Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The King Draws His Bow on the Earth
Śrīmad Bhāgavatam
›
Canto 4
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
एवं
स
भगवान्
वैन्यः
ख्यापितो
गुणकर्मभिः
।
छन्दयामास
तान्
कामैः
प्रतिपूज्याभिनन्द्य
च
2
▾
Meaning
Keep
ब्राह्मणप्रमुखान्
वर्णान्
भृत्यामात्यपुरोधसः
।
पौराञ्जानपदान्
श्रेणीः
प्रकृतीः
समपूजयत्
3
▾
Meaning
Keep
कस्माद्दधार
गोरूपं
धरित्री
बहुरूपिणी
।
यां
दुदोह
पृथुस्तत्र
को
वत्सो
दोहनं
च
किम्
4
▾
Meaning
Keep
प्रकृत्या
विषमा
देवी
कृता
तेन
समा
कथम्
।
तस्य
मेध्यं
हयं
देवः
कस्य
हेतोरपाहरत्
5
▾
Meaning
Keep
सनत्कुमाराद्भगवतो
ब्रह्मन्
ब्रह्मविदुत्तमात्
।
लब्ध्वा
ज्ञानं
सविज्ञानं
राजर्षिः
कां
गतिं
गतः
6
▾
Meaning
Keep
यच्चान्यदपि
कृष्णस्य
भवान्
भगवतः
प्रभोः
।
श्रवः
सुश्रवसः
पुण्यं
पूर्वदेहकथाश्रयम्
7
▾
Meaning
Keep
भक्ताय
मेऽनुरक्ताय
तव
चाधोक्षजस्य
च
।
वक्तुमर्हसि
योऽदुह्यद्वैन्यरूपेण
गामिमाम्
8
▾
Meaning
Keep
चोदितो
विदुरेणैवं
वासुदेवकथां
प्रति
।
प्रशस्य
तं
प्रीतमना
मैत्रेयः
प्रत्यभाषत
9
▾
Meaning
Keep
यदाभिषिक्तः
पृथुरङ्ग
विप्रै-
रामन्त्रितो
जनतायाश्च
पालः
।
प्रजा
निरन्ने
क्षितिपृष्ठ
एत्य
क्षुत्क्षामदेहाः
पतिमभ्यवोचन्
10
▾
Meaning
Keep
वयं
राजञ्जाठरेणाभितप्ता
यथाग्निना
कोटरस्थेन
वृक्षाः
।
त्वामद्य
याताः
शरणं
शरण्यं
यः
साधितो
वृत्तिकरः
पतिर्नः
11
▾
Meaning
Keep
तन्नो
भवानीहतु
रातवेऽन्नं
क्षुधार्दितानां
नरदेवदेव
।
यावन्न
नङ्क्ष्यामह
उज्झितोर्जा
वार्तापतिस्त्वं
किल
लोकपालः
12
▾
Meaning
Keep
पृथुः
प्रजानां
करुणं
निशम्य
परिदेवितम्
।
दीर्घं
दध्यौ
कुरुश्रेष्ठ
निमित्तं
सोऽन्वपद्यत
13
▾
Meaning
Keep
इति
व्यवसितो
बुद्ध्या
प्रगृहीतशरासनः
।
सन्दधे
विशिखं
भूमेः
क्रुद्धस्त्रिपुरहा
यथा
14
▾
Meaning
Keep
प्रवेपमाना
धरणी
निशाम्योदायुधं
च
तम्
।
गौः
सत्यपाद्रवद्भीता
मृगीव
मृगयुद्रुता
15
▾
Meaning
Keep
तामन्वधावत्तद्वैन्यः
कुपितोऽत्यरुणेक्षणः
।
शरं
धनुषि
सन्धाय
यत्र
यत्र
पलायते
16
▾
Meaning
Keep
सा
दिशो
विदिशो
देवी
रोदसी
चान्तरं
तयोः
।
धावन्ती
तत्र
तत्रैनं
ददर्शानूद्यतायुधम्
17
▾
Meaning
Keep
लोके
नाविन्दत
त्राणं
वैन्यान्मृत्योरिव
प्रजाः
।
त्रस्ता
तदा
निववृते
हृदयेन
विदूयता
18
▾
Meaning
Keep
उवाच
च
महाभागं
धर्मज्ञापन्नवत्सल
।
त्राहि
मामपि
भूतानां
पालनेऽवस्थितो
भवान्
19
▾
Meaning
Keep
स
त्वं
जिघांससे
कस्माद्दीनामकृतकिल्बिषाम्
