Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Four Sages Come to Prthu
Śrīmad Bhāgavatam
›
Canto 4
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
जनेषु
प्रगृणत्स्वेवं
पृथुं
पृथुलविक्रमम्
।
तत्रोपजग्मुर्मुनयश्चत्वारः
सूर्यवर्चसः
2
▾
Meaning
Keep
तांस्तु
सिद्धेश्वरान्
राजा
व्योम्नोऽवतरतोऽर्चिषा
।
लोकानपापान्
कुर्वत्या
सानुगोऽचष्ट
लक्षितान्
3
▾
Meaning
Keep
तद्दर्शनोद्गतान्
प्राणान्
प्रत्यादित्सुरिवोत्थितः
।
ससदस्यानुगो
वैन्य
इन्द्रियेशो
गुणानिव
4
▾
Meaning
Keep
गौरवाद्यन्त्रितः
सभ्यः
प्रश्रयानतकन्धरः
।
विधिवत्पूजयाञ्चक्रे
गृहीताध्यर्हणासनान्
5
▾
Meaning
Keep
तत्पादशौचसलिलैर्मार्जितालकबन्धनः
।
तत्र
शीलवतां
वृत्तमाचरन्
मानयन्निव
6
▾
Meaning
Keep
हाटकासन
आसीनान्
स्वधिष्ण्येष्विव
पावकान्
।
श्रद्धासंयमसंयुक्तः
प्रीतः
प्राह
भवाग्रजान्
7
▾
Meaning
Keep
अहो
आचरितं
किं
मे
मङ्गलं
मङ्गलायनाः
।
यस्य
वो
दर्शनं
ह्यासीद्दुर्दर्शानां
च
योगिभिः
8
▾
Meaning
Keep
किं
तस्य
दुर्लभतरमिह
लोके
परत्र
च
।
यस्य
विप्राः
प्रसीदन्ति
शिवो
विष्णुश्च
सानुगः
9
▾
Meaning
Keep
नैव
लक्षयते
लोको
लोकान्
पर्यटतोऽपि
यान्
।
यथा
सर्वदृशं
सर्व
आत्मानं
येऽस्य
हेतवः
10
▾
Meaning
Keep
अधना
अपि
ते
धन्याः
साधवो
गृहमेधिनः
।
यद्गृहा
ह्यर्हवर्याम्बुतृणभूमीश्वरावराः
11
▾
Meaning
Keep
व्यालालयद्रुमा
वै
तेऽप्यरिक्ताखिलसम्पदः
।
यद्गृहास्तीर्थपादीयपादतीर्थविवर्जिताः
12
▾
Meaning
Keep
स्वागतं
वो
द्विजश्रेष्ठा
यद्व्रतानि
मुमुक्षवः
।
चरन्ति
श्रद्धया
धीरा
बाला
एव
बृहन्ति
च
13
▾
Meaning
Keep
कच्चिन्नः
कुशलं
नाथा
इन्द्रियार्थार्थवेदिनाम्
।
व्यसनावाप
एतस्मिन्
पतितानां
स्वकर्मभिः
14
▾
Meaning
Keep
भवत्सु
कुशलप्रश्न
आत्मारामेषु
नेष्यते
।
कुशलाकुशला
यत्र
न
सन्ति
मतिवृत्तयः
15
▾
Meaning
Keep
तदहं
कृतविश्रम्भः
सुहृदो
वस्तपस्विनाम्
।
सम्पृच्छे
भव
एतस्मिन्
क्षेमः
केनाञ्जसा
भवेत्
16
▾
Meaning
Keep
व्यक्तमात्मवतामात्मा
भगवानात्मभावनः
।
स्वानामनुग्रहायेमां
सिद्धरूपी
चरत्यजः
17
▾
Meaning
Keep
पृथोस्तत्सूक्तमाकर्ण्य
सारं
सुष्ठु
