Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Prthu Goes to the Forest
Śrīmad Bhāgavatam
›
Canto 4
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
दृष्ट्वाऽऽत्मानं
प्रवयसमेकदा
वैन्य
आत्मवान्
।
आत्मना
वर्धिताशेषस्वानुसर्गः
प्रजापतिः
2
▾
Meaning
Keep
जगतस्तस्थुषश्चापि
वृत्तिदो
धर्मभृत्सताम्
।
निष्पादितेश्वरादेशो
यदर्थमिह
जज्ञिवान्
3
▾
Meaning
Keep
आत्मजेष्वात्मजां
न्यस्य
विरहाद्रुदतीमिव
।
प्रजासु
विमनःस्वेकः
सदारोऽगात्तपोवनम्
4
▾
Meaning
Keep
तत्राप्यदाभ्यनियमो
वैखानससुसंमते
।
आरब्ध
उग्रतपसि
यथा
स्वविजये
पुरा
5
▾
Meaning
Keep
कन्दमूलफलाहारः
शुष्कपर्णाशनः
क्वचित्
।
अब्भक्षः
कतिचित्पक्षान्
वायुभक्षस्ततः
परम्
6
▾
Meaning
Keep
ग्रीष्मे
पञ्चतपा
वीरो
वर्षास्वासारषाण्मुनिः
।
आकण्ठमग्नः
शिशिरे
उदके
स्थण्डिलेशयः
7
▾
Meaning
Keep
तितिक्षुर्यतवाग्दान्त
ऊर्ध्वरेता
जितानिलः
।
आरिराधयिषुः
कृष्णमचरत्तप
उत्तमम्
8
▾
Meaning
Keep
तेन
क्रमानुसिद्धेन
ध्वस्तकर्ममलाशयः
।
प्राणायामैः
सन्निरुद्धषड्वर्गश्छिन्नबन्धनः
9
▾
Meaning
Keep
सनत्कुमारो
भगवान्
यदाहाध्यात्मिकं
परम्
।
योगं
तेनैव
पुरुषमभजत्पुरुषर्षभः
10
▾
Meaning
Keep
भगवद्धर्मिणः
साधोः
श्रद्धया
यततः
सदा
।
भक्तिर्भगवति
ब्रह्मण्यनन्यविषयाभवत्
11
▾
Meaning
Keep
तस्यानया
भगवतः
परिकर्मशुद्ध-
सत्त्वात्मनस्तदनुसंस्मरणानुपूर्त्या
।
ज्ञानं
विरक्तिमदभून्निशितेन
येन
चिच्छेद
संशयपदं
निजजीवकोशम्
12
▾
Meaning
Keep
छिन्नान्यधीरधिगतात्मगतिर्निरीह-
स्तत्तत्यजेऽच्छिनदिदं
वयुनेन
येन
।
तावन्न
योगगतिभिर्यतिरप्रमत्तो
यावद्गदाग्रजकथासु
रतिं
न
कुर्यात्
13
▾
Meaning
Keep
एवं
स
वीरप्रवरः
संयोज्यात्मानमात्मनि
।
ब्रह्मभूतो
दृढं
काले
तत्याज
स्वं
कलेवरम्
14
▾
Meaning
Keep
सम्पीड्य
पायुं
पार्ष्णिभ्यां
वायुमुत्सारयन्
शनैः
।
नाभ्यां
कोष्ठेष्ववस्थाप्य
हृदुरःकण्ठशीर्षणि
15
▾
Meaning
Keep
उत्सर्पयंस्तु
तं
मूर्ध्नि
क्रमेणावेश्य
निःस्पृहः
।
वायुं
वायौ
क्षितौ
कायं
तेजस्तेजस्ययूयुजत्
16
▾
Meaning
Keep
खान्याकाशे
द्रवं
तोये
यथास्थानं
विभागशः
।
क्षितिमम्भसि
तत्तेजस्यदो
वायौ
नभस्यमुम्
17
▾
Meaning
Keep
इन्द्रियेषु
मनस्तानि
तन्मात्रेषु
यथोद्भवम्
।
भूतादिनामून्युत्कृष्य
महत्यात्मनि
सन्दधे
18
▾
Meaning
Keep
तं
सर्वगुणविन्यासं
जीवे
मायामये
न्यधात्
।
तं
चानुशयमात्मस्थमसावनुशयी
पुमान्
।
ज्ञानवैराग्यवीर्येण
स्वरूपस्थोऽजहात्प्रभुः
19
▾
Meaning
Keep
अर्चिर्नाम
महाराज्ञी
तत्पत्न्यनुगता
वनम्
।
सुकुमार्यतदर्हा
च
यत्पद्भ्यां
स्पर्शनं
भुवः
20
▾
Meaning
Keep
अतीव
भर्तुर्व्रतधर्मनिष्ठया
शुश्रूषया
चार्षदेहयात्रया
।
