Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Boon the Pracetas Asked For
Śrīmad Bhāgavatam
›
Canto 4
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
ये
त्वयाभिहिता
ब्रह्मन्
सुताः
प्राचीनबर्हिषः
।
ते
रुद्रगीतेन
हरिं
सिद्धिमापुः
प्रतोष्य
काम्
2
▾
Meaning
Keep
किं
बार्हस्पत्येह
परत्र
वाथ
कैवल्यनाथप्रियपार्श्ववर्तिनः
।
आसाद्य
देवं
गिरिशं
यदृच्छया
प्रापुः
परं
नूनमथ
प्रचेतसः
3
▾
Meaning
Keep
प्रचेतसोऽन्तरुदधौ
पितुरादेशकारिणः
।
जपयज्ञेन
तपसा
पुरञ्जनमतोषयन्
4
▾
Meaning
Keep
दशवर्षसहस्रान्ते
पुरुषस्तु
सनातनः
।
तेषामाविरभूत्कृच्छ्रं
शान्तेन
शमयन्
रुचा
5
▾
Meaning
Keep
सुपर्णस्कन्धमारूढो
मेरुशृङ्गमिवाम्बुदः
।
पीतवासा
मणिग्रीवः
कुर्वन्
वितिमिरा
दिशः
6
▾
Meaning
Keep
काशिष्णुना
कनकवर्णविभूषणेन
भ्राजत्कपोलवदनो
विलसत्किरीटः
।
अष्टायुधैरनुचरैर्मुनिभिः
सुरेन्द्रै-
रासेवितो
गरुडकिन्नरगीतकीर्तिः
7
▾
Meaning
Keep
पीनायताष्टभुजमण्डलमध्यलक्ष्म्या
स्पर्धच्छ्रिया
परिवृतो
वनमालयाऽऽद्यः
।
बर्हिष्मतः
पुरुष
आह
सुतान्
प्रपन्नान्
पर्जन्यनादरुतया
सघृणावलोकः
8
▾
Meaning
Keep
श्रीभगवानुवाच ।
वरं वृणीध्वं भद्रं वो यूयं मे नृपनन्दनाः ।
सौहार्देनापृथग्धर्मास्तुष्टोऽहं सौहृदेन वः
9
▾
Meaning
Keep
योऽनुस्मरति
सन्ध्यायां
युष्माननुदिनं
नरः
।
तस्य
भ्रातृष्वात्मसाम्यं
तथा
भूतेषु
सौहृदम्
10
▾
Meaning
Keep
ये
तु
मां
रुद्रगीतेन
सायं
प्रातः
समाहिताः
।
स्तुवन्त्यहं
कामवरान्
दास्ये
प्रज्ञां
च
शोभनाम्
11
▾
Meaning
Keep
यद्यूयं
पितुरादेशमग्रहीष्ट
मुदान्विताः
।
अथो
व
उशती
कीर्तिर्लोकाननु
भविष्यति
12
▾
Meaning
Keep
भविता
विश्रुतः
पुत्रोऽनवमो
ब्रह्मणो
गुणैः
।
य
एतामात्मवीर्येण
त्रिलोकीं
पूरयिष्यति
13
▾
Meaning
Keep
कण्डोः
प्रम्लोचया
लब्धा
कन्या
कमललोचना
।
तां
चापविद्धां
जगृहुर्भूरुहा
नृपनन्दनाः
14
▾
Meaning
Keep
क्षुत्क्षामाया
मुखे
राजा
सोमः
पीयूषवर्षिणीम्
।
देशिनीं
रोदमानाया
निदधे
स
दयान्वितः
15
▾
Meaning
Keep
प्रजाविसर्ग
आदिष्टाः
पित्रा
मामनुवर्तता
।
तत्र
कन्यां
वरारोहां
तामुद्वहत
मा
चिरम्
16
▾
Meaning
Keep
अपृथग्धर्मशीलानां
सर्वेषां
वः
सुमध्यमा
।
अपृथग्धर्मशीलेयं
भूयात्पत्न्यर्पिताशया
17
▾
Meaning
