Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Agnidhra and the Woman Sent from Heaven
Śrīmad Bhāgavatam
›
Canto 5
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
एवं
पितरि
सम्प्रवृत्ते
तदनुशासने
वर्तमान
आग्नीध्रो
जम्बूद्वीपौकसः
प्रजा
औरसवद्धर्मावेक्षमाणः
पर्यगोपायत्
2
▾
Meaning
Keep
स
च
कदाचित्पितृलोककामः
सुरवरवनिताक्रीडाचलद्रोण्यां
भगवन्तं
विश्वसृजां
पतिमाभृतपरिचर्योपकरण
आत्मैकाग्र्येण
तपस्व्याराधयां
बभूव
3
▾
Meaning
Keep
तदुपलभ्य
भगवानादिपुरुषः
सदसि
गायन्तीं
पूर्वचित्तिं
नामाप्सरसमभियापयामास
4
▾
Meaning
Keep
सा
च
तदाश्रमोपवनमतिरमणीयं
विविधनिबिडविटपि-
विटपनिकरसंश्लिष्टपुरटलतारूढस्थलविहङ्गममिथुनैः
प्रोच्यमानश्रुतिभिः
प्रतिबोध्यमानसलिलकुक्कुटकारण्डव-
कलहंसादिभिर्विचित्रमुपकूजितामलजलाशयकमलाकर-
मुपबभ्राम
5
▾
Meaning
Keep
तस्याः
सुललितगमनपदविन्यासगतिविलासायाश्चानुपदं
खणखणायमानरुचिरचरणाभरणस्वनमुपाकर्ण्य
नरदेवकुमारः
समाधियोगेनामीलितनयननलिनमुकुल-
युगलमीषद्विकचय्य
व्यचष्ट
6
▾
Meaning
Keep
तामेवाविदूरे
मधुकरीमिव
सुमनस
उपजिघ्रन्तीं
दिविजमनुजमनोनयनाह्लाददुघैर्गतिविहारव्रीडा-
विनयावलोकसुस्वराक्षरावयवैर्मनसि
नृणां
कुसुमायुधस्य
विदधतीं
विवरं
निजमुखविगलितामृतासवसहास-
भाषणामोदमदान्धमधुकरनिकरोपरोधेन
द्रुतपदविन्यासेन
वल्गुस्पन्दनस्तनकलशकबरभाररशनां
देवीं
तदवलोकनेन
विवृतावसरस्य
भगवतो
मकरध्वजस्य
वशमुपनीतो
जडवदिति
होवाच
7
▾
Meaning
Keep
का
त्वं
चिकीर्षसि
च
किं
मुनिवर्य
शैले
मायासि
कापि
भगवत्परदेवतायाः
।
विज्ये
बिभर्षि
धनुषी
सुहृदात्मनोऽर्थे
किं
वा
मृगान्
मृगयसे
विपिने
प्रमत्तान्
8
▾
Meaning
Keep
बाणाविमौ
भगवतः
शतपत्रपत्रौ
शान्तावपुङ्खरुचिरावतितिग्मदन्तौ
।
कस्मै
युयुङ्क्षसि
वने
विचरन्
न
विद्मः
क्षेमाय
नो
जडधियां
तव
विक्रमोऽस्तु
9
▾
Meaning
Keep
शिष्या
इमे
भगवतः
परितः
पठन्ति
गायन्ति
साम
सरहस्यमजस्रमीशम्
।
युष्मच्छिखाविलुलिताः
सुमनोऽभिवृष्टीः
सर्वे
भजन्त्यृषिगणा
इव
वेदशाखाः
10
▾
Meaning
Keep
वाचं
परं
चरणपञ्जरतित्तिरीणां
ब्रह्मन्नरूपमुखरां
शृणवाम
तुभ्यम्
।
लब्धा
कदम्बरुचिरङ्कविटङ्कबिम्बे
यस्यामलातपरिधिः
क्व
च
वल्कलं
ते
11
▾
Meaning
Keep
किं
सम्भृतं
रुचिरयोर्द्विज
