Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Vena Struck Down
Śrīmad Bhāgavatam
›
Canto 4
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
भृग्वादयस्ते
मुनयो
लोकानां
क्षेमदर्शिनः
।
गोप्तर्यसति
वै
नॄणां
पश्यन्तः
पशुसाम्यताम्
2
▾
Meaning
Keep
वीरमातरमाहूय
सुनीथां
ब्रह्मवादिनः
।
प्रकृत्यसम्मतं
वेनमभ्यषिञ्चन्
पतिं
भुवः
3
▾
Meaning
Keep
श्रुत्वा
नृपासनगतं
वेनमत्युग्रशासनम्
।
निलिल्युर्दस्यवः
सद्यः
सर्पत्रस्ता
इवाखवः
4
▾
Meaning
Keep
स
आरूढनृपस्थान
उन्नद्धोऽष्टविभूतिभिः
।
अवमेने
महाभागान्
स्तब्धः
सम्भावितः
स्वतः
5
▾
Meaning
Keep
एवं
मदान्ध
उत्सिक्तो
निरङ्कुश
इव
द्विपः
।
पर्यटन्
रथमास्थाय
कम्पयन्निव
रोदसी
6
▾
Meaning
Keep
न
यष्टव्यं
न
दातव्यं
न
होतव्यं
द्विजाः
क्वचित्
।
इति
न्यवारयद्धर्मं
भेरीघोषेण
सर्वशः
7
▾
Meaning
Keep
वेनस्यावेक्ष्य
मुनयो
दुर्वृत्तस्य
विचेष्टितम्
।
विमृश्य
लोकव्यसनं
कृपयोचुः
स्म
सत्रिणः
8
▾
Meaning
Keep
अहो
उभयतः
प्राप्तं
लोकस्य
व्यसनं
महत्
।
दारुण्युभयतो
दीप्ते
इव
तस्करपालयोः
9
▾
Meaning
Keep
अराजकभयादेष
कृतो
राजातदर्हणः
।
ततोऽप्यासीद्भयं
त्वद्य
कथं
स्यात्स्वस्ति
देहिनाम्
10
▾
Meaning
Keep
अहेरिव
पयः
पोषः
पोषकस्याप्यनर्थभृत्
।
वेनः
प्रकृत्यैव
खलः
सुनीथागर्भसम्भवः
11
▾
Meaning
Keep
निरूपितः
प्रजापालः
स
जिघांसति
वै
प्रजाः
।
तथापि
सान्त्वयेमामुं
नास्मांस्तत्पातकं
स्पृशेत्
12
▾
Meaning
Keep
तद्विद्वद्भिरसद्वृत्तो
वेनोऽस्माभिः
कृतो
नृपः
।
सान्त्वितो
यदि
नो
वाचं
न
ग्रहीष्यत्यधर्मकृत्
13
▾
Meaning
Keep
लोकधिक्कारसंदग्धं
दहिष्यामः
स्वतेजसा
।
एवमध्यवसायैनं
मुनयो
गूढमन्यवः
।
उपव्रज्याब्रुवन्
वेनं
सान्त्वयित्वा
च
सामभिः
14
▾
Meaning
Keep
नृपवर्य
निबोधैतद्यत्ते
विज्ञापयाम
भोः
।
आयुःश्रीबलकीर्तीनां
तव
तात
विवर्धनम्
15
▾
Meaning
Keep
धर्म
आचरितः
पुंसां
वाङ्मनःकायबुद्धिभिः
।
लोकान्
विशोकान्
वितरत्यथानन्त्यमसङ्गिनाम्
16
▾
Meaning
Keep
स
ते
मा
विनशेद्वीर
प्रजानां
क्षेमलक्षणः
।
यस्मिन्
विनष्टे
नृपतिरैश्वर्यादवरोहति
17
▾
Meaning
Keep
राजन्नसाध्वमात्येभ्यश्चोरादिभ्यः
प्रजा
नृपः
।
रक्षन्
यथा
बलिं
गृह्णन्निह
प्रेत्य
च
मोदते
18
▾
Meaning
Keep
यस्य
राष्ट्रे
पुरे
चैव
भगवान्
यज्ञपूरुषः
।
इज्यते
स्वेन
धर्मेण
जनैर्वर्णाश्रमान्वितैः
19
▾
Meaning
Keep
तस्य
राज्ञो
महाभाग
भगवान्
भूतभावनः
।
परितुष्यति
विश्वात्मा
तिष्ठतो
निजशासने
20
▾
Meaning
Keep
तस्मिंस्तुष्टे
किमप्राप्यं
जगतामीश्वरेश्वरे
।
लोकाः
सपाला
ह्येतस्मै
हरन्ति
बलिमादृताः
21
▾
Meaning
Keep
तं
सर्वलोकामरयज्ञसंग्रहं
त्रयीमयं
द्रव्यमयं
तपोमयम्
।
यज्ञैर्विचित्रैर्यजतो
भवाय
ते
राजन्
स्वदेशाननुरोद्धुमर्हसि
22
▾
Meaning
Keep
यज्ञेन
युष्मद्विषये
द्विजातिभि-
र्वितायमानेन
सुराः
कला
हरेः
।
स्विष्टाः
सुतुष्टाः
प्रदिशन्ति
वाञ्छितं
तद्धेलनं
नार्हसि
वीर
चेष्टितुम्