नाविन्दतार्तिं
परिकर्शितापि
सा
प्रेयस्करस्पर्शनमाननिर्वृतिः
21
▾
Meaning
Keep
देहं
विपन्नाखिलचेतनादिकं
पत्युः
पृथिव्या
दयितस्य
चात्मनः
।
आलक्ष्य
किञ्चिच्च
विलप्य
सा
सती
चितामथारोपयदद्रिसानुनि
22
▾
Meaning
Keep
विधाय
कृत्यं
ह्रदिनीजलाप्लुता
दत्त्वोदकं
भर्तुरुदारकर्मणः
।
नत्वा
दिविस्थांस्त्रिदशांस्त्रिः
परीत्य
विवेश
वह्निं
ध्यायती
भर्तृपादौ
23
▾
Meaning
Keep
विलोक्यानुगतां
साध्वीं
पृथुं
वीरवरं
पतिम्
।
तुष्टुवुर्वरदा
देवैर्देवपत्न्यः
सहस्रशः
24
▾
Meaning
Keep
कुर्वत्यः
कुसुमासारं
तस्मिन्
मन्दरसानुनि
।
नदत्स्वमरतूर्येषु
गृणन्ति
स्म
परस्परम्
25
▾
Meaning
Keep
अहो
इयं
वधूर्धन्या
या
चैवं
भूभुजां
पतिम्
।
सर्वात्मना
पतिं
भेजे
यज्ञेशं
श्रीर्वधूरिव
26
▾
Meaning
Keep
सैषा
नूनं
व्रजत्यूर्ध्वमनु
वैन्यं
पतिं
सती
।
पश्यतास्मानतीत्यार्चिर्दुर्विभाव्येन
कर्मणा
27
▾
Meaning
Keep
तेषां
दुरापं
किं
त्वन्यन्मर्त्यानां
भगवत्पदम्
।
भुवि
लोलायुषो
ये
वै
नैष्कर्म्यं
साधयन्त्युत
28
▾
Meaning
Keep
स
वञ्चितो
बतात्मध्रुक्
कृच्छ्रेण
महता
भुवि
।
लब्ध्वापवर्ग्यं
मानुष्यं
विषयेषु
विषज्जते
29
▾
Meaning
Keep
स्तुवतीष्वमरस्त्रीषु
पतिलोकं
गता
वधूः
।
यं
वा
आत्मविदां
धुर्यो
वैन्यः
प्रापाच्युताश्रयः
30
▾
Meaning
Keep
इत्थम्भूतानुभावोऽसौ
पृथुः
स
भगवत्तमः
।
कीर्तितं
तस्य
चरितमुद्दामचरितस्य
ते
31
▾
Meaning
Keep
य
इदं
सुमहत्पुण्यं
श्रद्धयावहितः
पठेत्
।
श्रावयेच्छृणुयाद्वापि
स
पृथोः
पदवीमियात्
32
▾
Meaning
Keep
ब्राह्मणो
ब्रह्मवर्चस्वी
राजन्यो
जगतीपतिः
।
वैश्यः
पठन्
विट्पतिः
स्याच्छूद्रः
सत्तमतामियात्
33
▾
Meaning
Keep
त्रिःकृत्व
इदमाकर्ण्य
नरो
नार्यथवाऽऽदृता
।
अप्रजः
सुप्रजतमो
निर्धनो
धनवत्तमः
34
▾
Meaning
Keep
अस्पष्टकीर्तिः
सुयशा
मूर्खो
भवति
पण्डितः
।
इदं
स्वस्त्ययनं
पुंसाममङ्गल्यनिवारणम्
35
▾
Meaning
Keep
धन्यं
यशस्यमायुष्यं
स्वर्ग्यं
कलिमलापहम्
।
धर्मार्थकाममोक्षाणां
सम्यक्
सिद्धिमभीप्सुभिः
।
श्रद्धयैतदनुश्राव्यं
चतुर्णां
कारणं
परम्
36
▾
Meaning
Keep
विजयाभिमुखो
राजा
श्रुत्वैतदभियाति
यान्
।
बलिं
तस्मै
हरन्त्यग्रे
राजानः
पृथवे
यथा
37
▾
Meaning
Keep
मुक्तान्यसङ्गो
भगवत्यमलां
भक्तिमुद्वहन्
।
वैन्यस्य
चरितं
पुण्यं
शृणुयाच्छ्रावयेत्पठेत्
38
▾
Meaning
Keep
वैचित्रवीर्याभिहितं
महन्माहात्म्यसूचकम्
।
अस्मिन्
कृतमतिमर्त्यः
पार्थवीं
गतिमाप्नुयात्
39
▾
Meaning
Keep
अनुदिनमिदमादरेण
शृण्वन्
पृथुचरितं
प्रथयन्
विमुक्तसङ्गः
।
भगवति
भवसिन्धुपोतपादे
स
च
निपुणां
लभते
रतिं
मनुष्यः
Previous
←
The Four Sages Come to Prthu
Next
The Song Siva Taught the Pracetases
→