहावाधिं
तदङ्गस्पर्शनिर्वृता
50
▾
Meaning
Keep
पयः
स्तनाभ्यां
सुस्राव
नेत्रजैः
सलिलैः
शिवैः
।
तदाभिषिच्यमानाभ्यां
वीर
वीरसुवो
मुहुः
51
▾
Meaning
Keep
तां
शशंसुर्जना
राज्ञीं
दिष्ट्या
ते
पुत्र
आर्तिहा
।
प्रतिलब्धश्चिरं
नष्टो
रक्षिता
मण्डलं
भुवः
52
▾
Meaning
Keep
अभ्यर्चितस्त्वया
नूनं
भगवान्
प्रणतार्तिहा
।
यदनुध्यायिनो
धीरा
मृत्युं
जिग्युः
सुदुर्जयम्
53
▾
Meaning
Keep
लाल्यमानं
जनैरेवं
ध्रुवं
सभ्रातरं
नृपः
।
आरोप्य
करिणीं
हृष्टः
स्तूयमानोऽविशत्पुरम्
54
▾
Meaning
Keep
तत्र
तत्रोपसंकॢप्तैर्लसन्मकरतोरणैः
।
सवृन्दैः
कदलीस्तम्भैः
पूगपोतैश्च
तद्विधैः
55
▾
Meaning
Keep
चूतपल्लववासःस्रङ्
मुक्तादामविलम्बिभिः
।
उपस्कृतं
प्रतिद्वारमपां
कुम्भैः
सदीपकैः
56
▾
Meaning
Keep
प्राकारैर्गोपुरागारैः
शातकुम्भपरिच्छदैः
।
सर्वतोऽलंकृतं
श्रीमद्विमानशिखरद्युभिः
57
▾
Meaning
Keep
मृष्टचत्वररथ्याट्टमार्गं
चन्दनचर्चितम्
।
लाजाक्षतैः
पुष्पफलैस्तण्डुलैर्बलिभिर्युतम्
58
▾
Meaning
Keep
ध्रुवाय
पथि
दृष्टाय
तत्र
तत्र
पुरस्त्रियः
सिद्धार्थाक्षतदध्यम्बुदूर्वापुष्पफलानि
च
59
▾
Meaning
Keep
उपजह्रुः
प्रयुञ्जाना
वात्सल्यादाशिषः
सतीः
।
शृण्वंस्तद्वल्गुगीतानि
प्राविशद्भवनं
पितुः
60
▾
Meaning
Keep
महामणिव्रातमये
स
तस्मिन्
भवनोत्तमे
।
लालितो
नितरां
पित्रा
न्यवसद्दिवि
देववत्
61
▾
Meaning
Keep
पयःफेननिभाः
शय्या
दान्ता
रुक्मपरिच्छदाः
।
आसनानि
महार्हाणि
यत्र
रौक्मा
उपस्कराः
62
▾
Meaning
Keep
यत्र
स्फटिककुड्येषु
महामारकतेषु
च
।
मणिप्रदीपा
आभान्ति
ललनारत्नसंयुताः
63
▾
Meaning
Keep
उद्यानानि
च
रम्याणि
विचित्रैरमरद्रुमैः
।
कूजद्विहङ्गमिथुनैर्गायन्
मत्तमधुव्रतैः
64
▾
Meaning
Keep
वाप्यो
वैदूर्यसोपानाः
पद्मोत्पलकुमुद्वतीः
।
हंसकारण्डवकुलैर्जुष्टाश्चक्राह्वसारसैः
65
▾
Meaning
Keep
उत्तानपादो
राजर्षिः
प्रभावं
तनयस्य
तम्
।
श्रुत्वा
दृष्ट्वाद्भुततमं
प्रपेदे
विस्मयं
परम्
66
▾
Meaning
Keep
वीक्ष्योढवयसं
तं
च
प्रकृतीनां
च
सम्मतम्
।
अनुरक्तप्रजं
राजा
ध्रुवं
चक्रे
भुवः
पतिम्
67
▾
Meaning
Keep
आत्मानं
च
प्रवयसमाकलय्य
विशाम्पतिः
।
वनं
विरक्तः
प्रातिष्ठद्विमृशन्नात्मनो
गतिम्
Previous
←
Dhruva Leaves for the Forest
Next
Dhruva Fights the Yaksas
→