।
अहनिष्यत्कथं
योषां
धर्मज्ञ
इति
यो
मतः
20
▾
Meaning
Keep
प्रहरन्ति
न
वै
स्त्रीषु
कृतागःस्वपि
जन्तवः
।
किमुत
त्वद्विधा
राजन्
करुणा
दीनवत्सलाः
21
▾
Meaning
Keep
मां
विपाट्याजरां
नावं
यत्र
विश्वं
प्रतिष्ठितम्
।
आत्मानं
च
प्रजाश्चेमाः
कथमम्भसि
धास्यसि
22
▾
Meaning
Keep
वसुधे
त्वां
वधिष्यामि
मच्छासनपराङ्मुखीम्
।
भागं
बर्हिषि
या
वृङ्क्ते
न
तनोति
च
नो
वसु
23
▾
Meaning
Keep
यवसं
जग्ध्यनुदिनं
नैव
दोग्ध्यौधसं
पयः
।
तस्यामेवं
हि
दुष्टायां
दण्डो
नात्र
न
शस्यते
24
▾
Meaning
Keep
त्वं
खल्वोषधिबीजानि
प्राक्सृष्टानि
स्वयम्भुवा
।
न
मुञ्चस्यात्मरुद्धानि
मामवज्ञाय
मन्दधीः
25
▾
Meaning
Keep
अमूषां
क्षुत्परीतानामार्तानां
परिदेवितम्
।
शमयिष्यामि
मद्बाणैर्भिन्नायास्तव
मेदसा
26
▾
Meaning
Keep
पुमान्
योषिदुत
क्लीब
आत्मसम्भावनोऽधमः
।
भूतेषु
निरनुक्रोशो
नृपाणां
तद्वधोऽवधः
27
▾
Meaning
Keep
त्वां
स्तब्धां
दुर्मदां
नीत्वा
मायागां
तिलशः
शरैः
।
आत्मयोगबलेनेमा
धारयिष्याम्यहं
प्रजाः
28
▾
Meaning
Keep
एवं
मन्युमयीं
मूर्तिं
कृतान्तमिव
बिभ्रतम्
।
प्रणता
प्राञ्जलिः
प्राह
मही
सञ्जातवेपथुः
29
▾
Meaning
Keep
नमः
परस्मै
पुरुषाय
मायया
विन्यस्तनानातनवे
गुणात्मने
।
नमः
स्वरूपानुभवेन
निर्धुत-
द्रव्यक्रियाकारकविभ्रमोर्मये
30
▾
Meaning
Keep
येनाहमात्मायतनं
विनिर्मिता
धात्रा
यतोऽयं
गुणसर्गसङ्ग्रहः
।
स
एव
मां
हन्तुमुदायुधः
स्वराडुपस्थितोऽन्यं
शरणं
कमाश्रये
31
▾
Meaning
Keep
य
एतदादावसृजच्चराचरं
स्वमाययाऽत्माश्रययावितर्क्यया
।
तयैव
सोऽयं
किल
गोप्तुमुद्यतः
कथं
नु
मां
धर्मपरो
जिघांसति
32
▾
Meaning
Keep
नूनं
बतेशस्य
समीहितं
जनै-
स्तन्मायया
दुर्जययाकृतात्मभिः
।
न
लक्ष्यते
यस्त्वकरोदकारय-
द्योऽनेक
एकः
परतश्च
ईश्वरः
33
▾
Meaning
Keep
सर्गादि
योऽस्यानुरुणद्धि
शक्तिभि-
र्द्रव्यक्रियाकारकचेतनात्मभिः
।
तस्मै
समुन्नद्धनिरुद्धशक्तये
नमः
परस्मै
पुरुषाय
वेधसे
34
▾
Meaning
Keep
स
वै
भवानात्मविनिर्मितं
जग-
द्भूतेन्द्रियान्तःकरणात्मकं
विभो
।
संस्थापयिष्यन्नज
मां
रसातला-
दभ्युज्जहाराम्भस
आदिसूकरः
35
▾
Meaning
Keep
अपामुपस्थे
मयि
नाव्यवस्थिताः
प्रजा
भवानद्य
रिरक्षिषुः
किल
।
स
वीरमूर्तिः
समभूद्धराधरो
यो
मां
पयस्युग्रशरो
जिघांससि
36
▾
Meaning
Keep
नूनं
जनैरीहितमीश्वराणा-
मस्मद्विधैस्तद्गुणसर्गमायया
।
न
ज्ञायते
मोहितचित्तवर्त्मभि-
स्तेभ्यो
नमो
वीरयशस्करेभ्यः
Previous
←
What the Singers Said of Prthu
Next
The Milking of the Earth
→