Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Bhagavan Speaks to Prthu
Śrīmad Bhāgavatam
›
Canto 4
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
भगवानपि
वैकुण्ठः
साकं
मघवता
विभुः
।
यज्ञैर्यज्ञपतिस्तुष्टो
यज्ञभुक्
तमभाषत
2
▾
Meaning
Keep
श्रीभगवानुवाच ।
एष तेऽकार्षीद्भङ्गं हयमेधशतस्य ह ।
क्षमापयत आत्मानममुष्य क्षन्तुमर्हसि
3
▾
Meaning
Keep
सुधियः
साधवो
लोके
नरदेव
नरोत्तमाः
।
नाभिद्रुह्यन्ति
भूतेभ्यो
यर्हि
नात्मा
कलेवरम्
4
▾
Meaning
Keep
पुरुषा
यदि
मुह्यन्ति
त्वादृशा
देवमायया
।
श्रम
एव
परं
जातो
दीर्घया
वृद्धसेवया
5
▾
Meaning
Keep
अतः
कायमिमं
विद्वानविद्याकामकर्मभिः
।
आरब्ध
इति
नैवास्मिन्
प्रतिबुद्धोऽनुषज्जते
6
▾
Meaning
Keep
असंसक्तः
शरीरेऽस्मिन्नमुनोत्पादिते
गृहे
।
अपत्ये
द्रविणे
वापि
कः
कुर्यान्ममतां
बुधः
7
▾
Meaning
Keep
एकः
शुद्धः
स्वयंज्योतिर्निर्गुणोऽसौ
गुणाश्रयः
।
सर्वगोऽनावृतः
साक्षी
निरात्माऽऽत्मात्मनः
परः
8
▾
Meaning
Keep
य
एवं
सन्तमात्मानमात्मस्थं
वेद
पूरुषः
।
नाज्यते
प्रकृतिस्थोऽपि
तद्गुणैः
स
मयि
स्थितः
9
▾
Meaning
Keep
यः
स्वधर्मेण
मां
नित्यं
निराशीः
श्रद्धयान्वितः
।
भजते
शनकैस्तस्य
मनो
राजन्
प्रसीदति
10
▾
Meaning
Keep
परित्यक्तगुणः
सम्यग्दर्शनो
विशदाशयः
।
शान्तिं
मे
समवस्थानं
ब्रह्मकैवल्यमश्नुते
11
▾
Meaning
Keep
उदासीनमिवाध्यक्षं
द्रव्यज्ञानक्रियात्मनाम्
।
कूटस्थमिममात्मानं
यो
वेदाप्नोति
शोभनम्
12
▾
Meaning
Keep
भिन्नस्य
लिङ्गस्य
गुणप्रवाहो
द्रव्यक्रियाकारकचेतनात्मनः
।
दृष्टासु
सम्पत्सु
विपत्सु
सूरयो
न
विक्रियन्ते
मयि
बद्धसौहृदाः
13
▾
Meaning
Keep
समः
समानोत्तममध्यमाधमः
सुखे
च
दुःखे
च
जितेन्द्रियाशयः
।
मयोपकॢप्ताखिललोकसंयुतो
विधत्स्व
वीराखिललोकरक्षणम्
14
▾
Meaning
Keep
श्रेयः
प्रजापालनमेव
राज्ञो
यत्साम्पराये
सुकृतात्षष्ठमंशम्
।
हर्तान्यथा
हृतपुण्यः
प्रजाना-
मरक्षिता
करहारोऽघमत्ति
15
▾
Meaning
Keep
एवं
द्विजाग्र्यानुमतानुवृत्त-
धर्मप्रधानोऽन्यतमोऽवितास्याः
।
ह्रस्वेन
कालेन
गृहोपयातान्
द्रष्टासि
सिद्धाननुरक्तलोकः
16
▾
Meaning
Keep
वरं
च
मत्कञ्चन
मानवेन्द्र
वृणीष्व
तेऽहं
गुणशीलयन्त्रितः
।
नाहं
मखैर्वै
सुलभस्तपोभि-
र्योगेन
वा
यत्समचित्तवर्ती
17
▾
Meaning
Keep
स
इत्थं
लोकगुरुणा
विष्वक्सेनेन
विश्वजित्
।
अनुशासित
आदेशं
शिरसा
जगृहे
हरेः
18
▾
Meaning
Keep
स्पृशन्तं
पादयोः
प्रेम्णा
व्रीडितं
स्वेन
कर्मणा
।
शतक्रतुं
परिष्वज्य
विद्वेषं
विससर्ज
ह
19
▾
Meaning
Keep
भगवानथ
विश्वात्मा
पृथुनोपहृतार्हणः
।
समुज्जिहानया
भक्त्या
गृहीतचरणाम्बुजः
20
▾
Meaning
Keep
प्रस्थानाभिमुखोऽप्येनमनुग्रहविलम्बितः
।
पश्यन्
पद्मपलाशाक्षो
न
प्रतस्थे
