Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The King Who Walked Out at Midnight
Śrīmad Bhāgavatam
›
Canto 4
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
निशम्य
कौषारविणोपवर्णितं
ध्रुवस्य
वैकुण्ठपदाधिरोहणम्
।
प्ररूढभावो
भगवत्यधोक्षजे
प्रष्टुं
पुनस्तं
विदुरः
प्रचक्रमे
2
▾
Meaning
Keep
के
ते
प्रचेतसो
नाम
कस्यापत्यानि
सुव्रत
।
कस्यान्ववाये
प्रख्याताः
कुत्र
वा
सत्रमासत
3
▾
Meaning
Keep
मन्ये
महाभागवतं
नारदं
देवदर्शनम्
।
येन
प्रोक्तः
क्रियायोगः
परिचर्याविधिर्हरेः
4
▾
Meaning
Keep
स्वधर्मशीलैः
पुरुषैर्भगवान्
यज्ञपूरुषः
।
इज्यमानो
भक्तिमता
नारदेनेरितः
किल
5
▾
Meaning
Keep
यास्ता
देवर्षिणा
तत्र
वर्णिता
भगवत्कथाः
।
मह्यं
शुश्रूषवे
ब्रह्मन्
कार्त्स्न्येनाचष्टुमर्हसि
6
▾
Meaning
Keep
ध्रुवस्य
चोत्कलः
पुत्रः
पितरि
प्रस्थिते
वनम्
।
सार्वभौमश्रियं
नैच्छदधिराजासनं
पितुः
7
▾
Meaning
Keep
स
जन्मनोपशान्तात्मा
निःसङ्गः
समदर्शनः
।
ददर्श
लोके
विततमात्मानं
लोकमात्मनि
8
▾
Meaning
Keep
आत्मानं
ब्रह्म
निर्वाणं
प्रत्यस्तमितविग्रहम्
।
अवबोधरसैकात्म्यमानन्दमनुसंततम्
9
▾
Meaning
Keep
अव्यवच्छिन्नयोगाग्निदग्धकर्ममलाशयः
।
स्वरूपमवरुन्धानो
नात्मनोऽन्यं
तदैक्षत
10
▾
Meaning
Keep
जडान्धबधिरोन्मत्तमूकाकृतिरतन्मतिः
।
लक्षितः
पथि
बालानां
प्रशान्तार्चिरिवानलः
11
▾
Meaning
Keep
मत्वा
तं
जडमुन्मत्तं
कुलवृद्धाः
समन्त्रिणः
।
वत्सरं
भूपतिं
चक्रुर्यवीयांसं
भ्रमेः
सुतम्
12
▾
Meaning
Keep
स्वर्वीथिर्वत्सरस्येष्टा
भार्यासूत
षडात्मजान्
।
पुष्पार्णं
तिग्मकेतुं
च
इषमूर्जं
वसुं
जयम्
13
▾
Meaning
Keep
पुष्पार्णस्य
प्रभा
भार्या
दोषा
च
द्वे
बभूवतुः
।
प्रातर्मध्यन्दिनं
सायमिति
ह्यासन्
प्रभासुताः
14
▾
Meaning
Keep
प्रदोषो
निशिथो
व्युष्ट
इति
दोषा
सुतास्त्रयः
।
व्युष्टः
सुतं
पुष्करिण्यां
सर्वतेजसमादधे
15
▾
Meaning
Keep
स
चक्षुः
सुतमाकूत्यां
पत्न्यां
मनुमवाप
ह
।
मनोरसूत
महिषी
विरजान्
नड्वला
सुतान्
16
▾
Meaning
Keep
पुरुं
कुत्सं
त्रितं
द्युम्नं
सत्यवन्तमृतं
व्रतम्
।
