Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Years Pass and Time's Daughter Comes
Śrīmad Bhāgavatam
›
Canto 4
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
इत्थं
पुरञ्जनं
सध्र्यग्
वशमानीय
विभ्रमैः
।
पुरञ्जनी
महाराज
रेमे
रमयती
पतिम्
2
▾
Meaning
Keep
स
राजा
महिषीं
राजन्
सुस्नातां
रुचिराननाम्
।
कृतस्वस्त्ययनां
तृप्तामभ्यनन्ददुपागताम्
3
▾
Meaning
Keep
तयोपगूढः
परिरब्धकन्धरो
रहोऽनुमन्त्रैरपकृष्टचेतनः
।
न
कालरंहो
बुबुधे
दुरत्ययं
दिवानिशेति
प्रमदापरिग्रहः
4
▾
Meaning
Keep
शयान
उन्नद्धमदो
महामना
महार्हतल्पे
महिषीभुजोपधिः
।
तामेव
वीरो
मनुते
परं
यत-
स्तमोऽभिभूतो
न
निजं
परं
च
यत्
5
▾
Meaning
Keep
तयैवं
रममाणस्य
कामकश्मलचेतसः
।
क्षणार्धमिव
राजेन्द्र
व्यतिक्रान्तं
नवं
वयः
6
▾
Meaning
Keep
तस्यामजनयत्पुत्रान्
पुरञ्जन्यां
पुरञ्जनः
।
शतान्येकादश
विराडायुषोऽर्धमथात्यगात्
7
▾
Meaning
Keep
दुहितॄर्दशोत्तरशतं
पितृमातृयशस्करीः
।
शीलौदार्यगुणोपेताः
पौरञ्जन्यः
प्रजापते
8
▾
Meaning
Keep
स
पञ्चालपतिः
पुत्रान्
पितृवंशविवर्धनान्
।
दारैः
संयोजयामास
दुहितॄः
सदृशैर्वरैः
9
▾
Meaning
Keep
पुत्राणां
चाभवन्
पुत्रा
एकैकस्य
शतं
शतम्
।
यैर्वै
पौरञ्जनो
वंशः
पञ्चालेषु
समेधितः
10
▾
Meaning
Keep
तेषु
तद्रिक्थहारेषु
गृहकोशानुजीविषु
।
निरूढेन
ममत्वेन
विषयेष्वन्वबध्यत
11
▾
Meaning
Keep
ईजे
च
क्रतुभिर्घोरैर्दीक्षितः
पशुमारकैः
।
देवान्
पितॄन्
भूतपतीन्
नानाकामो
यथा
भवान्
12
▾
Meaning
Keep
युक्तेष्वेवं
प्रमत्तस्य
कुटुम्बासक्तचेतसः
।
आससाद
स
वै
कालो
योऽप्रियः
प्रिययोषिताम्
13
▾
Meaning
Keep
चण्डवेग
इति
ख्यातो
गन्धर्वाधिपतिर्नृप
।
गन्धर्वास्तस्य
बलिनः
षष्ट्युत्तरशतत्रयम्
14
▾
Meaning
Keep
गन्धर्व्यस्तादृशीरस्य
मैथुन्यश्च
सितासिताः
।
परिवृत्त्या
विलुम्पन्ति
सर्वकामविनिर्मिताम्
15
▾
Meaning
Keep
ते
चण्डवेगानुचराः
पुरञ्जनपुरं
यदा
।
हर्तुमारेभिरे
तत्र
प्रत्यषेधत्प्रजागरः
16
▾
Meaning
Keep
स
सप्तभिः
शतैरेको
विंशत्या
च
शतं
समाः
।
पुरञ्जनपुराध्यक्षो
गन्धर्वैर्युयुधे
बली
17
▾
Meaning
Keep
क्षीयमाणे
स्वसम्बन्धे
एकस्मिन्
बहुभिर्युधा
।
चिन्तां
परां
जगामार्तः
स
राष्ट्रपुरबान्धवः
18
▾
Meaning
Keep
स
एव
पुर्यां
मधुभुक्
पञ्चालेषु
स्वपार्षदैः
।
उपनीतं
बलिं
गृह्णन्
स्त्रीजितो
नाविदद्भयम्
19
▾
Meaning
Keep
कालस्य
दुहिता
काचित्त्रिलोकीं
वरमिच्छती
।
पर्यटन्ती
न
बर्हिष्मन्
प्रत्यनन्दत
कश्चन
20
▾
Meaning
Keep
दौर्भाग्येनात्मनो
लोके
विश्रुता
दुर्भगेति
सा
।
या
तुष्टा
राजर्षये
तु
वृतादात्पूरवे
वरम्
21
▾
Meaning
Keep
कदाचिदटमाना
सा
ब्रह्मलोकान्महीं
गतम्
।
वव्रे
बृहद्व्रतं
मां
तु
जानती
काममोहिता
22
▾
Meaning
Keep
मयि
संरभ्य
विपुलमदाच्छापं
सुदुःसहम्
।
स्थातुमर्हसि
नैकत्र
मद्याच्ञाविमुखो
मुने
23
▾
Meaning
Keep
ततो
विहतसङ्कल्पा
कन्यका
यवनेश्वरम्
।
मयोपदिष्टमासाद्य
वव्रे
नाम्ना
भयं
पतिम्
24
▾
Meaning
Keep
ऋषभं
यवनानां
त्वां
वृणे
वीरेप्सितं
पतिम्
।
सङ्कल्पस्त्वयि
भूतानां
कृतः
किल
न
रिष्यति
25
▾
Meaning
Keep
द्वाविमावनुशोचन्ति
बालावसदवग्रहौ
।
यल्लोकशास्त्रोपनतं
न
राति
न
तदिच्छति
26
▾
Meaning
Keep
अथो
भजस्व
मां
भद्र
भजन्तीं
मे
दयां
कुरु
।
एतावान्
पौरुषो
धर्मो
यदार्ताननुकम्पते
27
▾
Meaning
Keep
कालकन्योदितवचो
निशम्य
यवनेश्वरः
।
चिकीर्षुर्देवगुह्यं
स
सस्मितं
तामभाषत
28
▾
Meaning
Keep
मया
निरूपितस्तुभ्यं
पतिरात्मसमाधिना
।
नाभिनन्दति
लोकोऽयं
त्वामभद्रामसम्मताम्
29
▾
Meaning
Keep
त्वमव्यक्तगतिर्भुङ्क्ष्व
लोकं
कर्मविनिर्मितम्
।
या
हि
मे
पृतना
युक्ता
प्रजानाशं
प्रणेष्यसि
30
▾
Meaning
Keep
प्रज्वारोऽयं
मम
भ्राता
त्वं
च
मे
भगिनी
भव
।
चराम्युभाभ्यां
लोकेऽस्मिन्नव्यक्तो
भीमसैनिकः
Previous
←
Puranjana Goes Hunting
Next
The City Burns and the Swan Remembers
→