Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · What the Singers Said of Prthu
Śrīmad Bhāgavatam
›
Canto 4
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
Hymn
1
▾
Meaning
Keep
इति
ब्रुवाणं
नृपतिं
गायका
मुनिचोदिताः
।
तुष्टुवुस्तुष्टमनसस्तद्वागमृतसेवया
2
▾
Meaning
Keep
नालं
वयं
ते
महिमानुवर्णने
यो
देववर्योऽवततार
मायया
।
वेनाङ्गजातस्य
च
पौरुषाणि
ते
वाचस्पतीनामपि
बभ्रमुर्धियः
3
▾
Meaning
Keep
अथाप्युदारश्रवसः
पृथोर्हरेः
कलावतारस्य
कथामृतादृताः
।
यथोपदेशं
मुनिभिः
प्रचोदिताः
श्लाघ्यानि
कर्माणि
वयं
वितन्महि
4
▾
Meaning
Keep
एष
धर्मभृतां
श्रेष्ठो
लोकं
धर्मेऽनुवर्तयन्
।
गोप्ता
च
धर्मसेतूनां
शास्ता
तत्परिपन्थिनाम्
5
▾
Meaning
Keep
एष
वै
लोकपालानां
बिभर्त्येकस्तनौ
तनूः
।
काले
काले
यथा
भागं
लोकयोरुभयोर्हितम्
6
▾
Meaning
Keep
वसु
काल
उपादत्ते
काले
चायं
विमुञ्चति
।
समः
सर्वेषु
भूतेषु
प्रतपन्
सूर्यवद्विभुः
7
▾
Meaning
Keep
तितिक्षत्यक्रमं
वैन्य
उपर्याक्रमतामपि
।
भूतानां
करुणः
शश्वदार्तानां
क्षितिवृत्तिमान्
8
▾
Meaning
Keep
देवेऽवर्षत्यसौ
देवो
नरदेववपुर्हरिः
।
कृच्छ्रप्राणाः
प्रजा
ह्येष
रक्षिष्यत्यञ्जसेन्द्रवत्
9
▾
Meaning
Keep
आप्याययत्यसौ
लोकं
वदनामृतमूर्तिना
।
सानुरागावलोकेन
विशदस्मितचारुणा
10
▾
Meaning
Keep
अव्यक्तवर्त्मैष
निगूढकार्यो
गम्भीरवेधा
उपगुप्तवित्तः
।
अनन्तमाहात्म्यगुणैकधामा
पृथुः
प्रचेता
इव
संवृतात्मा
11
▾
Meaning
Keep
दुरासदो
दुर्विषह
आसन्नोऽपि
विदूरवत्
।
नैवाभिभवितुं
शक्यो
वेनारण्युत्थितोऽनलः
12
▾
Meaning
Keep
अन्तर्बहिश्च
भूतानां
पश्यन्
कर्माणि
चारणैः
।
उदासीन
इवाध्यक्षो
वायुरात्मेव
देहिनाम्
13
▾
Meaning
Keep
नादण्ड्यं
दण्डयत्येष
सुतमात्मद्विषामपि
।
दण्डयत्यात्मजमपि
दण्ड्यं
धर्मपथे
स्थितः
14
▾
Meaning
Keep
अस्याप्रतिहतं
चक्रं
पृथोरामानसाचलात्
।
वर्तते
भगवानर्को
यावत्तपति
गोगणैः
15
▾
Meaning
Keep
रञ्जयिष्यति
यल्लोकमयमात्मविचेष्टितैः
।
अथामुमाहू
राजानं
मनोरञ्जनकैः
प्रजाः
16
▾
Meaning
Keep
दृढव्रतः
सत्यसन्धो
ब्रह्मण्यो
वृद्धसेवकः
।
शरण्यः
सर्वभूतानां
मानदो
दीनवत्सलः
17
▾
Meaning
Keep
मातृभक्तिः
परस्त्रीषु
पत्न्यामर्ध
इवात्मनः
।
प्रजासु
पितृवत्स्निग्धः
किङ्करो
ब्रह्मवादिनाम्
18
▾
Meaning
Keep
देहिनामात्मवत्प्रेष्ठः
सुहृदां
नन्दिवर्धनः
।
मुक्तसङ्गप्रसङ्गोऽयं
दण्डपाणिरसाधुषु
19
▾
Meaning
Keep
अयं
तु
साक्षाद्भगवांस्त्र्यधीशः
कूटस्थ
आत्मा
कलयावतीर्णः
।
यस्मिन्नविद्यारचितं
निरर्थकं
पश्यन्ति
नानात्वमपि
प्रतीतम्
20
▾
Meaning
Keep
अयं
भुवो
मण्डलमोदयाद्रे-
र्गोप्तैकवीरो
नरदेवनाथः
।
आस्थाय
जैत्रं
रथमात्तचापः
पर्यस्यते
दक्षिणतो
यथार्कः
21
▾
Meaning
Keep
अस्मै
नृपालाः
किल
तत्र
तत्र
बलिं
हरिष्यन्ति
सलोकपालाः
।
मंस्यन्त
एषां
स्त्रिय
आदिराजं
चक्रायुधं
तद्यश
उद्धरन्त्यः
22
▾
Meaning
Keep
अयं
महीं
गां
दुदुहेऽधिराजः
प्रजापतिर्वृत्तिकरः
प्रजानाम्
।
यो
लीलयाद्रीन्
स्वशरासकोट्या
भिन्दन्
समां
गामकरोद्यथेन्द्रः
23
▾
Meaning
Keep
विस्फूर्जयन्नाजगवं
धनुः
स्वयं
यदाचरत्क्ष्मामविषह्यमाजौ
।
तदा
निलिल्युर्दिशि
दिश्यसन्तो
लाङ्गूलमुद्यम्य
यथा
मृगेन्द्रः
24
▾
Meaning
Keep
एषोऽश्वमेधाञ्शतमाजहार
सरस्वती
प्रादुरभावि
यत्र
।
अहार्षीद्यस्य
हयं
पुरन्दरः
शतक्रतुश्चरमे
वर्तमाने
25
▾
Meaning
Keep
एष
स्वसद्मोपवने
समेत्यसनत्कुमारं
भगवन्तमेकम्
।
आराध्य
भक्त्यालभतामलं
तज्ज्ञानं
यतो
ब्रह्म
परं
विदन्ति
26
▾
Meaning
Keep
तत्र
तत्र
गिरस्तास्ता
इति
विश्रुतविक्रमः
।
श्रोष्यत्यात्माश्रिता
गाथाः
पृथुः
पृथुपराक्रमः
27
▾
Meaning
Keep
दिशो
विजित्याप्रतिरुद्धचक्रः
स्वतेजसोत्पाटितलोकशल्यः
।
सुरासुरेन्द्रैरुपगीयमान-
महानुभावो
भविता
पतिर्भुवः
Previous
←
The Birth and Anointing of Prthu
Next
The King Draws His Bow on the Earth
→