Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Prthu Speaks to the Assembly
Śrīmad Bhāgavatam
›
Canto 4
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
मौक्तिकैः
कुसुमस्रग्भिर्दुकूलैः
स्वर्णतोरणैः
।
महासुरभिभिर्धूपैर्मण्डितं
तत्र
तत्र
वै
2
▾
Meaning
Keep
चन्दनागुरुतोयार्द्ररथ्याचत्वरमार्गवत्
।
पुष्पाक्षतफलैस्तोक्मैर्लाजैरर्चिर्भिरर्चितम्
3
▾
Meaning
Keep
सवृन्दैः
कदलीस्तम्भैः
पूगपोतैः
परिष्कृतम्
।
तरुपल्लवमालाभिः
सर्वतः
समलङ्कृतम्
4
▾
Meaning
Keep
प्रजास्तं
दीपबलिभिः
सम्भृताशेषमङ्गलैः
।
अभीयुर्मृष्टकन्याश्च
मृष्टकुण्डलमण्डिताः
5
▾
Meaning
Keep
शङ्खदुन्दुभिघोषेण
ब्रह्मघोषेण
चर्त्विजाम्
।
विवेश
भवनं
वीरः
स्तूयमानो
गतस्मयः
6
▾
Meaning
Keep
पूजितः
पूजयामास
तत्र
तत्र
महायशाः
।
पौराञ्जानपदांस्तांस्तान्
प्रीतः
प्रियवरप्रदः
7
▾
Meaning
Keep
स
एवमादीन्यनवद्यचेष्टितः
कर्माणि
भूयांसि
महान्
महत्तमः
।
कुर्वन्
शशासावनिमण्डलं
यशः
स्फीतं
निधायारुरुहे
परं
पदम्
8
▾
Meaning
Keep
तदादिराजस्य
यशो
विजृम्भितं
गुणैरशेषैर्गुणवत्सभाजितम्
।
क्षत्ता
महाभागवतः
सदस्पते
कौषारविं
प्राह
गृणन्तमर्चयन्
9
▾
Meaning
Keep
सोऽभिषिक्तः
पृथुर्विप्रैर्लब्धाशेषसुरार्हणः
।
बिभ्रत्स
वैष्णवं
तेजो
बाह्वोर्याभ्यां
दुदोह
गाम्
10
▾
Meaning
Keep
को
न्वस्य
कीर्तिं
न
शृणोत्यभिज्ञो
यद्विक्रमोच्छिष्टमशेषभूपाः
।
लोकाः
सपाला
उपजीवन्ति
काम-
मद्यापि
तन्मे
वद
कर्म
शुद्धम्
11
▾
Meaning
Keep
गङ्गायमुनयोर्नद्योरन्तरा
क्षेत्रमावसन्
।
आरब्धानेव
बुभुजे
भोगान्
पुण्यजिहासया
12
▾
Meaning
Keep
सर्वत्रास्खलितादेशः
सप्तद्वीपैकदण्डधृक्
।
अन्यत्र
ब्राह्मणकुलादन्यत्राच्युतगोत्रतः
13
▾
Meaning
Keep
एकदाऽऽसीन्महासत्रदीक्षा
तत्र
दिवौकसाम्
।
समाजो
ब्रह्मर्षीणां
च
राजर्षीणां
च
सत्तम
14
▾
Meaning
Keep
तस्मिन्नर्हत्सु
सर्वेषु
स्वर्चितेषु
यथार्हतः
।
उत्थितः
सदसो
मध्ये
ताराणामुडुराडिव
15
▾
Meaning
Keep
प्रांशुः
पीनायतभुजो
गौरः
कञ्जारुणेक्षणः
।
सुनासः
सुमुखः
सौम्यः
पीनांसः
सुद्विजस्मितः
16
▾
Meaning
Keep
व्यूढवक्षा
बृहच्छ्रोणिर्वलिवल्गुदलोदरः
।
आवर्तनाभिरोजस्वी
काञ्चनोरुरुदग्रपात्
17
▾
Meaning
Keep
सूक्ष्मवक्रासितस्निग्धमूर्धजः
कम्बुकन्धरः
।
महाधने
दुकूलाग्र्ये
परिधायोपवीय
च
18
▾
Meaning
Keep
व्यञ्जिताशेषगात्रश्रीर्नियमे
न्यस्तभूषणः
