Hymn
ऋत्विज ऊचुःअर्हसि मुहुरर्हत्तमार्हणमस्माकमनुपथानां नमो नम इत्येतावत्सदुपशिक्षितं कोऽर्हति पुमान् प्रकृतिगुणव्यतिकरमतिरनीश ईश्वरस्य परस्य प्रकृतिपुरुषयोरर्वाक्तनाभिर्नामरूपाकृतिभी रूपनिरूपणम्
श्रीभगवानुवाच ।अहो बताहमृषयो भवद्भिरवितथगीर्भिर्वरमसुलभ-मभियाचितो यदमुष्यात्मजो मया सदृशो भूयादितिममाहमेवाभिरूपः कैवल्यादथापि ब्रह्मवादो न मृषाभवितुमर्हति ममैव हि मुखं यद्द्विजदेवकुलम्