Keep
दिव्यवर्षसहस्राणां
सहस्रमहतौजसः
।
भौमान्
भोक्ष्यथ
भोगान्
वै
दिव्यांश्चानुग्रहान्मम
18
▾
Meaning
Keep
अथ
मय्यनपायिन्या
भक्त्या
पक्वगुणाशयाः
।
उपयास्यथ
मद्धाम
निर्विद्य
निरयादतः
19
▾
Meaning
Keep
गृहेष्वाविशतां
चापि
पुंसां
कुशलकर्मणाम्
।
मद्वार्ता
यातयामानां
न
बन्धाय
गृहा
मताः
20
▾
Meaning
Keep
न
व्यवद्धृदये
यज्ज्ञो
ब्रह्मैतद्ब्रह्मवादिभिः
।
न
मुह्यन्ति
न
शोचन्ति
न
हृष्यन्ति
यतो
गताः
Hymn
21
▾
Meaning
Keep
एवं
ब्रुवाणं
पुरुषार्थभाजनं
जनार्दनं
प्राञ्जलयः
प्रचेतसः
।
तद्दर्शनध्वस्ततमोरजोमला
गिरागृणन्
गद्गदया
सुहृत्तमम्
22
▾
Meaning
Keep
नमो
नमः
क्लेशविनाशनाय
निरूपितोदारगुणाह्वयाय
।
मनोवचोवेगपुरोजवाय
सर्वाक्षमार्गैरगताध्वने
नमः
23
▾
Meaning
Keep
शुद्धाय
शान्ताय
नमः
स्वनिष्ठया
मनस्यपार्थं
विलसद्द्वयाय
।
नमो
जगत्स्थानलयोदयेषु
गृहीतमायागुणविग्रहाय
24
▾
Meaning
Keep
नमो
विशुद्धसत्त्वाय
हरये
हरिमेधसे
।
वासुदेवाय
कृष्णाय
प्रभवे
सर्वसात्वताम्
25
▾
Meaning
Keep
नमः
कमलनाभाय
नमः
कमलमालिने
।
नमः
कमलपादाय
नमस्ते
कमलेक्षण
26
▾
Meaning
Keep
नमः
कमलकिञ्जल्कपिशङ्गामलवाससे
।
सर्वभूतनिवासाय
नमोऽयुङ्क्ष्महि
साक्षिणे
27
▾
Meaning
Keep
रूपं
भगवता
त्वेतदशेषक्लेशसंक्षयम्
।
आविष्कृतं
नः
क्लिष्टानां
किमन्यदनुकम्पितम्
28
▾
Meaning
Keep
एतावत्त्वं
हि
विभुभिर्भाव्यं
दीनेषु
वत्सलैः
।
यदनुस्मर्यते
काले
स्वबुद्ध्याभद्ररन्धन
29
▾
Meaning
Keep
येनोपशान्तिर्भूतानां
क्षुल्लकानामपीह
ताम्
।
अन्तर्हितोऽन्तर्हृदये
कस्मान्नो
वेद
नाशिषः
30
▾
Meaning
Keep
असावेव
वरोऽस्माकमीप्सितो
जगतः
पते
।
प्रसन्नो
भगवान्
येषामपवर्गगुरुर्गतिः
31
▾
Meaning
Keep
वरं
वृणीमहेऽथापि
नाथ
त्वत्परतः
परात्
।
न
ह्यन्तस्त्वद्विभूतीनां
सोऽनन्त
इति
गीयसे
32
▾
Meaning
Keep
पारिजातेऽञ्जसा
लब्धे
सारङ्गोऽन्यन्न
सेवते
।
त्वदङ्घ्रिमूलमासाद्य
साक्षात्किं
किं
वृणीमहि
33
▾
Meaning
Keep
यावत्ते
मायया
स्पृष्टा
भ्रमाम
इह
कर्मभिः
।
तावद्भवत्प्रसङ्गानां
सङ्गः
स्यान्नो
भवे
भवे
34
▾
Meaning
Keep
तुलयाम
लवेनापि
न
स्वर्गं
नापुनर्भवम्
।
भगवत्सङ्गिसङ्गस्य
मर्त्यानां
किमुताशिषः
35
▾
Meaning
Keep
यत्रेड्यन्ते
कथा
मृष्टास्तृष्णायाः
प्रशमो
यतः
।
निर्वैरं
