Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Milking of the Earth
Śrīmad Bhāgavatam
›
Canto 4
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
इत्थं
पृथुमभिष्टूय
रुषा
प्रस्फुरिताधरम्
।
पुनराहावनिर्भीता
संस्तभ्यात्मानमात्मना
2
▾
Meaning
Keep
संनियच्छाभिभो
मन्युं
निबोध
श्रावितं
च
मे
।
सर्वतः
सारमादत्ते
यथा
मधुकरो
बुधः
3
▾
Meaning
Keep
अस्मिँल्लोकेऽथवामुष्मिन्
मुनिभिस्तत्त्वदर्शिभिः
।
दृष्टा
योगाः
प्रयुक्ताश्च
पुंसां
श्रेयःप्रसिद्धये
4
▾
Meaning
Keep
तानातिष्ठति
यः
सम्यगुपायान्
पूर्वदर्शितान्
।
अवरः
श्रद्धयोपेत
उपेयान्
विन्दतेऽञ्जसा
5
▾
Meaning
Keep
ताननादृत्य
योऽविद्वानर्थानारभते
स्वयम्
।
तस्य
व्यभिचरन्त्यर्था
आरब्धाश्च
पुनः
पुनः
6
▾
Meaning
Keep
पुरा
सृष्टा
ह्योषधयो
ब्रह्मणा
या
विशांपते
।
भुज्यमाना
मया
दृष्टा
असद्भिरधृतव्रतैः
7
▾
Meaning
Keep
अपालितानादृता
च
भवद्भिर्लोकपालकैः
।
चोरीभूतेऽथ
लोकेऽहं
यज्ञार्थेऽग्रसमोषधीः
8
▾
Meaning
Keep
नूनं
ता
वीरुधः
क्षीणा
मयि
कालेन
भूयसा
।
तत्र
योगेन
दृष्टेन
भवानादातुमर्हति
9
▾
Meaning
Keep
वत्सं
कल्पय
मे
वीर
येनाहं
वत्सला
तव
।
धोक्ष्ये
क्षीरमयान्
कामाननुरूपं
च
दोहनम्
10
▾
Meaning
Keep
दोग्धारं
च
महाबाहो
भूतानां
भूतभावन
।
अन्नमीप्सितमूर्जस्वद्भगवान्
वाञ्छते
यदि
11
▾
Meaning
Keep
समां
च
कुरु
मां
राजन्
देववृष्टं
यथा
पयः
।
अपर्तावपि
भद्रं
ते
उपावर्तेत
मे
विभो
12
▾
Meaning
Keep
इति
प्रियं
हितं
वाक्यं
भुव
आदाय
भूपतिः
।
वत्सं
कृत्वा
मनुं
पाणावदुहत्सकलौषधीः
13
▾
Meaning
Keep
तथापरे
च
सर्वत्र
सारमाददते
बुधाः
।
ततोऽन्ये
च
यथाकामं
दुदुहुः
पृथुभाविताम्
14
▾
Meaning
Keep
ऋषयो
दुदुहुर्देवीमिन्द्रियेष्वथ
सत्तम
।
वत्सं
बृहस्पतिं
कृत्वा
पयश्छन्दोमयं
शुचि
15
▾
Meaning
Keep
कृत्वा
वत्सं
सुरगणा
इन्द्रं
सोममदूदुहन्
।
हिरण्मयेन
पात्रेण
वीर्यमोजो
बलं
पयः
16
▾
Meaning
Keep
दैतेया
दानवा
वत्सं
प्रह्लादमसुरर्षभम्
।
विधायादूदुहन्
क्षीरमयःपात्रे
सुरासवम्
17
▾
Meaning
Keep
गन्धर्वाप्सरसोऽधुक्षन्
पात्रे
पद्ममये
पयः
।
वत्सं
विश्वावसुं
कृत्वा
गान्धर्वं
मधु
सौभगम्
18
▾
Meaning
Keep
वत्सेन
पितरोऽर्यम्णा
कव्यं
क्षीरमधुक्षत
।
आमपात्रे
महाभागाः
श्रद्धया
श्राद्धदेवताः
19
▾
Meaning
Keep
प्रकल्प्य
वत्सं
कपिलं
सिद्धाः
सङ्कल्पनामयीम्
।
सिद्धिं
नभसि
विद्यां
च
ये
च
विद्याधरादयः
20
▾
Meaning
Keep
अन्ये
च
मायिनो
मायामन्तर्धानाद्भुतात्मनाम्
।
मयं
प्रकल्प्य
वत्सं
ते
दुदुहुर्धारणामयीम्
21
▾
Meaning
Keep
यक्षरक्षांसि
भूतानि
पिशाचाः
पिशिताशनाः
।
भूतेशवत्सा
दुदुहुः
कपाले
क्षतजासवम्
22
▾
Meaning
Keep
तथाहयो
दन्दशूकाः
सर्पा
नागाश्च
तक्षकम्
।
विधाय
वत्सं
दुदुहुर्बिलपात्रे
विषं
पयः
23
▾
Meaning
Keep
पशवो
यवसं
क्षीरं
वत्सं
कृत्वा
च
गोवृषम्
।
अरण्यपात्रे
चाधुक्षन्
मृगेन्द्रेण
च
दंष्ट्रिणः
24
▾
Meaning
Keep
क्रव्यादाः
प्राणिनः
क्रव्यं
दुदुहुः
स्वे
कलेवरे
।
सुपर्णवत्सा
विहगाश्चरं
चाचरमेव
च
25
▾
Meaning
Keep
वटवत्सा
वनस्पतयः
पृथग्रसमयं
पयः
।
गिरयो
हिमवद्वत्सा
नानाधातून्
स्वसानुषु
26
▾
Meaning
Keep
सर्वे
स्वमुख्यवत्सेन
स्वे
स्वे
पात्रे
पृथक्पयः
।
सर्वकामदुघां
पृथ्वीं
दुदुहुः
पृथुभाविताम्
27
▾
Meaning
Keep
एवं
पृथ्वादयः
पृथ्वीमन्नादाः
स्वन्नमात्मनः
।
दोहवत्सादि
भेदेन
क्षीरभेदं
कुरूद्वह
28
▾
Meaning
Keep
ततो
महीपतिः
प्रीतः
सर्वकामदुघां
पृथुः
।
दुहितृत्वे
चकारेमां
प्रेम्णा
दुहितृवत्सलः
29
▾
Meaning
Keep
चूर्णयन्
स्वधनुष्कोट्या
गिरिकूटानि
राजराट्
।
भूमण्डलमिदं
वैन्यः
प्रायश्चक्रे
समं
विभुः
30
▾
Meaning
Keep
अथास्मिन्
भगवान्
वैन्यः
प्रजानां
वृत्तिदः
पिता
।
निवासान्
कल्पयाञ्चक्रे
तत्र
तत्र
यथार्हतः
31
▾
Meaning
Keep
ग्रामान्
पुरः
पत्तनानि
दुर्गाणि
विविधानि
च
।
घोषान्
व्रजान्
सशिबिरानाकरान्
खेटखर्वटान्
32
▾
Meaning
Keep
प्राक्पृथोरिह
नैवैषा
पुरग्रामादि
कल्पना
।
यथासुखं
वसन्ति
स्म
तत्र
तत्राकुतोभयाः
Previous
←
The King Draws His Bow on the Earth
Next
Indra Steals the Horse
→