Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The City Burns and the Swan Remembers
Śrīmad Bhāgavatam
›
Canto 4
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
सैनिका
भयनाम्नो
ये
बर्हिष्मन्
दिष्टकारिणः
।
प्रज्वारकालकन्याभ्यां
विचेरुरवनीमिमाम्
2
▾
Meaning
Keep
त
एकदा
तु
रभसा
पुरञ्जनपुरीं
नृप
।
रुरुधुर्भौमभोगाढ्यां
जरत्पन्नगपालिताम्
3
▾
Meaning
Keep
कालकन्यापि
बुभुजे
पुरञ्जनपुरं
बलात्
।
ययाभिभूतः
पुरुषः
सद्यो
निःसारतामियात्
4
▾
Meaning
Keep
तयोपभुज्यमानां
वै
यवनाः
सर्वतोदिशम्
।
द्वार्भिः
प्रविश्य
सुभृशं
प्रार्दयन्
सकलां
पुरीम्
5
▾
Meaning
Keep
तस्यां
प्रपीड्यमानायामभिमानी
पुरञ्जनः
।
अवापोरुविधांस्तापान्
कुटुम्बी
ममताकुलः
6
▾
Meaning
Keep
कन्योपगूढो
नष्टश्रीः
कृपणो
विषयात्मकः
।
नष्टप्रज्ञो
हृतैश्वर्यो
गन्धर्वयवनैर्बलात्
7
▾
Meaning
Keep
विशीर्णां
स्वपुरीं
वीक्ष्य
प्रतिकूलाननादृतान्
।
पुत्रान्
पौत्रानुगामात्याञ्जायां
च
गतसौहृदाम्
8
▾
Meaning
Keep
आत्मानं
कन्यया
ग्रस्तं
पञ्चालानरिदूषितान्
।
दुरन्तचिन्तामापन्नो
न
लेभे
तत्प्रतिक्रियाम्
9
▾
Meaning
Keep
कामानभिलषन्
दीनो
यातयामांश्च
कन्यया
।
विगतात्मगतिस्नेहः
पुत्रदारांश्च
लालयन्
10
▾
Meaning
Keep
गन्धर्वयवनाक्रान्तां
कालकन्योपमर्दिताम्
।
हातुं
प्रचक्रमे
राजा
तां
पुरीमनिकामतः
11
▾
Meaning
Keep
भयनाम्नोऽग्रजो
भ्राता
प्रज्वारः
प्रत्युपस्थितः
।
ददाह
तां
पुरीं
कृत्स्नां
भ्रातुः
प्रियचिकीर्षया
12
▾
Meaning
Keep
तस्यां
सन्दह्यमानायां
सपौरः
सपरिच्छदः
।
कौटुम्बिकः
कुटुम्बिन्या
उपातप्यत
सान्वयः
13
▾
Meaning
Keep
यवनोपरुद्धायतनो
ग्रस्तायां
कालकन्यया
।
पुर्यां
प्रज्वारसंसृष्टः
पुरपालोऽन्वतप्यत
14
▾
Meaning
Keep
न
शेके
सोऽवितुं
तत्र
पुरुकृच्छ्रोरुवेपथुः
।
गन्तुमैच्छत्ततो
वृक्षकोटरादिव
सानलात्
15
▾
Meaning
Keep
शिथिलावयवो
यर्हि
गन्धर्वैर्हृतपौरुषः
।
यवनैररिभी
राजन्नुपरुद्धो
रुरोद
ह
16
▾
Meaning
Keep
दुहितॄः
पुत्रपौत्रांश्च
जामिजामातृपार्षदान्
।
स्वत्वावशिष्टं
यत्किञ्चिद्गृहकोशपरिच्छदम्
17
▾
Meaning
Keep
अहं
ममेति
स्वीकृत्य
गृहेषु
कुमतिर्गृही
।
दध्यौ
प्रमदया
दीनो
विप्रयोग
उपस्थिते
18
▾
Meaning
Keep
लोकान्तरं
गतवति
मय्यनाथा
कुटुम्बिनी
।
वर्तिष्यते
कथं
त्वेषा
बालकाननुशोचती
19
▾
Meaning
Keep
न
मय्यनाशिते
भुङ्क्ते
नास्नाते
स्नाति
मत्परा
।
मयि
रुष्टे
सुसंत्रस्ता
भर्त्सिते
यतवाग्भयात्
20
▾
Meaning
Keep
प्रबोधयति
माविज्ञं
व्युषिते
शोककर्शिता
।
वर्त्मैतद्गृहमेधीयं
वीरसूरपि
नेष्यति
21
▾
Meaning
Keep
कथं
नु
दारका
दीना
दारकीर्वापरायणाः
।
वर्तिष्यन्ते
मयि
गते
भिन्ननाव