सुहृत्सताम्
21
▾
Meaning
Keep
स
आदिराजो
रचिताञ्जलिर्हरिं
विलोकितुं
नाशकदश्रुलोचनः
।
न
किञ्चनोवाच
स
बाष्पविक्लवो
हृदोपगुह्यामुमधादवस्थितः
22
▾
Meaning
Keep
अथावमृज्याश्रुकला
विलोकय-
न्नतृप्तदृग्गोचरमाह
पूरुषम्
।
पदा
स्पृशन्तं
क्षितिमंस
उन्नते
विन्यस्तहस्ताग्रमुरङ्गविद्विषः
23
▾
Meaning
Keep
वरान्विभो
त्वद्वरदेश्वराद्बुधः
कथं
वृणीते
गुणविक्रियात्मनाम्
।
ये
नारकाणामपि
सन्ति
देहिनां
तानीश
कैवल्यपते
वृणे
न
च
24
▾
Meaning
Keep
न
कामये
नाथ
तदप्यहं
क्वचि-
न्न
यत्र
युष्मच्चरणाम्बुजासवः
।
महत्तमान्तर्हृदयान्मुखच्युतो
विधत्स्व
कर्णायुतमेष
मे
वरः
25
▾
Meaning
Keep
स
उत्तमश्लोकमहन्मुखच्युतो
भवत्पदाम्भोजसुधाकणानिलः
।
स्मृतिं
पुनर्विस्मृततत्त्ववर्त्मनां
कुयोगिनां
नो
वितरत्यलं
वरैः
26
▾
Meaning
Keep
यशः
शिवं
सुश्रव
आर्यसङ्गमे
यदृच्छया
चोपशृणोति
ते
सकृत्
।
कथं
गुणज्ञो
विरमेद्विना
पशुं
श्रीर्यत्प्रवव्रे
गुणसंग्रहेच्छया
27
▾
Meaning
Keep
अथाभजे
त्वाखिलपूरुषोत्तमं
गुणालयं
पद्मकरेव
लालसः
।
अप्यावयोरेकपतिस्पृधोः
कलि-
र्न
स्यात्कृतत्वच्चरणैकतानयोः
28
▾
Meaning
Keep
जगज्जनन्यां
जगदीश
वैशसं
स्यादेव
यत्कर्मणि
नः
समीहितम्
।
करोषि
फल्ग्वप्युरु
दीनवत्सलः
स्व
एव
धिष्ण्येऽभिरतस्य
किं
तया
29
▾
Meaning
Keep
भजन्त्यथ
त्वामत
एव
साधवो
व्युदस्तमायागुणविभ्रमोदयम्
।
भवत्पदानुस्मरणादृते
सतां
निमित्तमन्यद्भगवन्न
विद्महे
30
▾
Meaning
Keep
मन्ये
गिरं
ते
जगतां
विमोहिनीं
वरं
वृणीष्वेति
भजन्तमात्थ
यत्
।
वाचा
नु
तन्त्या
यदि
ते
जनोऽसितः
कथं
पुनः
कर्म
करोति
मोहितः
31
▾
Meaning
Keep
त्वन्माययाद्धा
जन
ईश
खण्डितो
यदन्यदाशास्त
ऋतात्मनोऽबुधः
।
यथा
चरेद्बालहितं
पिता
स्वयं
तथा
त्वमेवार्हसि
नः
समीहितुम्
32
▾
Meaning
Keep
इत्यादिराजेन
नुतः
स
विश्वदृक्-
तमाह
राजन्
मयि
भक्तिरस्तु
ते
।
दिष्ट्येदृशी
धीर्मयि
ते
कृता
यया
मायां
मदीयां
तरति
स्म
दुस्त्यजाम्
33
▾
Meaning
Keep
तत्त्वं
कुरु
मयाऽऽदिष्टमप्रमत्तः
प्रजापते
।
मदादेशकरो
लोकः
सर्वत्राप्नोति
शोभनम्
34
▾
Meaning
Keep
इति
वैन्यस्य
राजर्षेः
प्रतिनन्द्यार्थवद्वचः
।
पूजितोऽनुगृहीत्वैनं
गन्तुं
चक्रेऽच्युतो
मतिम्
35
▾
Meaning
Keep
देवर्षिपितृगन्धर्वसिद्धचारणपन्नगाः
।
किन्नराप्सरसो
मर्त्याः
खगा
भूतान्यनेकशः
36
▾
Meaning
Keep
यज्ञेश्वरधिया
राज्ञा
वाग्वित्ताञ्जलिभक्तितः
।
सभाजिता
ययुः
सर्वे
वैकुण्ठानुगतास्ततः
37
▾
Meaning
Keep
भगवानपि
राजर्षेः
सोपाध्यायस्य
चाच्युतः
।
हरन्निव
मनोऽमुष्य
स्वधाम
प्रत्यपद्यत
38
▾
Meaning
Keep
अदृष्टाय
नमस्कृत्य
नृपः
संदर्शितात्मने
।
अव्यक्ताय
च
देवानां
देवाय
स्वपुरं
ययौ
Previous
←
Indra Steals the Horse
Next
Prthu Speaks to the Assembly
→