Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Birth and Anointing of Prthu
Śrīmad Bhāgavatam
›
Canto 4
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अथ
तस्य
पुनर्विप्रैरपुत्रस्य
महीपतेः
।
बाहुभ्यां
मथ्यमानाभ्यां
मिथुनं
समपद्यत
2
▾
Meaning
Keep
तद्दृष्ट्वा
मिथुनं
जातमृषयो
ब्रह्मवादिनः
।
ऊचुः
परमसन्तुष्टा
विदित्वा
भगवत्कलाम्
3
▾
Meaning
Keep
एष
विष्णोर्भगवतः
कला
भुवनपालिनी
।
इयं
च
लक्ष्म्याः
सम्भूतिः
पुरुषस्यानपायिनी
4
▾
Meaning
Keep
अत्र
तु
प्रथमो
राज्ञां
पुमान्
प्रथयिता
यशः
।
पृथुर्नाम
महाराजो
भविष्यति
पृथुश्रवाः
5
▾
Meaning
Keep
इयं
च
सुदती
देवी
गुणभूषणभूषणा
।
अर्चिर्नाम
वरारोहा
पृथुमेवावरुन्धती
6
▾
Meaning
Keep
एष
साक्षाद्धरेरंशो
जातो
लोकरिरक्षया
।
इयं
च
तत्परा
हि
श्रीरनुजज्ञेऽनपायिनी
7
▾
Meaning
Keep
प्रशंसन्ति
स्म
तं
विप्रा
गन्धर्वप्रवरा
जगुः
।
मुमुचुः
सुमनोधाराः
सिद्धा
नृत्यन्ति
स्वःस्त्रियः
8
▾
Meaning
Keep
शङ्खतूर्यमृदङ्गाद्या
नेदुर्दुन्दुभयो
दिवि
।
तत्र
सर्व
उपाजग्मुर्देवर्षिपितॄणां
गणाः
9
▾
Meaning
Keep
ब्रह्मा
जगद्गुरुर्देवैः
सहासृत्य
सुरेश्वरैः
।
वैन्यस्य
दक्षिणे
हस्ते
दृष्ट्वा
चिह्नं
गदाभृतः
10
▾
Meaning
Keep
पादयोररविन्दं
च
तं
वै
मेने
हरेः
कलाम्
।
यस्याप्रतिहतं
चक्रमंशः
स
परमेष्ठिनः
11
▾
Meaning
Keep
तस्याभिषेक
आरब्धो
ब्राह्मणैर्ब्रह्मवादिभिः
।
आभिषेचनिकान्यस्मै
आजह्रुः
सर्वतो
जनाः
12
▾
Meaning
Keep
सरित्समुद्रा
गिरयो
नागा
गावः
खगा
मृगाः
।
द्यौः
क्षितिः
सर्वभूतानि
समाजह्रुरुपायनम्
13
▾
Meaning
Keep
सोऽभिषिक्तो
महाराजः
सुवासाः
साध्वलङ्कृतः
।
पत्न्यार्चिषालङ्कृतया
विरेजेऽग्निरिवापरः
14
▾
Meaning
Keep
तस्मै
जहार
धनदो
हैमं
वीरवरासनम्
।
वरुणः
सलिलस्रावमातपत्रं
शशिप्रभम्
15
▾
Meaning
Keep
वायुश्च
वालव्यजने
धर्मः
कीर्तिमयीं
स्रजम्
।
इन्द्रः
किरीटमुत्कृष्टं
दण्डं
संयमनं
यमः
16
▾
Meaning
Keep
ब्रह्मा
ब्रह्ममयं
वर्म
भारती
हारमुत्तमम्
।
हरिः
सुदर्शनं
चक्रं
तत्पत्न्यव्याहतां
श्रियम्
17
▾
Meaning
Keep
दशचन्द्रमसिं
रुद्रः
शतचन्द्रं
तथाम्बिका
।
सोमोऽमृतमयानश्वांस्त्वष्टा
रूपाश्रयं
रथम्
18
▾
Meaning
Keep
अग्निराजगवं
चापं
सूर्यो
रश्मिमयानिषून्
।
भूः
पादुके
योगमय्यौ
द्यौः
पुष्पावलिमन्वहम्
19
▾
Meaning
Keep
नाट्यं
सुगीतं
वादित्रमन्तर्धानं
च
खेचराः
।
ऋषयश्चाशिषः
सत्याः
समुद्रः
शङ्खमात्मजम्
20
▾
Meaning
Keep
सिन्धवः
पर्वता
नद्यो
रथवीथीर्महात्मनः
।
सूतोऽथ
मागधो
वन्दी
तं
स्तोतुमुपतस्थिरे
21
▾
Meaning
Keep
स्तावकांस्तानभिप्रेत्य
पृथुर्वैन्यः
प्रतापवान्
।
मेघनिर्ह्रादया
वाचा
प्रहसन्निदमब्रवीत्
Hymn
22
▾
Meaning
Keep
भोः
सूत
हे
मागध
सौम्य
वन्दिँल्लोकेऽधुनास्पष्टगुणस्य
मे
स्यात्
।
किमाश्रयो
मे
स्तव
एष
योज्यतां
मा
मय्यभूवन्
वितथा
गिरो
वः
23
▾
Meaning
Keep
तस्मात्परोक्षेऽस्मदुपश्रुतान्यलं
करिष्यथ
स्तोत्रमपीच्यवाचः
।
सत्युत्तमश्लोकगुणानुवादे
जुगुप्सितं
न
स्तवयन्ति
सभ्याः
24
▾
Meaning
Keep
महद्गुणानात्मनि
कर्तुमीशः
कः
स्तावकैः
स्तावयतेऽसतोऽपि
।
तेऽस्याभविष्यन्निति
विप्रलब्धो
जनावहासं
कुमतिर्न
वेद
25
▾
Meaning
Keep
प्रभवो
ह्यात्मनः
स्तोत्रं
जुगुप्सन्त्यपि
विश्रुताः
।
ह्रीमन्तः
परमोदाराः
पौरुषं
वा
विगर्हितम्
26
▾
Meaning
Keep
वयं
त्वविदिता
लोके
सूताद्यापि
वरीमभिः
।
कर्मभिः
कथमात्मानं
गापयिष्याम
बालवत्
Previous
←
Vena Struck Down
Next
What the Singers Said of Prthu
→