।
कृष्णाजिनधरः
श्रीमान्
कुशपाणिः
कृतोचितः
19
▾
Meaning
Keep
शिशिरस्निग्धताराक्षः
समैक्षत
समन्ततः
।
ऊचिवानिदमुर्वीशः
सदः
संहर्षयन्निव
20
▾
Meaning
Keep
चारुचित्रपदं
श्लक्ष्णं
मृष्टं
गूढमविक्लवम्
।
सर्वेषामुपकारार्थं
तदा
अनुवदन्निव
21
▾
Meaning
Keep
सभ्याः
शृणुत
भद्रं
वः
साधवो
य
इहागताः
।
सत्सु
जिज्ञासुभिर्धर्ममावेद्यं
स्वमनीषितम्
22
▾
Meaning
Keep
अहं
दण्डधरो
राजा
प्रजानामिह
योजितः
।
रक्षिता
वृत्तिदः
स्वेषु
सेतुषु
स्थापिता
पृथक्
23
▾
Meaning
Keep
तस्य
मे
तदनुष्ठानाद्यानाहुर्ब्रह्मवादिनः
।
लोकाः
स्युः
कामसंदोहा
यस्य
तुष्यति
दिष्टदृक्
24
▾
Meaning
Keep
य
उद्धरेत्करं
राजा
प्रजा
धर्मेष्वशिक्षयन्
।
प्रजानां
शमलं
भुङ्क्ते
भगं
च
स्वं
जहाति
सः
25
▾
Meaning
Keep
तत्प्रजा
भर्तृपिण्डार्थं
स्वार्थमेवानसूयवः
।
कुरुताधोक्षजधियस्तर्हि
मेऽनुग्रहः
कृतः
26
▾
Meaning
Keep
यूयं
तदनुमोदध्वं
पितृदेवर्षयोऽमलाः
।
कर्तुः
शास्तुरनुज्ञातुस्तुल्यं
यत्प्रेत्य
तत्फलम्
27
▾
Meaning
Keep
अस्ति
यज्ञपतिर्नाम
केषाञ्चिदर्हसत्तमाः
।
इहामुत्र
च
लक्ष्यन्ते
ज्योत्स्नावत्यः
क्वचिद्भुवः
28
▾
Meaning
Keep
मनोरुत्तानपादस्य
ध्रुवस्यापि
महीपतेः
।
प्रियव्रतस्य
राजर्षेरङ्गस्यास्मत्पितुः
पितुः
29
▾
Meaning
Keep
ईदृशानामथान्येषामजस्य
च
भवस्य
च
।
प्रह्लादस्य
बलेश्चापि
कृत्यमस्ति
गदाभृता
30
▾
Meaning
Keep
दौहित्रादीन्
ऋते
मृत्योः
शोच्यान्
धर्मविमोहितान्
।
वर्गस्वर्गापवर्गाणां
प्रायेणैकात्म्यहेतुना
31
▾
Meaning
Keep
यत्पादसेवाभिरुचिस्तपस्विना-
मशेषजन्मोपचितं
मलं
धियः
।
सद्यः
क्षिणोत्यन्वहमेधती
सती
यथा
पदाङ्गुष्ठविनिःसृता
सरित्
32
▾
Meaning
Keep
विनिर्धुताशेषमनोमलः
पुमा-
नसङ्गविज्ञानविशेषवीर्यवान्
।
यदङ्घ्रिमूले
कृतकेतनः
पुन-
र्न
संसृतिं
क्लेशवहां
प्रपद्यते
33
▾
Meaning
Keep
तमेव
यूयं
भजतात्मवृत्तिभि-
र्मनोवचःकायगुणैः
स्वकर्मभिः
।
अमायिनः
कामदुघाङ्घ्रिपङ्कजं
यथाधिकारावसितार्थसिद्धयः
34
▾
Meaning
Keep
असाविहानेकगुणोऽगुणोऽध्वरः
पृथग्विधद्रव्यगुणक्रियोक्तिभिः
।
सम्पद्यतेऽर्थाशयलिङ्गनामभि-
र्विशुद्धविज्ञानघनः
स्वरूपतः
35
▾
Meaning
Keep
प्रधानकालाशयधर्मसंग्रहे
शरीर
एष
प्रतिपद्य
चेतनाम्
।
क्रियाफलत्वेन
विभुर्विभाव्यते
यथानलो
दारुषु
तद्गुणात्मकः
36
▾
Meaning
Keep
अहो
ममामी
वितरन्त्यनुग्रहं
हरिं
गुरुं
यज्ञभुजामधीश्वरम्
।