शृङ्गयोस्ते
मध्ये
कृशो
वहसि
यत्र
दृशिः
श्रिता
मे
।
पङ्कोऽरुणः
सुरभिरात्मविषाण
ईदृग्
येनाश्रमं
सुभग
मे
सुरभीकरोषि
12
▾
Meaning
Keep
लोकं
प्रदर्शय
सुहृत्तम
तावकं
मे
यत्रत्य
इत्थमुरसावयवावपूर्वौ
।
अस्मद्विधस्य
मन
उन्नयनौ
बिभर्ति
बह्वद्भुतं
सरसराससुधादिवक्त्रे
13
▾
Meaning
Keep
का
वाऽऽत्मवृत्तिरदनाद्धविरङ्ग
वातिविष्णोः
कलास्यनिमिषोन्मकरौ
च
कर्णौ
।
उद्विग्नमीनयुगलं
द्विजपङ्क्तिशोचि-रासन्नभृङ्गनिकरं
सर
इन्मुखं
ते
14
▾
Meaning
Keep
योऽसौ
त्वया
करसरोजहतः
पतङ्गो
दिक्षु
भ्रमन्
भ्रमत
एजयतेऽक्षिणी
मे
मुक्तं
न
ते
स्मरसि
वक्रजटावरूथं
कष्टोऽनिलो
हरति
लम्पट
एष
नीवीम्
15
▾
Meaning
Keep
रूपं
तपोधन
तपश्चरतां
तपोघ्नं
ह्येतत्तु
केन
तपसा
भवतोपलब्धम्
।
चर्तुं
तपोऽर्हसि
मया
सह
मित्र
मह्यं
किं
वा
प्रसीदति
स
वै
भवभावनो
मे
16
▾
Meaning
Keep
न
त्वां
त्यजामि
दयितं
द्विजदेवदत्तं
यस्मिन्
मनो
दृगपि
नो
न
वियाति
लग्नम्
।
मां
चारुशृङ्ग्यर्हसि
नेतुमनुव्रतं
ते
चित्तं
यतः
प्रतिसरन्तु
शिवाः
सचिव्यः
17
▾
Meaning
Keep
इति
ललनानुनयातिविशारदो
ग्राम्यवैदग्ध्यया
परिभाषया
तां
विबुधवधूं
विबुधमतिरधिसभा-
जयामास
18
▾
Meaning
Keep
सा
च
ततस्तस्य
वीरयूथपतेर्बुद्धिशीलरूपवयः-
श्रियौदार्येण
पराक्षिप्तमनास्तेन
सहायुतायुत-
परिवत्सरोपलक्षणं
कालं
जम्बूद्वीपपतिना
भौमस्वर्गभोगान्
बुभुजे
19
▾
Meaning
Keep
तस्यामु
ह
वा
आत्मजान्
स
राजवर
आग्नीध्रो
नाभिकिम्पुरुषहरिवर्षेलावृतरम्यकहिरण्मयकुरुभद्राश्व-
केतुमालसंज्ञान्
नव
पुत्रानजनयत्
20
▾
Meaning
Keep
सा
सूत्वाथ
सुतान्
नवानुवत्सरं
गृह
एवापहाय
पूर्वचित्तिर्भूय
एवाजं
देवमुपतस्थे
21
▾
Meaning
Keep
आग्नीध्रसुतास्ते
मातुरनुग्रहादौत्पत्तिकेनैव
संहननबलोपेताः
पित्रा
विभक्ता
आत्मतुल्यनामानि
यथाभागं
जम्बूद्वीपवर्षाणि
बुभुजुः
22
▾
Meaning
Keep
आग्नीध्रो
राजातृप्तः
कामानामप्सरसमेवानुदिन-
मधिमन्यमानस्तस्याः
सलोकतां
श्रुतिभिरवारुन्ध
यत्र
पितरो
मादयन्ते
23
▾
Meaning
Keep
सम्परेते
पितरि
नव
भ्रातरो
मेरुदुहितॄर्मेरुदेवीं
प्रतिरूपा-
मुग्रदंष्ट्रीं
लतां
रम्यां
श्यामां
नारीं
भद्रां
देववीतिमिति
संज्ञा
नवोदवहन्
Previous
←
Priyavrata Takes the Earth
Next
Nabhi's Sacrifice and the Promise of a Son
→