मितं
मधु
।
स्मयमान
इव
प्रीत्या
कुमारः
प्रत्युवाच
ह
18
▾
Meaning
Keep
साधु
पृष्टं
महाराज
सर्वभूतहितात्मना
।
भवता
विदुषा
चापि
साधूनां
मतिरीदृशी
19
▾
Meaning
Keep
सङ्गमः
खलु
साधूनामुभयेषां
च
सम्मतः
।
यत्सम्भाषणसम्प्रश्नः
सर्वेषां
वितनोति
शम्
20
▾
Meaning
Keep
अस्त्येव
राजन्
भवतो
मधुद्विषः
पादारविन्दस्य
गुणानुवादने
।
रतिर्दुरापा
विधुनोति
नैष्ठिकी
कामं
कषायं
मलमन्तरात्मनः
21
▾
Meaning
Keep
शास्त्रेष्वियानेव
सुनिश्चितो
नृणां
क्षेमस्य
सध्र्यग्
विमृशेषु
हेतुः
।
असङ्ग
आत्मव्यतिरिक्त
आत्मनि
दृढा
रतिर्ब्रह्मणि
निर्गुणे
च
या
22
▾
Meaning
Keep
सा
श्रद्धया
भगवद्धर्मचर्यया
जिज्ञासयाऽऽध्यात्मिकयोगनिष्ठया
।
योगेश्वरोपासनया
च
नित्यं
पुण्यश्रवः
कथया
पुण्यया
च
23
▾
Meaning
Keep
अर्थेन्द्रियारामसगोष्ठ्यतृष्णया
तत्सम्मतानामपरिग्रहेण
च
।
विविक्तरुच्या
परितोष
आत्मनि
विना
हरेर्गुणपीयूषपानात्
24
▾
Meaning
Keep
अहिंसया
पारमहंस्यचर्यया
स्मृत्या
मुकुन्दाचरिताग्र्यसीधुना
।
यमैरकामैर्नियमैश्चाप्यनिन्दया
निरीहया
द्वन्द्वतितिक्षया
च
25
▾
Meaning
Keep
हरेर्मुहुस्तत्परकर्णपूर-
गुणाभिधानेन
विजृम्भमाणया
।
भक्त्या
ह्यसङ्गः
सदसत्यनात्मनि
स्यान्निर्गुणे
ब्रह्मणि
चाञ्जसा
रतिः
26
▾
Meaning
Keep
यदा
रतिर्ब्रह्मणि
नैष्ठिकी
पुमा-
नाचार्यवान्
ज्ञानविरागरंहसा
।
दहत्यवीर्यं
हृदयं
जीवकोशं
पञ्चात्मकं
योनिमिवोत्थितोऽग्निः
27
▾
Meaning
Keep
दग्धाशयो
मुक्तसमस्ततद्गुणो
नैवात्मनो
बहिरन्तर्विचष्टे
।
परात्मनोर्यद्व्यवधानं
पुरस्तात्
स्वप्ने
यथा
पुरुषस्तद्विनाशे
28
▾
Meaning
Keep
आत्मानमिन्द्रियार्थं
च
परं
यदुभयोरपि
।
सत्याशय
उपाधौ
वै
पुमान्
पश्यति
नान्यदा
29
▾
Meaning
Keep
निमित्ते
सति
सर्वत्र
जलादावपि
पूरुषः
।
आत्मनश्च
परस्यापि
भिदां
पश्यति
नान्यदा
30
▾
Meaning
Keep
इन्द्रियैर्विषयाकृष्टैराक्षिप्तं
ध्यायतां
मनः
।
चेतनां
हरते
बुद्धेः
स्तम्बस्तोयमिव
ह्रदात्
31
▾
Meaning
Keep
भ्रश्यत्यनुस्मृतिश्चित्तं
ज्ञानभ्रंशः
स्मृतिक्षये
।
तद्रोधं
कवयः
प्राहुरात्मापह्नवमात्मनः
32
▾
Meaning
Keep
नातः
परतरो
लोके
पुंसः
स्वार्थव्यतिक्रमः
