Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Puranjana Goes Hunting
Śrīmad Bhāgavatam
›
Canto 4
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
स
एकदा
महेष्वासो
रथं
पञ्चाश्वमाशुगम्
।
द्वीषं
द्विचक्रमेकाक्षं
त्रिवेणुं
पञ्चबन्धुरम्
2
▾
Meaning
Keep
एकरश्म्येकदमनमेकनीडं
द्विकूबरम्
।
पञ्चप्रहरणं
सप्तवरूथं
पञ्चविक्रमम्
3
▾
Meaning
Keep
हैमोपस्करमारुह्य
स्वर्णवर्माक्षयेषुधिः
।
एकादशचमूनाथः
पञ्चप्रस्थमगाद्वनम्
4
▾
Meaning
Keep
चचार
मृगयां
तत्र
दृप्त
आत्तेषुकार्मुकः
।
विहाय
जायामतदर्हां
मृगव्यसनलालसः
5
▾
Meaning
Keep
आसुरीं
वृत्तिमाश्रित्य
घोरात्मा
निरनुग्रहः
।
न्यहनन्निशितैर्बाणैर्वनेषु
वनगोचरान्
6
▾
Meaning
Keep
तीर्थेषु
प्रतिदृष्टेषु
राजा
मेध्यान्
पशून्
वने
।
यावदर्थमलं
लुब्धो
हन्यादिति
नियम्यते
7
▾
Meaning
Keep
य
एवं
कर्म
नियतं
विद्वान्
कुर्वीत
मानवः
।
कर्मणा
तेन
राजेन्द्र
ज्ञानेन
न
स
लिप्यते
8
▾
Meaning
Keep
अन्यथा
कर्म
कुर्वाणो
मानारूढो
निबध्यते
।
गुणप्रवाहपतितो
नष्टप्रज्ञो
व्रजत्यधः
9
▾
Meaning
Keep
तत्र
निर्भिन्नगात्राणां
चित्रवाजैः
शिलीमुखैः
।
विप्लवोऽभूद्दुःखितानां
दुःसहः
करुणात्मनाम्
10
▾
Meaning
Keep
शशान्
वराहान्
महिषान्
गवयान्
रुरुशल्यकान्
।
मेध्यानन्यांश्च
विविधान्
विनिघ्नन्
श्रममध्यगात्
11
▾
Meaning
Keep
ततः
क्षुत्तृट्परिश्रान्तो
निवृत्तो
गृहमेयिवान्
।
कृतस्नानोचिताहारः
संविवेश
गतक्लमः
12
▾
Meaning
Keep
आत्मानमर्हयाञ्चक्रे
धूपालेपस्रगादिभिः
।
साध्वलङ्कृतसर्वाङ्गो
महिष्यामादधे
मनः
13
▾
Meaning
Keep
तृप्तो
हृष्टः
सुदृप्तश्च
कन्दर्पाकृष्टमानसः
।
न
व्यचष्ट
वरारोहां
गृहिणीं
गृहमेधिनीम्
14
▾
Meaning
Keep
अन्तःपुरस्त्रियोऽपृच्छद्विमना
इव
वेदिषत्
।
अपि
वः
कुशलं
रामाः
सेश्वरीणां
यथा
पुरा
15
▾
Meaning
Keep
न
तथैतर्हि
रोचन्ते
गृहेषु
गृहसम्पदः
।
यदि
न
स्याद्गृहे
माता
पत्नी
वा
पतिदेवता
।
व्यङ्गे
रथ
इव
प्राज्ञः
को
नामासीत
दीनवत्
16
▾
Meaning
Keep
क्व
वर्तते
सा
ललना
मज्जन्तं
व्यसनार्णवे
।
या
मामुद्धरते
प्रज्ञां
दीपयन्ती
पदे
पदे
17
▾
Meaning
Keep
नरनाथ
न
जानीमस्त्वत्प्रिया
यद्व्यवस्यति
।
भूतले
निरवस्तारे
शयानां
पश्य
शत्रुहन्
18
▾
Meaning
Keep
पुरञ्जनः
स्वमहिषीं
निरीक्ष्यावधुतां
भुवि
।
तत्सङ्गोन्मथितज्ञानो
वैक्लव्यं
परमं
ययौ
19
▾
Meaning
Keep
सान्त्वयन्
श्लक्ष्णया
वाचा
हृदयेन
विदूयता
।
प्रेयस्याः
स्नेहसंरम्भलिङ्गमात्मनि
नाभ्यगात्
20
▾
Meaning
Keep
अनुनिन्येऽथ
शनकैर्वीरोऽनुनयकोविदः
।
पस्पर्श
पादयुगलमाह
चोत्सङ्गलालिताम्
21
▾
Meaning
Keep
नूनं
त्वकृतपुण्यास्ते
भृत्या
येष्वीश्वराः
शुभे
।
कृतागस्स्वात्मसात्कृत्वा
शिक्षादण्डं
न
युञ्जते
22
▾
Meaning
Keep
परमोऽनुग्रहो
दण्डो
भृत्येषु
प्रभुणार्पितः
।
बालो
न
वेद
तत्तन्वि
बन्धुकृत्यममर्षणः
23
▾
Meaning
Keep
सा
त्वं
मुखं
सुदति
सुभ्र्वनुरागभार-
व्रीडाविलम्बविलसद्धसितावलोकम्
।
नीलालकालिभिरुपस्कृतमुन्नसं
नः
स्वानां
प्रदर्शय
मनस्विनि
वल्गु
वाक्यम्
24
▾
Meaning
Keep
तस्मिन्
दधे
दममहं
तव
वीरपत्नि
योऽन्यत्र
भूसुरकुलात्कृतकिल्बिषस्तम्
।
पश्ये
न
वीतभयमुन्मुदितं
त्रिलोक्या-
मन्यत्र
वै
मुररिपोरितरत्र
दासात्
25
▾
Meaning
Keep
वक्त्रं
न
ते
वितिलकं
मलिनं
विहर्षं
संरम्भभीममविमृष्टमपेतरागम्
।
पश्ये
स्तनावपि
शुचोपहतौ
सुजातौ
बिम्बाधरं
विगतकुङ्कुमपङ्करागम्
26
▾
Meaning
Keep
तन्मे
प्रसीद
सुहृदः
कृतकिल्बिषस्य
स्वैरं
गतस्य
मृगयां
व्यसनातुरस्य
।
का
देवरं
वशगतं
कुसुमास्त्रवेग-
विस्रस्तपौंस्नमुशती
न
भजेत
कृत्ये
Previous
←
Narada Begins the Story of Puranjana
Next
The Years Pass and Time's Daughter Comes
→