यत्र
भूतेषु
नोद्वेगो
यत्र
कश्चन
36
▾
Meaning
Keep
यत्र
नारायणः
साक्षाद्भगवान्
न्यासिनां
गतिः
।
संस्तूयते
सत्कथासु
मुक्तसङ्गैः
पुनः
पुनः
37
▾
Meaning
Keep
तेषां
विचरतां
पद्भ्यां
तीर्थानां
पावनेच्छया
।
भीतस्य
किं
न
रोचेत
तावकानां
समागमः
38
▾
Meaning
Keep
वयं
तु
साक्षाद्भगवन्
भवस्य
प्रियस्य
सख्युः
क्षणसङ्गमेन
।
सुदुश्चिकित्स्यस्य
भवस्य
मृत्यो-
र्भिषक्तमं
त्वाद्य
गतिं
गताः
स्म
39
▾
Meaning
Keep
यन्नः
स्वधीतं
गुरवः
प्रसादिता
विप्राश्च
वृद्धाश्च
सदानुवृत्त्या
।
आर्या
नताः
सुहृदो
भ्रातरश्च
सर्वाणि
भूतान्यनसूययैव
40
▾
Meaning
Keep
यन्नः
सुतप्तं
तप
एतदीश
निरन्धसां
कालमदभ्रमप्सु
।
सर्वं
तदेतत्पुरुषस्य
भूम्नो
वृणीमहे
ते
परितोषणाय
41
▾
Meaning
Keep
मनुः
स्वयम्भूर्भगवान्
भवश्च
येऽन्ये
तपोज्ञानविशुद्धसत्त्वाः
।
अदृष्टपारा
अपि
यन्महिम्नः
स्तुवन्त्यथो
त्वात्मसमं
गृणीमः
42
▾
Meaning
Keep
नमः
समाय
शुद्धाय
पुरुषाय
पराय
च
।
वासुदेवाय
सत्त्वाय
तुभ्यं
भगवते
नमः
43
▾
Meaning
Keep
इति
प्रचेतोभिरभिष्टुतो
हरिः
प्रीतस्तथेत्याह
शरण्यवत्सलः
।
अनिच्छतां
यानमतृप्तचक्षुषां
ययौ
स्वधामानपवर्गवीर्यः
44
▾
Meaning
Keep
अथ
निर्याय
सलिलात्प्रचेतस
उदन्वतः
।
वीक्ष्याकुप्यन्
द्रुमैश्छन्नां
गां
गां
रोद्धुमिवोच्छ्रितैः
45
▾
Meaning
Keep
ततोऽग्निमारुतौ
राजन्नमुञ्चन्
मुखतो
रुषा
।
महीं
निर्वीरुधं
कर्तुं
संवर्तक
इवात्यये
46
▾
Meaning
Keep
भस्मसात्क्रियमाणांस्तान्
द्रुमान्
वीक्ष्य
पितामहः
।
आगतः
शमयामास
पुत्रान्
बर्हिष्मतो
नयैः
47
▾
Meaning
Keep
तत्रावशिष्टा
ये
वृक्षा
भीता
दुहितरं
तदा
।
उज्जह्रुस्ते
प्रचेतोभ्य
उपदिष्टाः
स्वयम्भुवा
48
▾
Meaning
Keep
ते
च
ब्रह्मण
आदेशान्मारिषामुपयेमिरे
।
यस्यां
महदवज्ञानादजन्यजनयोनिजः
49
▾
Meaning
Keep
चाक्षुषे
त्वन्तरे
प्राप्ते
प्राक्सर्गे
कालविद्रुते
।
यः
ससर्ज
प्रजा
इष्टाः
स
दक्षो
दैवचोदितः
50
▾
Meaning
Keep
यो
जायमानः
सर्वेषां
तेजस्तेजस्विनां
रुचा
।
स्वयोपादत्त
दाक्ष्याच्च
कर्मणां
दक्षमब्रुवन्
51
▾
Meaning
Keep
तं
प्रजासर्गरक्षायामनादिरभिषिच्य
च
।
युयोज
युयुजेऽन्यांश्च
स
वै
सर्वप्रजापतीन्
Previous
←
Narada Names the Parts of the City
Next
Narada Comes to the Pracetas
→