।
यदध्यन्यस्य
प्रेयस्त्वमात्मनः
स्वव्यतिक्रमात्
33
▾
Meaning
Keep
अर्थेन्द्रियार्थाभिध्यानं
सर्वार्थापह्नवो
नृणाम्
।
भ्रंशितो
ज्ञानविज्ञानाद्येनाविशति
मुख्यताम्
34
▾
Meaning
Keep
न
कुर्यात्कर्हिचित्सङ्गं
तमस्तीव्रं
तितीरिषुः
।
धर्मार्थकाममोक्षाणां
यदत्यन्तविघातकम्
35
▾
Meaning
Keep
तत्रापि
मोक्ष
एवार्थ
आत्यन्तिकतयेष्यते
।
त्रैवर्ग्योऽर्थो
यतो
नित्यं
कृतान्तभयसंयुतः
36
▾
Meaning
Keep
परेऽवरे
च
ये
भावा
गुणव्यतिकरादनु
।
न
तेषां
विद्यते
क्षेममीश
विध्वंसिताशिषाम्
37
▾
Meaning
Keep
तत्त्वं
नरेन्द्र
जगतामथ
तस्थुषां
च
देहेन्द्रियासुधिषणात्मभिरावृतानाम्
।
यः
क्षेत्रवित्तपतया
हृदि
विश्वगाविः
प्रत्यक्
चकास्ति
भगवांस्तमवेहि
सोऽस्मि
38
▾
Meaning
Keep
यस्मिन्निदं
सदसदात्मतया
विभाति
मायाविवेकविधुति
स्रजि
वाहिबुद्धिः
।
तं
नित्यमुक्तपरिशुद्धविबुद्धतत्त्वं
प्रत्यूढकर्मकलिलप्रकृतिं
प्रपद्ये
39
▾
Meaning
Keep
यत्पादपङ्कजपलाशविलासभक्त्या
कर्माशयं
ग्रथितमुद्ग्रथयन्ति
सन्तः
।
तद्वन्न
रिक्तमतयो
यतयोऽपि
रुद्ध-
स्रोतोगणास्तमरणं
भज
वासुदेवम्
40
▾
Meaning
Keep
कृच्छ्रो
महानिह
भवार्णवमप्लवेशां
षड्वर्गनक्रमसुखेन
तितीर्षन्ति
।
तत्त्वं
हरेर्भगवतो
भजनीयमङ्घ्रिं
कृत्वोडुपं
व्यसनमुत्तर
दुस्तरार्णम्
41
▾
Meaning
Keep
स
एवं
ब्रह्मपुत्रेण
कुमारेणात्ममेधसा
।
दर्शितात्मगतिः
सम्यक्
प्रशस्योवाच
तं
नृपः
42
▾
Meaning
Keep
कृतो
मेऽनुग्रहः
पूर्वं
हरिणाऽऽर्तानुकम्पिना
।
तमापादयितुं
ब्रह्मन्
भगवन्
यूयमागताः
43
▾
Meaning
Keep
निष्पादितश्च
कार्त्स्न्येन
भगवद्भिर्घृणालुभिः
।
साधूच्छिष्टं
हि
मे
सर्वमात्मना
सह
किं
ददे
44
▾
Meaning
Keep
प्राणा
दाराः
सुता
ब्रह्मन्
गृहाश्च
सपरिच्छदाः
।
राज्यं
बलं
मही
कोश
इति
सर्वं
निवेदितम्
45
▾
Meaning
Keep
सैनापत्यं
च
राज्यं
च
दण्डनेतृत्वमेव
च
।
सर्वलोकाधिपत्यं
च
वेदशास्त्रविदर्हति
46
▾
Meaning
Keep
स्वमेव
ब्राह्मणो
भुङ्क्ते
स्वं
वस्ते
स्वं
ददाति
च
।
तस्यैवानुग्रहेणान्नं
भुञ्जते
क्षत्रियादयः
47
▾
Meaning
Keep
यैरीदृशी
भगवतो
गतिरात्मवादे
एकान्ततो
निगमिभिः
प्रतिपादिता
नः
।