अग्निष्टोममतीरात्रं
प्रद्युम्नं
शिबिमुल्मुकम्
17
▾
Meaning
Keep
उल्मुकोऽजनयत्पुत्रान्
पुष्करिण्यां
षडुत्तमान्
।
अङ्गं
सुमनसं
ख्यातिं
क्रतुमङ्गिरसं
गयम्
18
▾
Meaning
Keep
सुनीथाङ्गस्य
या
पत्नी
सुषुवे
वेनमुल्बणम्
।
यद्दौःशील्यात्स
राजर्षिर्निर्विण्णो
निरगात्पुरात्
19
▾
Meaning
Keep
यमङ्ग
शेपुः
कुपिता
वाग्वज्रा
मुनयः
किल
।
गतासोस्तस्य
भूयस्ते
ममन्थुर्दक्षिणं
करम्
20
▾
Meaning
Keep
अराजके
तदा
लोके
दस्युभिः
पीडिताः
प्रजाः
।
जातो
नारायणांशेन
पृथुराद्यः
क्षितीश्वरः
21
▾
Meaning
Keep
तस्य
शीलनिधेः
साधोर्ब्रह्मण्यस्य
महात्मनः
।
राज्ञः
कथमभूद्दुष्टा
प्रजा
यद्विमना
ययौ
22
▾
Meaning
Keep
किं
वांहो
वेन
उद्दिश्य
ब्रह्मदण्डमयूयुजन्
।
दण्डव्रतधरे
राज्ञि
मुनयो
धर्मकोविदाः
23
▾
Meaning
Keep
नावध्येयः
प्रजापालः
प्रजाभिरघवानपि
।
यदसौ
लोकपालानां
बिभर्त्योजः
स्वतेजसा
24
▾
Meaning
Keep
एतदाख्याहि
मे
ब्रह्मन्
सुनीथात्मजचेष्टितम्
।
श्रद्दधानाय
भक्ताय
त्वं
परावरवित्तमः
25
▾
Meaning
Keep
अङ्गोऽश्वमेधं
राजर्षिराजहार
महाक्रतुम्
।
नाजग्मुर्देवतास्तस्मिन्नाहूता
ब्रह्मवादिभिः
26
▾
Meaning
Keep
तमूचुर्विस्मितास्तत्र
यजमानमथर्त्विजः
।
हवींषि
हूयमानानि
न
ते
गृह्णन्ति
देवताः
27
▾
Meaning
Keep
राजन्
हवींष्यदुष्टानि
श्रद्धयाऽऽसादितानि
ते
।
छन्दांस्ययातयामानि
योजितानि
धृतव्रतैः
28
▾
Meaning
Keep
न
विदामेह
देवानां
हेलनं
वयमण्वपि
।
यन्न
गृह्णन्ति
भागान्
स्वान्
ये
देवाः
कर्मसाक्षिणः
29
▾
Meaning
Keep
अङ्गो
द्विजवचः
श्रुत्वा
यजमानः
सुदुर्मनाः
।
तत्प्रष्टुं
व्यसृजद्वाचं
सदस्यांस्तदनुज्ञया
30
▾
Meaning
Keep
नागच्छन्त्याहुता
देवा
न
गृह्णन्ति
ग्रहानिह
।
सदसस्पतयो
ब्रूत
किमवद्यं
मया
कृतम्
31
▾
Meaning
Keep
नरदेवेह
भवतो
नाघं
तावन्मनाक्स्थितम्
।
अस्त्येकं
प्राक्तनमघं
यदिहेदृक्त्वमप्रजः
32
▾
Meaning
Keep
तथा
साधय
भद्रं
ते
आत्मानं
सुप्रजं
नृप
।
इष्टस्ते
पुत्रकामस्य
पुत्रं
दास्यति
यज्ञभुक्
33
▾
Meaning
Keep
तथा
स्वभागधेयानि
ग्रहीष्यन्ति
दिवौकसः
।
यद्यज्ञपुरुषः
साक्षादपत्याय