स्वधर्मयोगेन
यजन्ति
मामका
निरन्तरं
क्षोणितले
दृढव्रताः
37
▾
Meaning
Keep
मा
जातु
तेजः
प्रभवेन्महर्द्धिभि-
स्तितिक्षया
तपसा
विद्यया
च
।
देदीप्यमानेऽजितदेवतानां
कुले
स्वयं
राजकुलाद्द्विजानाम्
38
▾
Meaning
Keep
ब्रह्मण्यदेवः
पुरुषः
पुरातनो
नित्यं
हरिर्यच्चरणाभिवन्दनात्
।
अवाप
लक्ष्मीमनपायिनीं
यशो
जगत्पवित्रं
च
महत्तमाग्रणीः
39
▾
Meaning
Keep
यत्सेवयाशेषगुहाशयः
स्वराड्
विप्रप्रियस्तुष्यति
काममीश्वरः
।
तदेव
तद्धर्मपरैर्विनीतैः
सर्वात्मना
ब्रह्मकुलं
निषेव्यताम्
40
▾
Meaning
Keep
पुमाँल्लभेतानतिवेलमात्मनः
प्रसीदतोऽत्यन्तशमं
स्वतः
स्वयम्
।
यन्नित्यसम्बन्धनिषेवया
ततः
परं
किमत्रास्ति
मुखं
हविर्भुजाम्
41
▾
Meaning
Keep
अश्नात्यनन्तः
खलु
तत्त्वकोविदैः
श्रद्धाहुतं
यन्मुख
इज्यनामभिः
।
न
वै
तथा
चेतनया
बहिष्कृते
हुताशने
पारमहंस्यपर्यगुः
42
▾
Meaning
Keep
यद्ब्रह्म
नित्यं
विरजं
सनातनं
श्रद्धातपोमङ्गलमौनसंयमैः
।
समाधिना
बिभ्रति
हार्थदृष्टये
यत्रेदमादर्श
इवावभासते
43
▾
Meaning
Keep
तेषामहं
पादसरोजरेणु-
मार्यावहेयाधिकिरीटमायुः
।
यं
नित्यदा
बिभ्रत
आशु
पापं
नश्यत्यमुं
सर्वगुणा
भजन्ति
44
▾
Meaning
Keep
गुणायनं
शीलधनं
कृतज्ञं
वृद्धाश्रयं
संवृणतेऽनुसम्पदः
।
प्रसीदतां
ब्रह्मकुलं
गवां
च
जनार्दनः
सानुचरश्च
मह्यम्
45
▾
Meaning
Keep
इति
ब्रुवाणं
नृपतिं
पितृदेवद्विजातयः
।
तुष्टुवुर्हृष्टमनसः
साधुवादेन
साधवः
46
▾
Meaning
Keep
पुत्रेण
जयते
लोकानिति
सत्यवती
श्रुतिः
।
ब्रह्मदण्डहतः
पापो
यद्वेनोऽत्यतरत्तमः
47
▾
Meaning
Keep
हिरण्यकशिपुश्चापि
भगवन्निन्दया
तमः
।
विविक्षुरत्यगात्सूनोः
प्रह्लादस्यानुभावतः
48
▾
Meaning
Keep
वीरवर्य
पितः
पृथ्व्याः
समाः
सञ्जीव
शाश्वतीः
।
यस्येदृश्यच्युते
भक्तिः
सर्वलोकैकभर्तरि
49
▾
Meaning
Keep
अहो
वयं
ह्यद्य
पवित्रकीर्ते
त्वयैव
नाथेन
मुकुन्दनाथाः
।
य
उत्तमश्लोकतमस्य
विष्णो-
र्ब्रह्मण्यदेवस्य
कथां
व्यनक्ति
50
▾
Meaning
Keep
नात्यद्भुतमिदं
नाथ
तवाजीव्यानुशासनम्
।
प्रजानुरागो
महतां
प्रकृतिः
करुणात्मनाम्
51
▾
Meaning
Keep
अद्य
नस्तमसः
पारस्त्वयोपासादितः
प्रभो
।
भ्राम्यतां
नष्टदृष्टीनां
कर्मभिर्दैवसंज्ञितैः
52
▾
Meaning
Keep
नमो
विवृद्धसत्त्वाय
पुरुषाय
महीयसे
।
यो
ब्रह्म
क्षत्रमाविश्य
बिभर्तीदं
स्वतेजसा
Previous
←
The Bhagavan Speaks to Prthu
Next
The Four Sages Come to Prthu
→