Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Dhruva Fights the Yaksas
Śrīmad Bhāgavatam
›
Canto 4
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
प्रजापतेर्दुहितरं
शिशुमारस्य
वै
ध्रुवः
।
उपयेमे
भ्रमिं
नाम
तत्सुतौ
कल्पवत्सरौ
2
▾
Meaning
Keep
इलायामपि
भार्यायां
वायोः
पुत्र्यां
महाबलः
।
पुत्रमुत्कलनामानं
योषिद्रत्नमजीजनत्
3
▾
Meaning
Keep
उत्तमस्त्वकृतोद्वाहो
मृगयायां
बलीयसा
।
हतः
पुण्यजनेनाद्रौ
तन्मातास्य
गतिं
गता
4
▾
Meaning
Keep
ध्रुवो
भ्रातृवधं
श्रुत्वा
कोपामर्षशुचार्पितः
।
जैत्रं
स्यन्दनमास्थाय
गतः
पुण्यजनालयम्
5
▾
Meaning
Keep
गत्वोदीचीं
दिशं
राजा
रुद्रानुचरसेविताम्
।
ददर्श
हिमवद्द्रोण्यां
पुरीं
गुह्यकसंकुलाम्
6
▾
Meaning
Keep
दध्मौ
शङ्खं
बृहद्बाहुः
खं
दिशश्चानुनादयन्
।
येनोद्विग्नदृशः
क्षत्तरुपदेव्योऽत्रसन्
भृशम्
7
▾
Meaning
Keep
ततो
निष्क्रम्य
बलिन
उपदेवमहाभटाः
।
असहन्तस्तन्निनादमभिपेतुरुदायुधाः
8
▾
Meaning
Keep
स
तानापततो
वीर
उग्रधन्वा
महारथः
।
एकैकं
युगपत्सर्वानहन्
बाणैस्त्रिभिस्त्रिभिः
9
▾
Meaning
Keep
ते
वै
ललाटलग्नैस्तैरिषुभिः
सर्व
एव
हि
।
मत्वा
निरस्तमात्मानमाशंसन्
कर्म
तस्य
तत्
10
▾
Meaning
Keep
तेऽपि
चामुममृष्यन्तः
पादस्पर्शमिवोरगाः
।
शरैरविध्यन्
युगपद्द्विगुणं
प्रचिकीर्षवः
11
▾
Meaning
Keep
ततः
परिघनिस्त्रिंशैः
प्रासशूलपरश्वधैः
।
शक्त्यृष्टिभिर्भुशुण्डीभिश्चित्रवाजैः
शरैरपि
12
▾
Meaning
Keep
अभ्यवर्षन्
प्रकुपिताः
सरथं
सहसारथिम्
।
इच्छन्तस्तत्प्रतीकर्तुमयुतानां
त्रयोदश
13
▾
Meaning
Keep
औत्तानपादिः
स
तदा
शस्त्रवर्षेण
भूरिणा
।
न
उपादृश्यताच्छन्न
आसारेण
यथा
गिरिः
14
▾
Meaning
Keep
हाहाकारस्तदैवासीत्सिद्धानां
दिवि
पश्यताम्
।
हतोऽयं
मानवः
सूर्यो
मग्नः
पुण्यजनार्णवे
15
▾
Meaning
Keep
नदत्सु
यातुधानेषु
जयकाशिष्वथो
मृधे
।
उदतिष्ठद्रथस्तस्य
नीहारादिव
भास्करः
16
▾
Meaning
Keep
धनुर्विस्फूर्जयन्
दिव्यं
द्विषतां
खेदमुद्वहन्
।
अस्त्रौघं
व्यधमद्बाणैर्घनानीकमिवानिलः
17
▾
Meaning
Keep
तस्य
ते
चापनिर्मुक्ता
भित्त्वा
वर्माणि
रक्षसाम्
।
कायानाविविशुस्तिग्मा
गिरीनशनयो
यथा
18
▾
Meaning
Keep
भल्लैः
संछिद्यमानानां
शिरोभिश्चारुकुण्डलैः
।
ऊरुभिर्हेमतालाभैर्दोर्भिर्वलयवल्गुभिः
19
▾
Meaning
Keep
हारकेयूरमुकुटैरुष्णीषैश्च
महाधनैः
।
आस्तृतास्ता
रणभुवो
रेजुर्वीर
मनोहराः
20
▾
Meaning
Keep
हतावशिष्टा
इतरे
रणाजिराद्
रक्षोगणाः
क्षत्रियवर्यसायकैः
।
प्रायो
विवृक्णावयवा
विदुद्रुवु-
र्मृगेन्द्रविक्रीडितयूथपा
इव
21
▾
Meaning
Keep
अपश्यमानः
स
तदाऽऽततायिनं
महामृधे
कञ्चन
मानवोत्तमः
।
पुरीं
दिदृक्षन्नपि
नाविशद्
द्विषां
न
मायिनां
वेद
चिकीर्षितं
जनः
22
▾
Meaning
Keep
इति
ब्रुवंश्चित्ररथः
स्वसारथिं
यत्तः
परेषां
प्रतियोगशङ्कितः
।
शुश्राव
शब्दं
जलधेरिवेरितं
नभस्वतो
दिक्षु
रजोऽन्वदृश्यत
23
▾
Meaning
Keep
क्षणेनाच्छादितं
व्योम
घनानीकेन
सर्वतः
।
विस्फुरत्तडिता
दिक्षु
त्रासयत्स्तनयित्नुना
24
▾
Meaning
Keep
ववृषू
रुधिरौघासृक्पूयविण्मूत्रमेदसः
।
निपेतुर्गगनादस्य
कबन्धान्यग्रतोऽनघ
25
▾
Meaning
Keep
ततः
खेऽदृश्यत
गिरिर्निपेतुः
सर्वतोदिशम्
।
गदापरिघनिस्त्रिंशमुसलाः
साश्मवर्षिणः
26
▾
Meaning
Keep
अहयोऽशनिनिःश्वासा
वमन्तोऽग्निं
रुषाक्षिभिः
।
अभ्यधावन्
गजा
मत्ताः
सिंहव्याघ्राश्च
यूथशः
27
▾
Meaning
Keep
समुद्र
ऊर्मिभिर्भीमः
प्लावयन्
सर्वतोभुवम्
।
आससाद
महाह्रादः
कल्पान्त
इव
भीषणः
28
▾
Meaning
Keep
एवं
विधान्यनेकानि
त्रासनान्यमनस्विनाम्
।
ससृजुस्तिग्मगतय
आसुर्या
माययासुराः
29
▾
Meaning
Keep
ध्रुवे
प्रयुक्तामसुरैस्तां
मायामतिदुस्तराम्
।
निशम्य
तस्य
मुनयः
शमाशंसन्
समागताः
30
▾
Meaning
Keep
मुनय ऊचुः
औत्तानपाद भगवांस्तव शार्ङ्गधन्वा देवः क्षिणोत्ववनतार्तिहरो विपक्षान् ।
यन्नामधेयमभिधाय निशम्य चाद्धा लोकोऽञ्जसा तरति दुस्तरमङ्ग मृत्युम्
Previous
←
Dhruva Comes Home
Next
Manu Stops the Killing
→