Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Narada Begins the Story of Puranjana
Śrīmad Bhāgavatam
›
Canto 4
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
इति
संदिश्य
भगवान्
बार्हिषदैरभिपूजितः
।
पश्यतां
राजपुत्राणां
तत्रैवान्तर्दधे
हरः
2
▾
Meaning
Keep
रुद्रगीतं
भगवतः
स्तोत्रं
सर्वे
प्रचेतसः
।
जपन्तस्ते
तपस्तेपुर्वर्षाणामयुतं
जले
3
▾
Meaning
Keep
प्राचीनबर्हिषं
क्षत्तः
कर्मस्वासक्तमानसम्
।
नारदोऽध्यात्मतत्त्वज्ञः
कृपालुः
प्रत्यबोधयत्
4
▾
Meaning
Keep
श्रेयस्त्वं
कतमद्राजन्
कर्मणाऽऽत्मन
ईहसे
।
दुःखहानिः
सुखावाप्तिः
श्रेयस्तन्नेह
चेष्यते
5
▾
Meaning
Keep
न
जानामि
महाभाग
परं
कर्मापविद्धधीः
।
ब्रूहि
मे
विमलं
ज्ञानं
येन
मुच्येय
कर्मभिः
6
▾
Meaning
Keep
गृहेषु
कूटधर्मेषु
पुत्रदारधनार्थधीः
।
न
परं
विन्दते
मूढो
भ्राम्यन्
संसारवर्त्मसु
7
▾
Meaning
Keep
भो
भोः
प्रजापते
राजन्
पशून्
पश्य
त्वयाध्वरे
।
संज्ञापिताञ्जीवसङ्घान्
निर्घृणेन
सहस्रशः
8
▾
Meaning
Keep
एते
त्वां
सम्प्रतीक्षन्ते
स्मरन्तो
वैशसं
तव
।
सम्परेतमयःकूटैश्छिन्दन्त्युत्थितमन्यवः
9
▾
Meaning
Keep
अत्र
ते
कथयिष्येऽमुमितिहासं
पुरातनम्
।
पुरञ्जनस्य
चरितं
निबोध
गदतो
मम
10
▾
Meaning
Keep
आसीत्पुरञ्जनो
नाम
राजा
राजन्
बृहच्छ्रवाः
।
तस्याविज्ञातनामाऽऽसीत्सखाविज्ञातचेष्टितः
11
▾
Meaning
Keep
सोऽन्वेषमाणः
शरणं
बभ्राम
पृथिवीं
प्रभुः
।
नानुरूपं
यदाविन्ददभूत्स
विमना
इव
12
▾
Meaning
Keep
न
साधु
मेने
ताः
सर्वा
भूतले
यावतीः
पुरः
।
कामान्
कामयमानोऽसौ
तस्य
तस्योपपत्तये
13
▾
Meaning
Keep
स
एकदा
हिमवतो
दक्षिणेष्वथ
सानुषु
।
ददर्श
नवभिर्द्वार्भिः
पुरं
लक्षितलक्षणाम्
14
▾
Meaning
Keep
प्राकारोपवनाट्टालपरिखैरक्षतोरणैः
।
स्वर्णरौप्यायसैः
शृङ्गैः
सङ्कुलां
सर्वतो
गृहैः
15
▾
Meaning
Keep
नीलस्फटिकवैदूर्यमुक्तामरकतारुणैः
।
कॢप्तहर्म्यस्थलीं
दीप्तां
श्रिया
भोगवतीमिव
16
▾
Meaning
Keep
सभाचत्वररथ्याभिराक्रीडायतनापणैः
।
चैत्यध्वजपताकाभिर्युक्तां
विद्रुमवेदिभिः
17
▾
Meaning
Keep
पुर्यास्तु
बाह्योपवने
दिव्यद्रुमलताकुले
।
नदद्विहङ्गालिकुलकोलाहलजलाशये
18
▾
Meaning
Keep
हिमनिर्झरविप्रुष्मत्कुसुमाकरवायुना
।
चलत्प्रवालविटपनलिनीतटसम्पदि
19
▾
Meaning
Keep
नानारण्यमृगव्रातैरनाबाधे
मुनिव्रतैः
।
आहूतं
मन्यते
पान्थो
यत्र
कोकिलकूजितैः
20
▾
Meaning
Keep
यदृच्छयाऽऽगतां
तत्र
ददर्श
प्रमदोत्तमाम्
।
भृत्यैर्दशभिरायान्तीमेकैकशतनायकैः
21
▾
Meaning
Keep
पञ्चशीर्षाहिना
गुप्तां
प्रतीहारेण
सर्वतः
।
अन्वेषमाणामृषभमप्रौढां
कामरूपिणीम्
22
▾
Meaning