हरिर्वृतः
34
▾
Meaning
Keep
तांस्तान्
कामान्
हरिर्दद्याद्यान्
यान्
कामयते
जनः
।
आराधितो
यथैवैष
तथा
पुंसां
फलोदयः
35
▾
Meaning
Keep
इति
व्यवसिता
विप्रास्तस्य
राज्ञः
प्रजातये
।
पुरोडाशं
निरवपन्
शिपिविष्टाय
विष्णवे
36
▾
Meaning
Keep
तस्मात्पुरुष
उत्तस्थौ
हेममाल्यमलाम्बरः
।
हिरण्मयेन
पात्रेण
सिद्धमादाय
पायसम्
37
▾
Meaning
Keep
स
विप्रानुमतो
राजा
गृहीत्वाञ्जलिनौदनम्
।
अवघ्राय
मुदा
युक्तः
प्रादात्पत्न्या
उदारधीः
38
▾
Meaning
Keep
सा
तत्पुंसवनं
राज्ञी
प्राश्य
वै
पत्युरादधे
।
गर्भं
काल
उपावृत्ते
कुमारं
सुषुवेऽप्रजा
39
▾
Meaning
Keep
स
बाल
एव
पुरुषो
मातामहमनुव्रतः
।
अधर्मांशोद्भवं
मृत्युं
तेनाभवदधार्मिकः
40
▾
Meaning
Keep
स
शरासनमुद्यम्य
मृगयुर्वनगोचरः
।
हन्त्यसाधुर्मृगान्
दीनान्
वेनोऽसावित्यरौज्जनः
41
▾
Meaning
Keep
आक्रीडे
क्रीडतो
बालान्
वयस्यानतिदारुणः
।
प्रसह्य
निरनुक्रोशः
पशुमारममारयत्
42
▾
Meaning
Keep
तं
विचक्ष्य
खलं
पुत्रं
शासनैर्विविधैर्नृपः
।
यदा
न
शासितुं
कल्पो
भृशमासीत्सुदुर्मनाः
43
▾
Meaning
Keep
प्रायेणाभ्यर्चितो
देवो
येऽप्रजा
गृहमेधिनः
।
कदपत्यभृतं
दुःखं
ये
न
विन्दन्ति
दुर्भरम्
44
▾
Meaning
Keep
यतः
पापीयसी
कीर्तिरधर्मश्च
महान्
नृणाम्
।
यतो
विरोधः
सर्वेषां
यत
आधिरनन्तकः
45
▾
Meaning
Keep
कस्तं
प्रजापदेशं
वै
मोहबन्धनमात्मनः
।
पण्डितो
बहु
मन्येत
यदर्थाः
क्लेशदा
गृहाः
46
▾
Meaning
Keep
कदपत्यं
वरं
मन्ये
सदपत्याच्छुचां
पदात्
।
निर्विद्येत
गृहान्मर्त्यो
यत्क्लेशनिवहा
गृहाः
47
▾
Meaning
Keep
एवं
स
निर्विण्णमना
नृपो
गृहान्
निशीथ
उत्थाय
महोदयोदयात्
।
अलब्धनिद्रोऽनुपलक्षितो
नृभि-
र्हित्वा
गतो
वेनसुवं
प्रसुप्ताम्
48
▾
Meaning
Keep
विज्ञाय
निर्विद्य
गतं
पतिं
प्रजाः
पुरोहितामात्यसुहृद्गणादयः
।
विचिक्युरुर्व्यामतिशोककातरा
यथा
निगूढं
पुरुषं
कुयोगिनः
49
▾
Meaning
Keep
अलक्षयन्तः
पदवीं
प्रजापतेर्हतोद्यमाः
प्रत्युपसृत्य
ते
पुरीम्
।
ऋषीन्
समेतानभिवन्द्य
साश्रवो
न्यवेदयन्
पौरव
भर्तृविप्लवम्
Previous
←
Dhruva Goes Up
Next
Vena Struck Down
→