इवोदधौ
22
▾
Meaning
Keep
एवं
कृपणया
बुद्ध्या
शोचन्तमतदर्हणम्
।
ग्रहीतुं
कृतधीरेनं
भयनामाभ्यपद्यत
23
▾
Meaning
Keep
पशुवद्यवनैरेष
नीयमानः
स्वकं
क्षयम्
।
अन्वद्रवन्ननुपथाः
शोचन्तो
भृशमातुराः
24
▾
Meaning
Keep
पुरीं
विहायोपगत
उपरुद्धो
भुजङ्गमः
।
यदा
तमेवानु
पुरी
विशीर्णा
प्रकृतिं
गता
25
▾
Meaning
Keep
विकृष्यमाणः
प्रसभं
यवनेन
बलीयसा
।
नाविन्दत्तमसाऽऽविष्टः
सखायं
सुहृदं
पुरः
26
▾
Meaning
Keep
तं
यज्ञपशवोऽनेन
संज्ञप्ता
येऽदयालुना
।
कुठारैश्चिच्छिदुः
क्रुद्धाः
स्मरन्तोऽमीवमस्य
तत्
27
▾
Meaning
Keep
अनन्तपारे
तमसि
मग्नो
नष्टस्मृतिः
समाः
।
शाश्वतीरनुभूयार्तिं
प्रमदासङ्गदूषितः
28
▾
Meaning
Keep
तामेव
मनसा
गृह्णन्
बभूव
प्रमदोत्तमा
।
अनन्तरं
विदर्भस्य
राजसिंहस्य
वेश्मनि
29
▾
Meaning
Keep
उपयेमे
वीर्यपणां
वैदर्भीं
मलयध्वजः
।
युधि
निर्जित्य
राजन्यान्
पाण्ड्यः
परपुरञ्जयः
30
▾
Meaning
Keep
तस्यां
स
जनयाञ्चक्र
आत्मजामसितेक्षणाम्
।
यवीयसः
सप्त
सुतान्
सप्त
द्रविडभूभृतः
31
▾
Meaning
Keep
एकैकस्याभवत्तेषां
राजन्नर्बुदमर्बुदम्
।
भोक्ष्यते
यद्वंशधरैर्मही
मन्वन्तरं
परम्
32
▾
Meaning
Keep
अगस्त्यः
प्राग्दुहितरमुपयेमे
धृतव्रताम्
।
यस्यां
दृढच्युतो
जात
इध्मवाहात्मजो
मुनिः
33
▾
Meaning
Keep
विभज्य
तनयेभ्यः
क्ष्मां
राजर्षिर्मलयध्वजः
।
आरिराधयिषुः
कृष्णं
स
जगाम
कुलाचलम्
34
▾
Meaning
Keep
हित्वा
गृहान्
सुतान्
भोगान्
वैदर्भी
मदिरेक्षणा
।
अन्वधावत
पाण्ड्येशं
ज्योत्स्नेव
रजनीकरम्
35
▾
Meaning
Keep
तत्र
चन्द्रवसा
नाम
ताम्रपर्णी
वटोदका
।
तत्पुण्यसलिलैर्नित्यमुभयत्रात्मनो
मृजन्
36
▾
Meaning
Keep
कन्दाष्टिभिर्मूलफलैः
पुष्पपर्णैस्तृणोदकैः
।
वर्तमानः
शनैर्गात्रकर्शनं
तप
आस्थितः
37
▾
Meaning
Keep
शीतोष्णवातवर्षाणि
क्षुत्पिपासे
प्रियाप्रिये
।
सुखदुःखे
इति
द्वन्द्वान्यजयत्समदर्शनः
38
▾
Meaning
Keep
तपसा
विद्यया
पक्वकषायो
नियमैर्यमैः
।
युयुजे
ब्रह्मण्यात्मानं
विजिताक्षानिलाशयः
39
▾
Meaning
Keep
आस्ते
स्थाणुरिवैकत्र
दिव्यं
वर्षशतं
स्थिरः
।
वासुदेवे
भगवति
नान्यद्वेदोद्वहन्
रतिम्
40
▾
Meaning
Keep
स
व्यापकतयाऽऽत्मानं
व्यतिरिक्ततयाऽऽत्मनि
।
विद्वान्
स्वप्न
इवामर्शसाक्षिणं
विरराम
ह
41
▾
Meaning
Keep
साक्षाद्भगवतोक्तेन
गुरुणा
हरिणा
नृप
।
विशुद्धज्ञानदीपेन
स्फुरता
विश्वतोमुखम्
42
▾
Meaning
Keep
परे
ब्रह्मणि
चात्मानं
परं
ब्रह्म
तथाऽऽत्मनि
।
वीक्षमाणो
विहायेक्षामस्मादुपरराम
ह
43
▾
Meaning
Keep
पतिं
परमधर्मज्ञं
वैदर्भी
मलयध्वजम्
।
प्रेम्णा
पर्यचरद्धित्वा
भोगान्
सा
पतिदेवता
44
▾
Meaning
Keep
चीरवासा
व्रतक्षामा
वेणीभूतशिरोरुहा
।
बभावुप
पतिं