Keep
सुनासां
सुदतीं
बालां
सुकपोलां
वराननाम्
।
समविन्यस्तकर्णाभ्यां
बिभ्रतीं
कुण्डलश्रियम्
23
▾
Meaning
Keep
पिशङ्गनीवीं
सुश्रोणीं
श्यामां
कनकमेखलाम्
।
पद्भ्यां
क्वणद्भ्यां
चलन्तीं
नूपुरैर्देवतामिव
24
▾
Meaning
Keep
स्तनौ
व्यञ्जितकैशोरौ
समवृत्तौ
निरन्तरौ
।
वस्त्रान्तेन
निगूहन्तीं
व्रीडया
गजगामिनीम्
25
▾
Meaning
Keep
तामाह
ललितं
वीरः
सव्रीडस्मितशोभनाम्
।
स्निग्धेनापाङ्गपुङ्खेन
स्पृष्टः
प्रेमोद्भ्रमद्भ्रुवा
26
▾
Meaning
Keep
का
त्वं
कञ्जपलाशाक्षि
कस्यासीह
कुतः
सति
।
इमामुप
पुरीं
भीरु
किं
चिकीर्षसि
शंस
मे
27
▾
Meaning
Keep
क
एतेऽनुपथा
ये
त
एकादश
महाभटाः
।
एता
वा
ललनाः
सुभ्रु
कोऽयं
तेऽहिः
पुरःसरः
28
▾
Meaning
Keep
त्वं
ह्रीर्भवान्यस्यथवाग्रमा
पतिं
विचिन्वती
किं
मुनिवद्रहो
वने
।
त्वदङ्घ्रिकामाप्तसमस्तकामं
क्व
पद्मकोशः
पतितः
कराग्रात्
29
▾
Meaning
Keep
नासां
वरोर्वन्यतमा
भुविस्पृक्
पुरीमिमां
वीरवरेण
साकम्
।
अर्हस्यलंकर्तुमदभ्रकर्मणा
लोकं
परं
श्रीरिव
यज्ञपुंसा
30
▾
Meaning
Keep
यदेष
मापाङ्गविखण्डितेन्द्रियं
सव्रीडभावस्मितविभ्रमद्भ्रुवा
।
त्वयोपसृष्टो
भगवान्
मनोभवः
प्रबाधतेऽथानुगृहाण
शोभने
31
▾
Meaning
Keep
त्वदाननं
सुभ्रु
सुतारलोचनं
व्यालम्बि
नीलालकवृन्दसंवृतम्
।
उन्नीय
मे
दर्शय
वल्गु
वाचकं
यद्व्रीडया
नाभिमुखं
शुचिस्मिते
32
▾
Meaning
Keep
इत्थं
पुरञ्जनं
नारी
याचमानमधीरवत्
।
अभ्यनन्दत
तं
वीरं
हसन्ती
वीरमोहिता
33
▾
Meaning
Keep
न
विदाम
वयं
सम्यक्कर्तारं
पुरुषर्षभ
।
आत्मनश्च
परस्यापि
गोत्रं
नाम
च
यत्कृतम्
34
▾
Meaning
Keep
इहाद्य
सन्तमात्मानं
विदाम
न
ततः
परम्
।
येनेयं
निर्मिता
वीर
पुरी
शरणमात्मनः
35
▾
Meaning
Keep
एते
सखायः
सख्यो
मे
नरा
नार्यश्च
मानद
।
सुप्तायां
मयि
जागर्ति
नागोऽयं
पालयन्
पुरीम्
36
▾
Meaning
Keep
दिष्ट्याऽऽगतोऽसि
भद्रं
ते
ग्राम्यान्
कामानभीप्ससे
।
उद्वहिष्यामि
तांस्तेऽहं
स्वबन्धुभिररिन्दम
37
▾
Meaning
Keep
इमां
त्वमधितिष्ठस्व
पुरीं
नवमुखीं
विभो
।
मयोपनीतान्
गृह्णानः
कामभोगान्
शतं
समाः
38
▾
Meaning
Keep
कं
नु
त्वदन्यं
रमये
ह्यरतिज्ञमकोविदम्
।
असम्परायाभिमुखमश्वस्तनविदं
पशुम्
39
▾
Meaning
Keep
धर्मो
ह्यत्रार्थकामौ
च
प्रजानन्दोऽमृतं
यशः
।
लोका
विशोका
विरजा
यान्न
केवलिनो
विदुः
40
▾
Meaning
Keep
पितृदेवर्षिमर्त्यानां
भूतानामात्मनश्च
ह
।
क्षेम्यं
वदन्ति
शरणं
भवेऽस्मिन्
यद्गृहाश्रमः
41
▾
Meaning
Keep
का
नाम
वीर
विख्यातं
वदान्यं
प्रियदर्शनम्
।
न
वृणीत
प्रियं
प्राप्तं
मादृशी
त्वादृशं
पतिम्
42
▾
Meaning
Keep
कस्या
मनस्ते
भुवि
भोगिभोगयोः
स्त्रिया
न
सज्जेद्भुजयोर्महाभुज