तुष्यन्त्वदभ्रकरुणाः
स्वकृतेन
नित्यं
को
नाम
तत्प्रतिकरोति
विनोदपात्रम्
48
▾
Meaning
Keep
त
आत्मयोगपतय
आदिराजेन
पूजिताः
।
शीलं
तदीयं
शंसन्तः
खेऽभूवन्
मिषतां
नृणाम्
49
▾
Meaning
Keep
वैन्यस्तु
धुर्यो
महतां
संस्थित्याध्यात्मशिक्षया
।
आप्तकाममिवात्मानं
मेन
आत्मन्यवस्थितः
50
▾
Meaning
Keep
कर्माणि
च
यथाकालं
यथादेशं
यथाबलम्
।
यथोचितं
यथावित्तमकरोद्ब्रह्मसात्कृतम्
51
▾
Meaning
Keep
फलं
ब्रह्मणि
विन्यस्य
निर्विषङ्गः
समाहितः
।
कर्माध्यक्षं
च
मन्वान
आत्मानं
प्रकृतेः
परम्
52
▾
Meaning
Keep
गृहेषु
वर्तमानोऽपि
स
साम्राज्यश्रियान्वितः
।
नासज्जतेन्द्रियार्थेषु
निरहंमतिरर्कवत्
53
▾
Meaning
Keep
एवमध्यात्मयोगेन
कर्माण्यनुसमाचरन्
।
पुत्रानुत्पादयामास
पञ्चार्चिष्यात्मसम्मतान्
54
▾
Meaning
Keep
विजिताश्वं
धूम्रकेशं
हर्यक्षं
द्रविणं
वृकम्
।
सर्वेषां
लोकपालानां
दधारैकः
पृथुर्गुणान्
55
▾
Meaning
Keep
गोपीथाय
जगत्सृष्टेः
काले
स्वे
स्वेऽच्युतात्मकः
।
मनोवाग्वृत्तिभिः
सौम्यैर्गुणैः
संरञ्जयन्
प्रजाः
56
▾
Meaning
Keep
राजेत्यधान्नामधेयं
सोमराज
इवापरः
।
सूर्यवद्विसृजन्
गृह्णन्
प्रतपंश्च
भुवो
वसु
57
▾
Meaning
Keep
दुर्धर्षस्तेजसेवाग्निर्महेन्द्र
इव
दुर्जयः
।
तितिक्षया
धरित्रीव
द्यौरिवाभीष्टदो
नृणाम्
58
▾
Meaning
Keep
वर्षति
स्म
यथाकामं
पर्जन्य
इव
तर्पयन्
।
समुद्र
इव
दुर्बोधः
सत्त्वेनाचलराडिव
59
▾
Meaning
Keep
धर्मराडिव
शिक्षायामाश्चर्ये
हिमवानिव
।
कुवेर
इव
कोशाढ्यो
गुप्तार्थो
वरुणो
यथा
60
▾
Meaning
Keep
मातरिश्वेव
सर्वात्मा
बलेन
महसौजसा
।
अविषह्यतया
देवो
भगवान्
भूतराडिव
61
▾
Meaning
Keep
कन्दर्प
इव
सौन्दर्ये
मनस्वी
मृगराडिव
।
वात्सल्ये
मनुवन्नृणां
प्रभुत्वे
भगवानजः
62
▾
Meaning
Keep
बृहस्पतिर्ब्रह्मवादे
आत्मवत्त्वे
स्वयं
हरिः
।
भक्त्या
गोगुरुविप्रेषु
विष्वक्सेनानुवर्तिषु
।
ह्रिया
प्रश्रयशीलाभ्यामात्मतुल्यः
परोद्यमे
63
▾
Meaning
Keep
कीर्त्योर्ध्वगीतया
पुम्भिस्त्रैलोक्ये
तत्र
तत्र
ह
।
प्रविष्टः
कर्णरन्ध्रेषु
स्त्रीणां
रामः
सतामिव
Previous
←
Prthu Speaks to the Assembly
Next
Prthu Goes to the Forest
→