शान्ता
शिखा
शान्तमिवानलम्
45
▾
Meaning
Keep
अजानती
प्रियतमं
यदोपरतमङ्गना
।
सुस्थिरासनमासाद्य
यथापूर्वमुपाचरत्
46
▾
Meaning
Keep
यदा
नोपलभेताङ्घ्रावूष्माणं
पत्युरर्चती
।
आसीत्संविग्नहृदया
यूथभ्रष्टा
मृगी
यथा
47
▾
Meaning
Keep
आत्मानं
शोचती
दीनमबन्धुं
विक्लवाश्रुभिः
।
स्तनावासिच्य
विपिने
सुस्वरं
प्ररुरोद
सा
48
▾
Meaning
Keep
उत्तिष्ठोत्तिष्ठ
राजर्षे
इमामुदधिमेखलाम्
।
दस्युभ्यः
क्षत्रबन्धुभ्यो
बिभ्यतीं
पातुमर्हसि
49
▾
Meaning
Keep
एवं
विलपती
बाला
विपिनेऽनुगता
पतिम्
।
पतिता
पादयोर्भर्तू
रुदत्यश्रूण्यवर्तयत्
50
▾
Meaning
Keep
चितिं
दारुमयीं
चित्वा
तस्यां
पत्युः
कलेवरम्
।
आदीप्य
चानुमरणे
विलपन्ती
मनो
दधे
51
▾
Meaning
Keep
तत्र
पूर्वतरः
कश्चित्सखा
ब्राह्मण
आत्मवान्
।
सान्त्वयन्
वल्गुना
साम्ना
तामाह
रुदतीं
प्रभो
52
▾
Meaning
Keep
का
त्वं
कस्यासि
को
वायं
शयानो
यस्य
शोचसि
।
जानासि
किं
सखायं
मां
येनाग्रे
विचचर्थ
ह
53
▾
Meaning
Keep
अपि
स्मरसि
चात्मानमविज्ञातसखं
सखे
।
हित्वा
मां
पदमन्विच्छन्
भौमभोगरतो
गतः
54
▾
Meaning
Keep
हंसावहं
च
त्वं
चार्य
सखायौ
मानसायनौ
।
अभूतामन्तरा
वौकः
सहस्रपरिवत्सरान्
55
▾
Meaning
Keep
स
त्वं
विहाय
मां
बन्धो
गतो
ग्राम्यमतिर्महीम्
।
विचरन्
पदमद्राक्षीः
कयाचिन्निर्मितं
स्त्रिया
56
▾
Meaning
Keep
पञ्चारामं
नवद्वारमेकपालं
त्रिकोष्ठकम्
।
षट्कुलं
पञ्चविपणं
पञ्चप्रकृति
स्त्रीधवम्
57
▾
Meaning
Keep
पञ्चेन्द्रियार्था
आरामा
द्वारः
प्राणा
नव
प्रभो
।
तेजोऽबन्नानि
कोष्ठानि
कुलमिन्द्रियसंग्रहः
58
▾
Meaning
Keep
विपणस्तु
क्रिया
शक्तिर्भूतप्रकृतिरव्यया
।
शक्त्यधीशः
पुमांस्त्वत्र
प्रविष्टो
नावबुध्यते
59
▾
Meaning
Keep
तस्मिंस्त्वं
रामया
स्पृष्टो
रममाणोऽश्रुतस्मृतिः
।
तत्सङ्गादीदृशीं
प्राप्तो
दशां
पापीयसीं
प्रभो
60
▾
Meaning
Keep
न
त्वं
विदर्भदुहिता
नायं
वीरः
सुहृत्तव
।
न
पतिस्त्वं
पुरञ्जन्या
रुद्धो
नवमुखे
यया
61
▾
Meaning
Keep
माया
ह्येषा
मया
सृष्टा
यत्पुमांसं
स्त्रियं
सतीम्
।
मन्यसे
नोभयं
यद्वै
हंसौ
पश्यावयोर्गतिम्
62
▾
Meaning
Keep
अहं
भवान्
न
चान्यस्त्वं
त्वमेवाहं
विचक्ष्व
भोः
।
न
नौ
पश्यन्ति
कवयश्छिद्रं
जातु
मनागपि
63
▾
Meaning
Keep
यथा
पुरुष
आत्मानमेकमादर्शचक्षुषोः
।
द्विधाभूतमवेक्षेत
तथैवान्तरमावयोः
64
▾
Meaning
Keep
एवं
स
मानसो
हंसो
हंसेन
प्रतिबोधितः
।
स्वस्थस्तद्व्यभिचारेण
नष्टामाप
पुनः
स्मृतिम्
65
▾
Meaning
Keep
बर्हिष्मन्नेतदध्यात्मं
पारोक्ष्येण
प्रदर्शितम्
।
यत्परोक्षप्रियो
देवो
भगवान्
विश्वभावनः
Previous
←
The Years Pass and Time's Daughter Comes
Next
Narada Names the Parts of the City
→