।
योऽनाथवर्गाधिमलं
घृणोद्धत-
स्मितावलोकेन
चरत्यपोहितुम्
43
▾
Meaning
Keep
इति
तौ
दम्पती
तत्र
समुद्य
समयं
मिथः
।
तां
प्रविश्य
पुरीं
राजन्
मुमुदाते
शतं
समाः
44
▾
Meaning
Keep
उपगीयमानो
ललितं
तत्र
तत्र
च
गायकैः
।
क्रीडन्
परिवृतः
स्त्रीभिर्ह्रदिनीमाविशच्छुचौ
45
▾
Meaning
Keep
सप्तोपरि
कृता
द्वारः
पुरस्तस्यास्तु
द्वे
अधः
।
पृथग्विषयगत्यर्थं
तस्यां
यः
कश्चनेश्वरः
46
▾
Meaning
Keep
पञ्चद्वारस्तु
पौरस्त्या
दक्षिणैका
तथोत्तरा
।
पश्चिमे
द्वे
अमूषां
ते
नामानि
नृप
वर्णये
47
▾
Meaning
Keep
खद्योताऽऽविर्मुखी
च
प्राग्द्वारावेकत्र
निर्मिते
।
विभ्राजितं
जनपदं
याति
ताभ्यां
द्युमत्सखः
48
▾
Meaning
Keep
नलिनी
नालिनी
च
प्राग्द्वारावेकत्र
निर्मिते
।
अवधूतसखस्ताभ्यां
विषयं
याति
सौरभम्
49
▾
Meaning
Keep
मुख्या
नाम
पुरस्ताद्द्वास्तयाऽऽपणबहूदनौ
।
विषयौ
याति
पुरराड्रसज्ञविपणान्वितः
50
▾
Meaning
Keep
पितृहूर्नृप
पुर्या
द्वार्दक्षिणेन
पुरञ्जनः
।
राष्ट्रं
दक्षिणपञ्चालं
याति
श्रुतधरान्वितः
51
▾
Meaning
Keep
देवहूर्नाम
पुर्या
द्वा
उत्तरेण
पुरञ्जनः
।
राष्ट्रमुत्तरपञ्चालं
याति
श्रुतधरान्वितः
52
▾
Meaning
Keep
आसुरी
नाम
पश्चाद्द्वास्तया
याति
पुरञ्जनः
।
ग्रामकं
नाम
विषयं
दुर्मदेन
समन्वितः
53
▾
Meaning
Keep
निरृतिर्नाम
पश्चाद्द्वास्तया
याति
पुरञ्जनः
।
वैशसं
नाम
विषयं
लुब्धकेन
समन्वितः
54
▾
Meaning
Keep
अन्धावमीषां
पौराणां
निर्वाक्पेशस्कृतावुभौ
।
अक्षण्वतामधिपतिस्ताभ्यां
याति
करोति
च
55
▾
Meaning
Keep
स
यर्ह्यन्तःपुरगतो
विषूचीनसमन्वितः
।
मोहं
प्रसादं
हर्षं
वा
याति
जायात्मजोद्भवम्
56
▾
Meaning
Keep
एवं
कर्मसु
संसक्तः
कामात्मा
वञ्चितोऽबुधः
।
महिषी
यद्यदीहेत
तत्तदेवान्ववर्तत
57
▾
Meaning
Keep
क्वचित्पिबन्त्यां
पिबति
मदिरां
मदविह्वलः
।
अश्नन्त्यां
क्वचिदश्नाति
जक्षत्यां
सह
जक्षिति
58
▾
Meaning
Keep
क्वचिद्गायति
गायन्त्यां
रुदत्यां
रुदति
क्वचित्
।
क्वचिद्धसन्त्यां
हसति
जल्पन्त्यामनु
जल्पति
59
▾
Meaning
Keep
क्वचिद्धावति
धावन्त्यां
तिष्ठन्त्यामनु
तिष्ठति
।
अनु
शेते
शयानायामन्वास्ते
क्वचिदासतीम्
60
▾
Meaning
Keep
क्वचिच्छृणोति
शृण्वन्त्यां
पश्यन्त्यामनु
पश्यति
।
क्वचिज्जिघ्रति
जिघ्रन्त्यां
स्पृशन्त्यां
स्पृशति
क्वचित्
61
▾
Meaning
Keep
क्वचिच्च
शोचतीं
जायामनु
शोचति
दीनवत्
।
अनु
हृष्यति
हृष्यन्त्यां
मुदितामनु
मोदते
62
▾
Meaning
Keep
विप्रलब्धो
महिष्यैवं
सर्वप्रकृतिवञ्चितः
।
नेच्छन्ननुकरोत्यज्ञः
क्लैब्यात्क्रीडामृगो
यथा
Previous
←
The Song Siva Taught the Pracetases
Next
Puranjana Goes Hunting
→