23
▾
Meaning
Keep
बालिशा
बत
यूयं
वा
अधर्मे
धर्ममानिनः
।
ये
वृत्तिदं
पतिं
हित्वा
जारं
पतिमुपासते
24
▾
Meaning
Keep
अवजानन्त्यमी
मूढा
नृपरूपिणमीश्वरम्
।
नानुविन्दन्ति
ते
भद्रमिह
लोके
परत्र
च
25
▾
Meaning
Keep
को
यज्ञपुरुषो
नाम
यत्र
वो
भक्तिरीदृशी
।
भर्तृस्नेहविदूराणां
यथा
जारे
कुयोषिताम्
26
▾
Meaning
Keep
विष्णुर्विरिञ्चो
गिरिश
इन्द्रो
वायुर्यमो
रविः
।
पर्जन्यो
धनदः
सोमः
क्षितिरग्निरपाम्पतिः
27
▾
Meaning
Keep
एते
चान्ये
च
विबुधाः
प्रभवो
वरशापयोः
।
देहे
भवन्ति
नृपतेः
सर्वदेवमयो
नृपः
28
▾
Meaning
Keep
तस्मान्मां
कर्मभिर्विप्रा
यजध्वं
गतमत्सराः
।
बलिं
च
मह्यं
हरत
मत्तोऽन्यः
कोऽग्रभुक्
पुमान्
29
▾
Meaning
Keep
इत्थं
विपर्ययमतिः
पापीयानुत्पथं
गतः
।
अनुनीयमानस्तद्याच्ञां
न
चक्रे
भ्रष्टमङ्गलः
30
▾
Meaning
Keep
इति
तेऽसत्कृतास्तेन
द्विजाः
पण्डितमानिना
।
भग्नायां
भव्ययाच्ञायां
तस्मै
विदुर
चुक्रुधुः
31
▾
Meaning
Keep
हन्यतां
हन्यतामेष
पापः
प्रकृतिदारुणः
।
जीवञ्जगदसावाशु
कुरुते
भस्मसाद्
ध्रुवम्
32
▾
Meaning
Keep
नायमर्हत्यसद्वृत्तो
नरदेववरासनम्
।
योऽधियज्ञपतिं
विष्णुं
विनिन्दत्यनपत्रपः
33
▾
Meaning
Keep
को
वैनं
परिचक्षीत
वेनमेकमृतेऽशुभम्
।
प्राप्त
ईदृशमैश्वर्यं
यदनुग्रहभाजनः
34
▾
Meaning
Keep
इत्थं
व्यवसिता
हन्तुमृषयो
रूढमन्यवः
।
निजघ्नुर्हुङ्कृतैर्वेनं
हतमच्युतनिन्दया
35
▾
Meaning
Keep
ऋषिभिः
स्वाश्रमपदं
गते
पुत्रकलेवरम्
।
सुनीथा
पालयामास
विद्यायोगेन
शोचती
36
▾
Meaning
Keep
एकदा
मुनयस्ते
तु
सरस्वत्सलिलाप्लुताः
।
हुत्वाग्नीन्
सत्कथाश्चक्रुरुपविष्टाः
सरित्तटे
37
▾
Meaning
Keep
वीक्ष्योत्थितांस्तदोत्पातानाहुर्लोकभयङ्करान्
।
अप्यभद्रमनाथाया
दस्युभ्यो
न
भवेद्भुवः
38
▾
Meaning
Keep
एवं
मृशन्त
ऋषयो
धावतां
सर्वतोदिशम्
।
पांसुः
समुत्थितो
भूरिश्चोराणामभिलुम्पताम्
39
▾
Meaning
Keep
तदुपद्रवमाज्ञाय
लोकस्य
वसु
लुम्पताम्
।
भर्तर्युपरते
तस्मिन्नन्योन्यं
च
जिघांसताम्
40
▾
Meaning
Keep
चोरप्रायं
जनपदं
हीनसत्त्वमराजकम्
।
लोकान्
नावारयञ्छक्ता
अपि
तद्दोषदर्शिनः
41
▾
Meaning
Keep
ब्राह्मणः
समदृक्
शान्तो
दीनानां
समुपेक्षकः
।
स्रवते
ब्रह्म
तस्यापि
भिन्नभाण्डात्पयो
यथा
42
▾
Meaning
Keep
नाङ्गस्य
वंशो
राजर्षेरेष
संस्थातुमर्हति
।
अमोघवीर्या
हि
नृपा
वंशेऽस्मिन्
केशवाश्रयाः
43
▾
Meaning
Keep
विनिश्चित्यैवमृषयो
विपन्नस्य
महीपतेः
।
ममन्थुरूरुं
तरसा
तत्रासीद्बाहुको
नरः
44
▾
Meaning
Keep
काककृष्णोऽतिह्रस्वाङ्गो
ह्रस्वबाहुर्महाहनुः
।
ह्रस्वपान्निम्ननासाग्रो
रक्ताक्षस्ताम्रमूर्धजः
45
▾
Meaning
Keep
तं
तु
तेऽवनतं
दीनं
किं
करोमीति
वादिनम्
।
निषीदेत्यब्रुवंस्तात
स
निषादस्ततोऽभवत्
46
▾
Meaning
Keep
तस्य
वंश्यास्तु
नैषादा
गिरिकाननगोचराः
।
येनाहरज्जायमानो
वेनकल्मषमुल्बणम्
Previous
←
The King Who Walked Out at Midnight
Next
The Birth and Anointing of Prthu
→